पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०४५ पद्मपुराणम्
अध्यायः ०४६
वेदव्यासः
अध्यायः ०४७ →

युधिष्ठिर उवाच-
फाल्गुनस्य सिते पक्षे श्रुता चामलकी तथा ।
चैत्रस्य कृष्णपक्षे तु किं नामैकादशी भवेत् १।
श्रीकृष्ण उवाच-
शृणु राजेंद्र वक्ष्यामि आख्यानं पापनाशनम् ।
यल्लोमशोऽब्रवीत्पृष्टो मांधात्रा चक्रवर्तिना २।
मांधातोवाच -
भगवन्श्रोतुमिच्छामि लोकानां हितकाम्यया ।
चैत्रस्य प्रथमे पक्षे का नामैकादशी भवेत् ।
को विधिः किं फलं तस्याः कथयस्व प्रसादतः ३।
लोमश उवाच-
चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी ।
एकादशी समाख्याता पिशाचत्वविनाशिनी ४।
शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप ।
कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीम् ५।
पुरा चैत्ररथोद्देशे अप्सरोगणसेविते ।
वसंतसमये प्राप्ते षट्पदाकुलिते वने ६।
गंधर्वकन्यावादित्रै रमंति सह किंनरैः ।
पाकशासनमुख्याश्च क्रीडांते त्रिदिवौकसः ७।
नापरं सुखदं किंचिद्विना चैत्ररथाद्वनम् ।
तस्मिन्वने तु मुनयस्तपंति बहुलं तपः ८।
मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम् ।
अप्सरास्तं मुनिवरं मोहनायोपचक्रमे ९।
मंजुघोषेति विख्याता भावं तस्य वितन्वती ।
क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ १०।
गायंती मधुरं साधु पीडयंती विपंचिकाम् ।
गायंतीं तामथालोक्य पुष्पचंदनसेविताम् ११।
कामोऽपि विजयाकांक्षी शिवभक्तान्मुनीश्वरान् ।
तस्याः शरीरे संवासमकरोन्मनसः सुतः १२।
कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कटाक्षकम् ।
मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम् १३।
कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे ।
मंजुघोषाभवत्तस्य कामस्यैव वरूथिनी १४।
मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता ।
यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते १५।
सितोपवीतसहितो दृष्टः स्मर इवापरः ।
मेधावी वसते चासौ च्यवनस्याश्रमे शुभे १६।
मंजुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुंगवम् ।
मदनस्य वशं प्राप्ता मंदं मंदमगायत १७।
रणद्वलयसंयुक्तां शिंजन्नूपुरमेखलाम् ।
गायंतीं तां तथाभूतां विलोक्य मुनिपुंगवः १८।
मदनेन ससैन्येन नीतो मोहवशं बलात् ।
मंजुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम् १९।
हावभावकटाक्षैस्तं मोहयामास चांगना ।
अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम् २०।
वलितेव लता वृक्षं वातवेगेन कंपितम् ।
सोऽपि रेमे तया सार्द्धं मेधावी मुनिपुंगवः २१।
तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम् ।
शिवतत्वं गतं तस्य कामतत्त्ववशं गतः २२।
न निशां न दिनं सोऽपि रमन्जानाति कामुकः ।
बहुवर्षं गतः कालो मुनेराचारलोपतः २३।
मंजुघोषा देवलोकगमनायोपचक्रमे ।
गच्छंती तं प्रत्युवाच रमंतं मुनिसत्तमम् ।
आदेशो दीयतां ब्रह्मन्स्वदेशगमनाय मे २४।
मेधाव्युवाच-
अद्यैव त्वं समायाता प्रदोषादौ वरानने ।
यावत्प्रभातसंध्या स्यात्तावत्तिष्ठ ममांतिके ।
इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा २५।
पुनर्वै रमयामास तमृषिं नृपसत्तम ।
मुनेः शापभयाद्भीता बहुलान्परिवत्सरान् २६।
वर्षाणां पंचपंचाशन्नवमासदिनत्रयम् ।
सा रेमे मुनिना तस्य निशार्द्धमिव चाभवत् २७।
सा तं पुनरुवाचाथ तस्मिन्काले गते मुनिम् ।
आदेशो दीयतां ब्रह्मन्गंतव्यं स्वगृहे मया २८।
मेधाव्युवाच-
प्रभातमधुना चास्ते श्रूयतां वचनं मम ।
संध्या यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव २९।
इति वाक्यं मुनेः श्रुत्वा जातानंदसमाकुला ।
स्मितं कृत्वा तु सा किंचित्प्रत्युवाच शुचिस्मिता ३०।
अप्सरा उवाच-।
कियत्प्रमाणा विप्रेंद्र तव संध्या गतानघ ।
मयि प्रसादं कृत्वा तु गतकालो विचार्यताम् ३१।
इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः ।
गतकालस्य विप्रेंद्र प्रमाणमकरोत्तदा ३२।
समाश्च सप्तपंचाशद्गतास्तस्य तया सह ।
चुक्रोध सततस्तस्यै ज्वालामाली बभूव ह ३३।
नेत्राभ्यां विस्फुलिंगान्स मुंचमानोऽतिकोपनः ।
कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम् ३४।
दुःखार्जितं क्षयं नीतं तपोदृष्ट्वातयासह ।
सकंपोष्ठो मुनिस्तत्रप्रत्युवाचाकुलेंद्रियः ३५।
तां शशापाथमेधावी त्वं पिशाची भवेति च ।
धिक्त्वां पापे दुराचारे कुलटे पातकप्रिये ३६।
तस्य शापेन सा दग्धा विनयावनता स्थिता ।
उवाच वचनं सुभ्रूः प्रसादं वांछती मुनिम् ।
प्रसादं कुरु विप्रेंद्र शापस्यानुग्रहं कुरु ३७।
सतां संगो हि भवति वचोभिः सप्तभिः पदैः ।
त्वया सह मम ब्रह्मन्नीता वै बहुवत्सराः ।
एतस्मात्कारणात्स्वामिन्प्रसादं कुरु सुव्रत ३८।
मुनिरुवाच-
शृणु मे वचनं भद्रे शापानुग्रहकारकम् ।
किं करोमि त्वया पापे क्षयं नीतं महत्तपः ३९।
चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा ।
पापमोचनिका नाम सर्वपापक्षयंकरी ४०।
तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति ।
इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम् ४१।
तमागतं समालोक्य च्यवनः प्रत्युवाचतम् ।
किमेतद्विहितं पुत्र त्वया पुण्यं क्षयं कृतम् ४२।
मेधाव्युवाच-
पातकं वै कृतं तात रमिता चाप्सरा मया ।
प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत् ४३।
च्यवन उवाच-
चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी ।
अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत् ४४।
इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम् ।
गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः ४५।
साप्येवं मंजुघोषा च कृत्वैतद्व्रतमुत्तमम् ।
पिशाचत्वाद्विनिर्मुक्ता पापमोचनिकाव्रतात् ।
दिव्यरूपधरा सा वै गता नाके वराप्सराः ४६।
लोमश उवाच-
पापमोचनिकां राजन्ये कुर्वंति नरोत्तमाः ।
तेषां पापं च यत्किंचित्तत्सर्वं च क्षयं व्रजेत् ४७।
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् ।
ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः ४८।
व्रतस्य चास्य करणात्पापमुक्ता भवंति ते ।
बहुपुण्यप्रदं ह्येतत्करणाद्व्रतमुत्तमम् ४९।
इति श्री पाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे चैत्रकृष्णैकादशी पापमोचनीनाम षट्चत्वारिंशोऽध्यायः ४६।