पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४७

विकिस्रोतः तः
← अध्यायः ०४६ पद्मपुराणम्
अध्यायः ०४७
वेदव्यासः
अध्यायः ०४८ →

युधिष्ठिर उवाच-
वासुदेव नमस्तुभ्यं कथयस्व ममाग्रतः ।
चैत्रस्य शुक्लपक्षे तु किं नामैकादशी भवेत् १।
श्रीकृष्ण उवाच-
शृणुष्वैकमना राजन्कथां पुण्यां पुरातनीम् ।
वसिष्ठो यामकथयत्प्राग्दिलीपाय पृच्छते २।
दिलीप उवाच-
भगवञ्छ्रोतुमिच्छामि कथयस्व प्रसादतः ।
चैत्रमासि सिते पक्षे किंनामैकादशी भवेत् ३।
वसिष्ठ उवाच-
साधु पृष्टं त्वया राजन्कथयामि तवाग्रतः ।
चैत्रस्य शुक्लपक्षे तु कामदा नाम नामतः ४।
एकादशी पुण्यतमा पापेंधनदवानलः ।
शृणु राजन्कथामेतां पापघ्नीं पुण्यदायिनीम् ५।
पुरा नागपुरे रम्ये हेमरत्नविभूषिते ।
पुंडरीकमुखा नागा निवसंति महोत्कटाः ६।
तस्मिन्पुरे पुंडरीको राजा राज्यं चकार सः ।
गन्धर्वैः किन्नरैश्चैव अप्सरोभिश्च सेव्यते ७।
वराप्सरास्तु ललिता गंधर्वो ललितस्तथा ।
उभौ रागेण संरक्तौ दंपती कामपीडितौ ८।
रेमाते स्वगृहे रम्ये धनधान्ययुते तदा ।
ललितायाश्च हृदये पतिर्वसति सर्वदा ९।
हृदये तस्य ललिता नित्यं वसति भामिनी ।
एकदा पुंडरीकोऽथ क्रीडते सदसि स्थितः १०।
गीतं गानं प्रकुरुते ललितो दयितां विना ।
पदबंधस्खलज्जिह्वो बभूव ललितां स्मरन् ११।
मनोभावं विदित्वास्य कर्कटो नागसत्तमः ।
पदबंधच्युतिं तस्य पुंडरीके न्यवेदयत् १२।
श्रुत्वा कर्कोटकवचः पुंडरीको भुजंगराट् ।
क्रोधसंरक्तनयनो बभूवातिभयंकरः १३।
शशाप ललितं तत्र गायंतं मदनातुरम् ।
राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः १४।
यतः पत्नीवशोपेतो गायमानो ममाग्रतः ।
वचनात्तस्य राजेंद्र रक्षोरूपो बभूव सः १५।
रौद्राननो विरूपाक्षो दृष्टमात्रो भयंकरः ।
बाहूयोजनविस्तीर्णौ मुखं कंदरसन्निभम् १६।
चंद्रसूर्यनिभे नेत्रे ग्रीवापर्वतसंनिभा ।
नासारंध्रे तु विवरे अधरौ योजनायतौ १७।
शरीरं तस्य राजेंद्र उत्थितं योजनाष्टकम् ।
ईदृशो राक्षसो भूत्वा भुंजानः कर्मणः फलम् १८।
ललिता तु तथालोक्य स्वपतिं विकृताकृतिम् ।
चिंतयामास मनसा दुःखेन महतार्दिता १९।
किं करोमि क्व गच्छामि पतिः शापेन पीडितः ।
इति संस्मृत्य संस्मृत्य मनसा शर्म नालभत् २०।
चचार पतिना सार्द्धं ललिता गहने वने ।
बभ्राम विपिने दुर्गे कामरूपी स राक्षसः २१।
निर्घृणः पापनिरतो विरूपः पुरुषादकः ।
न सुखं लभते रात्रौ न दिवा पापपीडितः २२।
ललिता दुःखितातीव पतिं दृष्ट्वा तथाविधम् ।
बभ्राम तेन सार्द्धं सा रुदती गहने वने २३।
दृष्ट्वाश्रमपदं रम्यं मुनिं संशांतविग्रहम् ।
शीघ्रं जगाम ललिता नमस्कृत्याग्रतः स्थिता २४।
तां दृष्ट्वा स मुनिः प्राह दुःखितां हि दयापरः ।
का त्वं कस्मादिहायाता सत्यं वद ममाग्रतः २५।
ललितोवाच-
वीरधन्वेति गंधर्वः सुता तस्य महात्मनः ।
ललितां नाम मां विद्धि पत्यर्थमिह चागताम् २६।
भर्ता मे पापदोषेण राक्षसोऽभून्महामुने ।
रौद्ररूपो दुराचारस्तं दृष्ट्वा नास्ति मे सुखम् २७।
सांप्रतं शाधि मां ब्रह्मन्यत्कृत्यं तद्वद प्रभो ।
कुरुष्व तद् व्रतं भद्रे विधिपूर्वं मयोदितम् २८।
ऋषिरुवाच-
चैत्रमासस्य रंभोरु शुक्लपक्षोऽस्ति सांप्रतम् ।
कामदैकादशीनाम पापघ्नी ललिते परा २९।
कुरुष्व तद्व्रतं भद्रे विधिपूर्वं मयोदितम् ।
अस्य व्रतस्य यत्पुण्यं तत्स्वभर्त्रे प्रदीयताम् ३०।
दत्ते पुण्येक्षणात्तस्य शापदोषः प्रयास्यति ।
इति श्रुत्वा मुनेर्वाक्यं ललिता हर्षिताभवत् ३१।
उपोष्यैकादशीं राजन्द्वादशीदिवसे तथा ।
विप्रस्यैव समीपे तद्वासुदेवस्य चाग्रतः ३२।
वाक्यमुवाच ललिता स्वपत्युस्तारणाय वै ।
मया तु तद्व्रतं चीर्णं कामदाया उपोषणम् ३३।
तस्य पुण्यप्रभावेन गच्छत्वस्य पिशाचता ।
ललितावचनादेव वर्त्तमानोऽपि तत्क्षणे ३४।
गतपापः स ललितो दिव्यदेहो बभूव ह ।
राक्षसत्वं गतं तस्य प्राप्ता गंधर्वता पुनः ३५।
हेमरत्नसमाकीर्णो रेमे ललितया सह ।
विमानवरमारूढौ पूर्वरूपाधिकौ च तौ ३६।
दंपती अत्यशोभेतां कामदायाः प्रभावतः ।
इति ज्ञात्वा नृपश्रेष्ठ कर्तव्यैषा प्रयत्नतः ३७।
लोकानां तु हितार्थाय तवाग्रे कथिता मया ।
ब्रह्महत्यादि पापघ्नी पिशाचत्वविनाशनी ३८।
नातः परतरा काचित्त्रैलोक्ये सचराचरे ।
पठनाच्छ्रवणाद्राजन्वाजपेयफलं लभेत् ३९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे चैत्रशुक्ला कामदानाम सप्तचत्वारिंशोऽध्यायः ४७।