पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १८९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १८८ पद्मपुराणम्
अध्यायः १८९
वेदव्यासः
अध्यायः १९० →

[१]ईश्वर उवाच।
प्रवक्ष्यामि विशालाक्षि तुहिनाचलकन्यके ।
गीता पंचदशाध्यायमाहात्म्यमवधारय १।
कृपालुर्नरसिंहोऽभून्नाम्ना गौडेषु भूपतिः ।
यस्यासिधारया संख्ये देवासंघा वधीकृताः २।
यदीय मत्तमातंग दानधाराजलैरिला ।
निदाघेपि च सेहेतां रविसंतापवेदनाम् ३।
संक्रंदनपरित्रस्ता यदीय शरणं गताः ।
रेजिरे करिणो मत्ताश्चलंतः पर्वता इव ४।
मत्तमातंगचीत्कारप्रतिस्वनमिवादरात् ।
यस्य गोपायतः शैला व्याहरंति कृपावतः ५।
यदीय धावत्तुरगक्षुरसंघातजर्जरम् ।
नाभूच्चित्रं कथंकारं गतखंडं धरातलम् ६।
यस्मिन्वृत्रहणो मित्रे समुद्धरति मेदिनीम् 3।
पुनरुज्वलयांचक्रे महाभाष्यं फणीश्वरः ७।
तस्यासीत्सैनिको धीमाञ्छस्त्रशास्त्रकलानिधिः ।
नाम्ना [२]सरभभेरुंडः[३] प्रचंडभुजमंडलः ८।
भांडारेण तुरंगैश्च भटैर्वीररसोद्भवैः ।
समान एव भूपालदुर्गैरत्यंतदुर्गमैः ९।
स कदाचित्स्वयं राज्यं कर्तुं पापो दधे मनः ।
निहत्य वसुधापालं बलात्साकं कुमारकैः १०।
कर्तुं व्यवस्य दिवसैः स्वल्पैरित्थं चिकीर्षया ।
विषूचिकामयादाशु परासुः समजायत ११।
कालेनाल्पीयसा प्रेत्य पापात्मा तेन कर्मणा ।
तेजस्वी तुरगो जातः सिंधुदेशे कृशोदरिः १२।
मूलेन बहुना क्रीत्वा हयतत्वविदा ततः ।
बहुयत्नवता नीतः केनचिद्वैश्यसूनुना १३।
राजापि पौत्रनप्त्त्राद्यैस्तस्यैव मरणात्परम् ।
कालेन वृद्धतां प्राप्तः स्वराज्यं चापि पालयन् १४।
स वैश्यसूनुस्तं चाश्वं राज्ञे दातुं समागतः ।
राज्ञोद्वारिस्थितस्तत्र प्रतीक्षंस्तत्समागमम् १५।
ज्ञातपूर्वोऽपि वैश्योऽसौ प्रतीहारेण दर्शितः ।
किमर्थं ब्रूहि राज्ञेति पृष्टः स्पष्टमभाषत १६।
देव त्रिजगतीरत्नमिति मत्वा तुरंगमः ।
मया नियुतमूल्येन बहुना साधुलक्षणः १७।
ततोऽवलोक्य वक्त्राणि भूपालः पार्श्ववर्तिनाम् ।
समादिदेश वणिजमश्वोऽत्र नीयतामिति १८।
शिरांसि धूनयन्नृणामश्वलक्षणवेदिनाम् ।
शूराणामपि चेतांसि मुहुरुत्साहयन्महान् १९।
अखंडमेदिनीवेगबहुसंक्रमणार्जितम् ।
लालाफेनछलेनासौ वमन्शुभ्रतरं यशः २०।
उच्चैःश्रवस्तुलां भेजे गुणसाम्येन तत्त्वतः ।
विवृण्वन्नति तेजस्वी ह्रियेव नतकंधरः २१।
चामरैरिंदुधवलैर्वीज्यमानो निरंतरम् ।
दुग्धांभोनिधिलोलैस्तैः श्वासैरुच्चैःश्रवा इव २२।
नीलातपत्रयुगलं घनच्छायतुलश्रिया ।
बिभ्राणो वारिदालीढ हिमाद्रि शिखरश्रियम् २३।
मेदिनीमंडलस्पर्श संक्रांतमिव पावकम् ।
मुहुरुद्धरयन्धुन्वन्बंधुरं कंधरातटम् २४।
दारयन्वैरिणः सर्वान्व्याहरंश्च जयश्रियम् ।
हेषारवेण गुरुणा दिक्षुप्रख्यापयन्यशः २५।
सत्त्वस्य राशिरत्युच्चैर्गतीनामिव शेवधिः ।
रूपस्य निलयं साक्षाल्लक्षणानां पयोनिधिः २६।
आनीतो वणिजा वाजी राज्ञा च समदृश्यत ।
बहुधा वर्णितोऽमात्यैरश्वलक्षणवेदिभिः २७।
यथेच्छं वणिजोदीर्णं स्वर्णं दत्त्वा महीपतिः ।
जग्राह तुरगं वेगादसीमानंदनिर्भरः २८।
ततोऽश्वपालमाहूय यत्नतस्तं निरूप्य च ।
विसर्जितसभालोको गृहांतरमगान्नृपः २९।
अनेकधा समापृष्टो महीपालं रंणांगणे ।
शस्त्रव्रणकिणश्रेणीभूषणं सत्वसन्निभम् ३०।
एकदा मृगयां खेलन्कुतूहलरसात्मना ।
तमारुह्य महीपालो वनं प्रति विवेश ह ३१।
विसृज्य सैनिकान्पृष्टे धावतः परितोऽखिलान् ।
आकृष्यमाणो हरिणैः पिपासाकुलितोऽभवत् ३२।
तत उत्तीर्य तुरगाज्जलमन्वेषयन् नृपः ।
बध्वाश्वं तरुशाखायामारुरोह शिलां नृपः ३३।
गीतापंचदशाध्यायश्लोकार्द्धलिखितं ततः ।
पातितं मरुता तत्र यत्र खंडे विलोकयत् ३४।
पत्रं वाचयतो राज्ञः श्रुत्वा गीताक्षरावलीम् ।
ततो मुक्तिपदं लेभे तुरगस्त्वरयाऽपतत् ३५।
ततो ग्रंथिं समाच्छिद्य पल्याणवतार्य च ।
उत्थापमानस्तुरगो राज्ञा नोत्थितवान्मृतः ३६।
ततः सरभभेरुंडो नृपमाभाष्य सुस्वरम् ।
दिव्यं विमानमारुह्य जगाम त्रिदशालयम् ३७।
ततो गिरिं समारुह्य ददर्शाश्रममुत्तमम् ।
पुन्नागकदलीचूतनारिकेलसमन्वितम् ३८।
द्राक्षेक्षुवाटिकापूगनागकेसरचंपकम् ।
खेलत्करभसारंगं नृत्यत्केकिकुलं नृपः ३९।
प्रणिपत्य द्विजन्मानमुटजाभ्यंतरस्थितम् ।
पप्रच्छ परया भक्त्या मुक्तसंसारवासनात् ४०।
तुरगो निरगात्स्वर्गं हेतुना केन मे वद ।
इत्याकर्ण्य वचो राज्ञो द्विजन्मा वाचमूचिवान् ४१।
कालेन बहुना प्रेत्य तत्पापात्तुरगोऽभवत् ।
अथ पंचदशाध्यायश्लोकार्द्धं लिखितं क्वचित् ४२।
ततो वाचयतः श्रुत्वा निरगात्तुरगो दिवम् ।
ततः समागतैस्तत्र परिवारजनैर्वृतः ४३।
प्रणिपत्य द्विजन्मानं हृष्टरोमा विनिर्गतः ।
पत्रं तदेव लिखितं गीतापंचदशाक्षरम् ४४।
वाचयन्स महीपालो हर्षसंफुल्ललोचनः ।
अभिषिच्य निजं पुत्रं मंत्रविन्मंत्रिभिः समम् ४५।
सिंहासने सिंहबलं मुक्तिमाप विशुद्धधीः ४६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये एकोननवत्यधिकशततमोऽध्यायः १८९।

