पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८९ पद्मपुराणम्
अध्यायः १९०
वेदव्यासः
अध्यायः १९१ →

ईश्वर उवाच-
अतः परं प्रवक्ष्यामि षोडशाध्यायगौरवम्
आकर्णय कुरंगाक्षि हर्षोत्कंठप्रवर्षिणि १
अस्ति सौराष्ट्रिकं नाम्ना पुरं गुर्जरमंडले
तत्रासीत्खङ्गबाहुश्च राजा चंद्र इवापरः २
यदीय कुसुमामोदमालासुरभितोदरे
वारांनिधौ हरिः स्वास्थ्यादशेत सह पद्मया ३
यदीय कीर्तिकर्पूरकणाभांतिनभोंगणे
कीर्णा वैरिकृतश्वास मारुतैस्तारकाछलात् ४
यस्यासिधारा तीर्थेषु स्नाता वै रिपुभूभुजः
व्यावर्त्तं ते दिवोऽद्यापि स्वर्गस्त्रीवाग्विमोहिताः ५
तस्यारिमर्दनोनाम मदहस्ती मदोद्धुरः
मदांबुधारा सलिले गुंजद्भ्रमरमंडलः ६
कपोलफलकोत्तीर्ण मदधाराजलाविलः
बभौ यो निर्झरोद्गोरैरंजनाद्रिरिवाच्चकैः ७
यस्यांगेषु व्यराजंत चामराश्चंद्रिकोज्ज्वलाः
किरणाइव शीतांशोः पतिताः काननोदरे ८
सिंदूरपांसुपटली राजत्कुंभस्थलो बभौ
यः संध्यावारिदव्याप्तं वियत्खंडमिव स्थितम् ९
स कदाचिन्मोचयित्वा शृंखलान्निगडानपि
भंक्त्वा लौहदृढस्तंभं प्रसह्य निशि निर्गतः १०
आधोरणगणान्सर्वान्पार्ष्णिविस्फूर्जदंकुशान्
क्रोधादवगणय्यैव निजशालां बभंज सः ११
तीक्ष्णांकुशमुखैर्विष्वक्हन्यमानोऽपि वैणवैः
दंडैस्तु त्रासयामासुः सादिनो न मनागपि १२
ततो राजा समागत्य निशम्येदं कुतूहलम्
तत्र हस्तिकलाभिज्ञैः समं राजकुमारकैः १३
अदृश्यत समागत्य राज्ञा दंतावलो बली
मोहयन्नुद्भटाटोपो हृताट्टालिकमालिकः १४
ददृशुस्तं महाभीमं पौरा दूरतरं स्थिताः
गोपायंतः शिशून्भीत्या निवृत्तान्यकुतूहलाः १५
रुद्धेषु तत्र मार्गेषु पलायनपरैर्जनैः
वासितेषु तदीयोग्रदानधारांबुसीकरैः १६
स्नात्वा तेनाध्वना यातः सरसः कश्चन द्विजः
गीतानां षोडशाध्यायश्लोकान्कतिपयाञ्जपन् १७ भगवद्गीता/दैवासुरसम्पद्विभागयोगः
निषिद्ध्यमानो बहुधा पौरैराधोरणैरपि १८
अमन्यमानः करिणो भीतान्चलितवांस्ततः
फूत्कारेण स आवृण्वञ्जनान्विपरिमर्दयन् १९
स्पृशन्दानांबुजं तस्य स्वस्तिमान्निर्गतो द्विजः
ततो महानभूत्तत्र विस्मयो वागगोचरः २०
मानसे भूमिपालस्य पौराणामपि पश्यताम्
समाहूय ततो राजा फुल्लराजीवलोचनः २१
तमापृच्छद्द्विजं वाहादवतीर्य प्रणम्य च २२
राजोवाच-
अलौकिकमिदं विप्र त्वयाद्याचरितं महत्
कृतांतकल्पादेतस्मात्कथं निर्यातवान्गजात् २३
कमर्चयसि गीर्वाणं कं मंत्रं जपसि प्रभो
का च सिद्धिस्तवास्तीति द्विजन्मन्समुदीरय २४
द्विज उवाच
गीतायाः षोडशोध्यायः श्लोकान्कतिपयानहम्
जपामि प्रत्यहं भूप तेनैताः सर्वसिद्धयः २५
ततो विहाय द्विरदं कौतूहलरसं नृपः
आजगाम द्विजन्मानमादाय निजमंदिरम् २६
शुभं मुहूर्तमन्वीक्ष्य तोषयित्वा द्विजोत्तमम् २७
सुवर्णैर्लक्ष्यसंख्याकैर्गीतामंत्रमुपाददे
गीतायाः षोडशाध्यायश्लोकान्कतिपयानपि २८
समभ्यस्य ततो राजा सत्कारेण सकौतुकः
अथैकदा विनिर्गत्य बाह्यालीं सह सैनिकैः २९
तमेवामोचयद्राजा मत्तमाधोरणाद्गजम्
विस्पष्टमिति वाक्यानि राज्यसौख्यममानयन् ३०
तृणवज्जीवितं राजा गजस्याग्रेविशत्ततः
आदाय गंडफलकं मदपंक्तिनिरंकुशम् ३१
आययौ मंत्रिविश्वासान्नृपः साहसिकाग्रणीः
राहोरिव मुखादिंदुः कालास्यादिव धार्मिकः ३२
साधुः खलस्य वदनान्नृयोनिरगमद्गजात्
आगत्य नगरं राजा त्वभिषिच्य कुमारकम् ३३
गीतायाः षोडशाध्यायादवाप परमां गतिम् ३४
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरंखडे गीतामाहात्म्ये नवत्यधिकशततमोऽध्यायः१९०

भगवद्गीतायाः षोडशोध्यायः[सम्पाद्यताम्]