पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९०
← अध्यायः १८९ | पद्मपुराणम् अध्यायः १९० वेदव्यासः |
अध्यायः १९१ → |
ईश्वर उवाच-
अतः परं प्रवक्ष्यामि षोडशाध्यायगौरवम् ।
आकर्णय कुरंगाक्षि हर्षोत्कंठप्रवर्षिणि १।
अस्ति सौराष्ट्रिकं नाम्ना पुरं गुर्जरमंडले ।
तत्रासीत्खङ्गबाहुश्च राजा चंद्र इवापरः २।
यदीय कुसुमामोदमालासुरभितोदरे ।
वारांनिधौ हरिः स्वास्थ्यादशेत सह पद्मया ३।
यदीय कीर्तिकर्पूरकणाभांतिनभोंगणे ।
कीर्णा वैरिकृतश्वास मारुतैस्तारकाछलात् ४।
यस्यासिधारा तीर्थेषु स्नाता वै रिपुभूभुजः ।
व्यावर्त्तं ते दिवोऽद्यापि स्वर्गस्त्रीवाग्विमोहिताः ५।
तस्यारिमर्दनोनाम मदहस्ती मदोद्धुरः ।
मदांबुधारा सलिले गुंजद्भ्रमरमंडलः ६।
कपोलफलकोत्तीर्ण मदधाराजलाविलः ।
बभौ यो निर्झरोद्गोरैरंजनाद्रिरिवाच्चकैः ७।
यस्यांगेषु व्यराजंत चामराश्चंद्रिकोज्ज्वलाः ।
किरणाइव शीतांशोः पतिताः काननोदरे ८।
सिंदूरपांसुपटली राजत्कुंभस्थलो बभौ ।
यः संध्यावारिदव्याप्तं वियत्खंडमिव स्थितम् ९।
स कदाचिन्मोचयित्वा शृंखलान्निगडानपि ।
भंक्त्वा लौहदृढस्तंभं प्रसह्य निशि निर्गतः १०।
आधोरणगणान्सर्वान्पार्ष्णिविस्फूर्जदंकुशान् ।
क्रोधादवगणय्यैव निजशालां बभंज सः ११।
तीक्ष्णांकुशमुखैर्विष्वक्हन्यमानोऽपि वैणवैः ।
दंडैस्तु त्रासयामासुः सादिनो न मनागपि १२।
ततो राजा समागत्य निशम्येदं कुतूहलम् ।
तत्र हस्तिकलाभिज्ञैः समं राजकुमारकैः १३।
अदृश्यत समागत्य राज्ञा दंतावलो बली ।
मोहयन्नुद्भटाटोपो हृताट्टालिकमालिकः १४।
ददृशुस्तं महाभीमं पौरा दूरतरं स्थिताः ।
गोपायंतः शिशून्भीत्या निवृत्तान्यकुतूहलाः १५।
रुद्धेषु तत्र मार्गेषु पलायनपरैर्जनैः ।
वासितेषु तदीयोग्रदानधारांबुसीकरैः १६।
स्नात्वा तेनाध्वना यातः सरसः कश्चन द्विजः ।
गीतानां षोडशाध्यायश्लोकान्कतिपयाञ्जपन् १७ भगवद्गीता/दैवासुरसम्पद्विभागयोगः।
निषिद्ध्यमानो बहुधा पौरैराधोरणैरपि १८।
अमन्यमानः करिणो भीतान्चलितवांस्ततः ।
फूत्कारेण स आवृण्वञ्जनान्विपरिमर्दयन् १९।
स्पृशन्दानांबुजं तस्य स्वस्तिमान्निर्गतो द्विजः ।
ततो महानभूत्तत्र विस्मयो वागगोचरः २०।
मानसे भूमिपालस्य पौराणामपि पश्यताम् ।
समाहूय ततो राजा फुल्लराजीवलोचनः २१।
तमापृच्छद्द्विजं वाहादवतीर्य प्रणम्य च २२।
राजोवाच-
अलौकिकमिदं विप्र त्वयाद्याचरितं महत् ।
कृतांतकल्पादेतस्मात्कथं निर्यातवान्गजात् २३।
कमर्चयसि गीर्वाणं कं मंत्रं जपसि प्रभो ।
का च सिद्धिस्तवास्तीति द्विजन्मन्समुदीरय २४।
द्विज उवाच ।
गीतायाः षोडशोध्यायः श्लोकान्कतिपयानहम् ।
जपामि प्रत्यहं भूप तेनैताः सर्वसिद्धयः २५।
ततो विहाय द्विरदं कौतूहलरसं नृपः ।
आजगाम द्विजन्मानमादाय निजमंदिरम् २६।
शुभं मुहूर्तमन्वीक्ष्य तोषयित्वा द्विजोत्तमम् २७।
सुवर्णैर्लक्ष्यसंख्याकैर्गीतामंत्रमुपाददे ।
गीतायाः षोडशाध्यायश्लोकान्कतिपयानपि २८।
समभ्यस्य ततो राजा सत्कारेण सकौतुकः ।
अथैकदा विनिर्गत्य बाह्यालीं सह सैनिकैः २९।
तमेवामोचयद्राजा मत्तमाधोरणाद्गजम् ।
विस्पष्टमिति वाक्यानि राज्यसौख्यममानयन् ३०।
तृणवज्जीवितं राजा गजस्याग्रेविशत्ततः ।
आदाय गंडफलकं मदपंक्तिनिरंकुशम् ३१।
आययौ मंत्रिविश्वासान्नृपः साहसिकाग्रणीः ।
राहोरिव मुखादिंदुः कालास्यादिव धार्मिकः ३२।
साधुः खलस्य वदनान्नृयोनिरगमद्गजात् ।
आगत्य नगरं राजा त्वभिषिच्य कुमारकम् ३३।
गीतायाः षोडशाध्यायादवाप परमां गतिम् ३४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरंखडे गीतामाहात्म्ये नवत्यधिकशततमोऽध्यायः१९०।