[सम्पाद्यताम्]

टिप्पणी

पद्मपुराणे नृसिंह - सरभभारुण्डआख्यानस्य माध्यमे यः तथ्यः प्रतिपादिमस्ति, तस्य स्रोतं सोमयागादिषु अग्निमन्थनकृत्यं प्रतीयते। सोमयागे विभिन्नकृत्येषु पदेपदे अग्निमन्थनकृत्यं भवति। अग्निमन्थनं अश्वत्थ एवं शमीकाष्ठयोः (द्र. [उपरि टिप्पणी]) मन्थनेन भवति। मन्थनानन्तरं यस्याग्नेः जननं भवति, तस्य मेलनं यज्ञस्य आहवनीयाग्नेः सह कुर्वन्ति। वारंवारं मन्थनेन अग्निजननस्य किमुद्देश्यः अस्ति, अस्मिन् संदर्भे कथनमस्ति यत् यस्याग्नेः जननं भवति, तत् पापकर्मेभिः शीघ्रेव जीर्णीभवति। अतः कारणेन। अपि च, मन्थनेन यस्याग्नेः जननं भवति, तस्याः प्रकृतिः नृसिंहस्वरूपा, रौद्रा भवति। तस्याः शान्त्यै शम्याः आवश्यकता भवति।

भगवद्गीतायाः पञ्चदशाध्यायः

  1. हिन्दी रूपान्तरणम्
  2. शरभ उपरि टिप्पणी
  3. भारुण्ड उपरि टिप्पणी