पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०४४ पद्मपुराणम्
अध्यायः ०४५
वेदव्यासः
अध्यायः ०४६ →

श्रीकृष्ण उवाच-
माहात्म्यं विजयायाश्च श्रुतं कृष्ण महत्फलम् ।
फाल्गुनस्यार्जुने पक्षे यन्नाम्नी तां वदाधुना १।
श्रीकृष्ण उवाच-।
धर्मपुत्र महाभाग शृणु वक्ष्यामितेऽधुना ।
योक्ता पृष्टेन मांधात्रा वसिष्ठेन महात्मना २।
फाल्गुनस्य विशेषेण विशेषः कथितो नृप ।
आमलकीव्रतं पुण्यं विष्णुलोकफलप्रदम् ३।
आमलक्यास्तले गत्वा जागरं तत्र कारयेत् ।
कृत्वा जागरणं रात्रौ गोसहस्रफलं लभेत् ४।
मांधातोवाच -
आमलकी कदा ह्येषा उत्पन्ना द्विजसत्तम ।
एतत्सर्वं ममाचक्ष्व परं कौतूहलं हि मे ५।
कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी ।
कस्माज्जागरणं कृत्वा गोसहस्रफलं लभेत् ६।
वसिष्ठ उवाच-
कथयामि महाभाग यथेयमभवत्क्षितौ ।
आमलकी महावृक्षः सर्वपापप्रणाशनः ७।
एकार्णवे पुरा जाते नष्टे स्थावरजंगमे ।
नष्टे देवासुरगणे प्रणष्टोरगराक्षसे ८।
तत्र देवादिदेवेशः परमात्मा सनातनः ।
जगाम ब्रह्मपरममात्मनः पदमव्ययम् ९।
ततोऽस्य जाग्रतो ब्रह्ममुखाच्छशिसमप्रभः ।
ष्ठीवनाद्बिंदुरुत्पन्नः स भूमौ निपपात ह १०।
तस्माद्बिंदोः समुत्पन्नः स्वयं धात्री नगो महान् ।
शाखाप्रशाखाबहुलः फलभारेण नामितः ११।
सर्वेषां चैव वृक्षाणामादिरोहः प्रकीर्तितः ।
ब्रह्मणाथ ततः पश्चात्संसृष्टाश्च इमाः प्रजाः १२।
देवदानवगंधर्वयक्षराक्षसपन्नगान् ।
असृजद्भगवान्देवो महर्षींश्च तथामलान् १३।
आजग्मुस्तत्र देवास्ते यत्र धात्री हरिप्रिया ।
तां दृष्ट्वा ते महाभाग परं विस्मयमागताः १४।
न जानीम इमं वृक्षं चिंतयंतोऽभिसंस्थिताः ।
एवं चिंतयतां तेषां वागुवाचाशरीरिणी १५।
आमलकी नगो ह्येष प्रवरो वैष्णवो मतः ।
अस्य संस्मरणादेव लभेद्गोदानजं फलम् १६।
स्पर्शनाद्द्विगुणं पुण्यं त्रिगुणं धारणात्तथा ।
तस्मात्सर्वप्रयत्नेन सेव्या आमलकी सदा १७।
सर्वपापहरा प्रोक्ता वैष्णवी पापनाशिनी ।
तस्या मूले स्थितो विष्णुस्तदूर्ध्वे च पितामहः १८।
स्कंधे च भगवान्रुद्रः संस्थितः परमेश्वरः ।
शाखासु मुनयः सर्वे प्रशाखासु च देवताः १९।
पर्णेषु चासते देवाः पुष्पेषु मरुतस्तथा ।
प्रजानां पतयः सर्वे फलेष्वेव व्यवस्थिताः २०।
सर्वदेवमयी ह्येषा धात्री च कथिता मया ।
तस्मात्पूज्यतमा ह्येषा विष्णुभक्तिपरायणैः २१।
ऋषय ऊचुः -
को भवान्न हि जानीमः कस्मात्कारणतां गतः ।
देवो वा यदि वा चान्यः कथयस्व यथातथम् २२।
वागुवाच -
यः कर्ता सर्वभूतानां भुवनानां च सर्वशः ।
विस्मितान्विदुषः प्रेक्ष्य सोऽहं विष्णुः सनातनः २३।
तच्छ्रुत्वा देवदेवस्य भाषितं ब्रह्मणः सुताः ।
अनादिनिधनं देवं स्तोतुं तत्र प्रचक्रमुः २४।
नमो भूतात्मभूताय आत्मने परमात्मने ।
अच्युताय नमो नित्यमनंताय नमो नमः २५।
दामोदराय कवये यज्ञेशाय नमो नमः ।
एवं स्तुतस्तु ऋषिभिस्तुतोष भगवान्हरिः २६।
प्रत्युवाच महर्षींस्तानभीष्टं किं ददामि वः ।
ऋषय ऊचुः
यदि तुष्टोऽसि भगवन्नस्माकं हितकाम्यया २७।
व्रतं किंचित्समाख्याहि स्वर्गमोक्षफलप्रदम् ।
धनधान्यप्रदं पुण्यमात्मनस्तुष्टिकारकम् २८।
अल्पायासं बहुफलं व्रतानामुत्तमं व्रतम् ।
कृतेन येन देवेश विष्णुलोके महीयते २९।
विष्णुरुवाच-
फाल्गुने शुक्लपक्षे तु पुष्येण द्वादशी यदि ।
भवेत्सा च महापुण्या महापातकनाशिनी ३०।
विशेषस्तत्र कर्त्तव्यः शृणुध्वं द्विजसत्तमाः ।
आमलकीं च संप्राप्य जागरं तत्र कारयेत् ३१।
सर्वपापविनिर्मुक्तो गोसहस्रफलं लभेत् ।
एतद्वः कथितं विप्रा व्रतानां व्रतमुत्तमम् ।
अर्चयित्वाच्युतं तस्यां विष्णुलोकान्न मुच्यते ३२।
ऋषय ऊचुः -
व्रतस्यास्य विधिं ब्रूहि परिपूर्णं कथं भवेत् ।
के मंत्राः के नमस्काराः देवता का प्रकीर्तिता ३३।
कथं दानं कथं स्नानं कश्च पूजाविधिः स्मृतः ।
अर्घार्चनस्य मंत्रं तु कथयस्व यथातथम् ३४।
विष्णुरुवाच-
श्रूयतां यो विधिः सम्यग्व्रतस्यास्य द्विजर्षभाः ।
एकादश्यां निराहारः स्थित्वा चैव परेऽहनि ३५।
भोक्ष्येऽहं पुंडरीकाक्ष शरणं मे भवाच्युत ।
इति कृत्वा तु नियमं दंतधावनपूर्वकम् ३६।
नालपेत्पतितांश्चौरांस्तथा पाषंडिनो नरान् ।
दुर्वृत्तान्भिन्नमर्यादान्गुरुदारप्रधर्षकान् ३७।
अपराह्णे ततः स्नानं विधिना कारयेद्बुधः ।
नद्यां तडागे कूपे वा गृहे वा नियतात्मवान् ३८।
मृत्तिकालंभनं पूर्वं ततः स्नानं च कारयेत् ।
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ३९।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ४०। इति मृत्तिकामंत्रः ।
त्वमंबु सर्वभूतानां जीवनं तनुरक्षकम् ।
स्वेदजोद्भिज्जजातीनां रसानां पतये नमः ४१।
स्नातोऽहं सर्वतीर्थेषु ह्रदप्रस्रवणेषु च ।
नदीषु देवखातेषु इदं स्नानं तु मे भवेत् ४२। इति स्नानमंत्रः ।
जामदग्न्यं मुनिं चैव कारयित्वा हिरण्मयम् ।
माषकस्य सुवर्णस्य तदर्द्धार्द्धेन वा पुनः ४३।
गृहमागत्य पूजायाः पूजाहोमं तु कारयेत् ।
ततश्चामलकीं गच्छेत्सर्वोपस्करसंयुतः ४४।
आमलकीं ततो गत्वा परिशोध्य समंततः ।
स्थापयेत्सततं कुंभमव्रणं मंत्रपूर्वकम् ४५।
पंचरत्नसमोपेतं दिव्यगंधाधिवासितम् ।
छत्रोपानद्युगोपेतं सितचंदनचर्चितम् ४६।
स्रग्दामलंबितग्रीवं सर्वधूपविधूपितम् ।
दीपमालाकुलं कुर्यात्सर्वतः सुमनोहरम् ४७।
तस्योपरि न्यसेत्पात्रं दिव्यलाजैः प्रपूरितम् ।
पात्रोपरि न्यसेद्देवं जामदग्न्यं महाप्रभम् ४८।
विशोकाय नमः पादौ जानुनी विश्वरूपिणे ।
उग्राय च ततोऽप्यूरू कटी दामोदराय च ४९।
उदरं पद्मनाभाय उरः श्रीवत्सधारिणे ।
चक्रिणे वामबाहुं च दक्षिणं गदिने नमः 6.45.५०।
वैकुंठाय नमः कंठमास्यं यज्ञमुखाय वै ।
नासां विशोकनिधये वासुदेवाय चाक्षिणी ५१।
ललाटं वामनायेति रामायेति भ्रुवौ नमः ।
सर्वात्मने तु तच्छीर्षं नम इत्यभिपूजयेत् ५२। इति पूजामंत्रः ।
ततो देवाधिदेवाय अर्घं चैव प्रदापयेत् ।
फलेन चैव शुभ्रेण भक्तियुक्तेन चेतसा ५३।
ततो जागरणं कुर्याद्भक्तियुक्तेन चेतसा ।
नृत्यैर्गीतैश्च वादित्रैर्द्धर्माख्यानैः स्तवैरपि ५४।
वैष्णवैश्च तथाख्यानैः क्षपयेत्सर्वशर्वरीम् ।
प्रदक्षिणां ततः कुर्याद्धात्र्या वै विष्णुनामभिः ५५।
अष्टाधिकं शतं चैव अष्टाविंशतिरेव वा ।
ततः प्रभाते समये कृत्वा नीराजनं हरेः ५६।
ब्राह्मणं पूजयित्वा तु सर्वं तस्मै निवेदयेत् ।
जामदग्न्य घटे तत्र वस्त्रयुग्ममुपानहौ ५७।
जामदग्न्यस्वरूपेण प्रीयतां मम केशवः ।
ततश्चामलकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणाम् ५८।
स्नानं कृत्वा विधानेन ब्राह्मणान्भोजयेत्ततः ।
ततश्च स्वयमश्नीयात्कुटुंबेन समावृतः ५९।
एवं कृतेन यत्पुण्यं तत्सर्वं कथयामि ते ।
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम् ६०।
सर्वयज्ञाधिकं चैव लभते नात्र संशयः ।
एतद्वः सर्वमाख्यातं व्रतानामुत्तमं व्रतम् ६१।
एतावदुक्त्वा देवेशस्तत्रैवांतरधीयत ।
ते चापि ऋषयः सर्वे चक्रुः सर्वमशेषतः ६२।
तथा त्वमपि राजेन्द्र कर्तुमर्हसि सत्तम ।
व्रतमेतद्दुराधर्षं सर्वपापप्रमोचनम् ६३।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे फाल्गुनशुक्लामलक्येकादशीनाम पंचचत्वारिंशोऽध्यायः४५।