पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १८८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८७ पद्मपुराणम्
अध्यायः १८८
वेदव्यासः
अध्यायः १८९ →

ईश्वर उवाच-
अतः परं प्रवक्ष्यामि भवानि भवमुक्तये
गीताचतुर्दशाध्यायमवधारय सुस्मिते १
मेदिन्यां यत्किलस्थूलमस्ति काश्मीरमंडलम्
राजधानी सरस्वत्या आस्ते चैव मनोहरा २
यामधिष्ठाय वाग्देवी ब्रह्मलोकं प्रयच्छति
हंसमारुह्यमानापि सावित्रीप्रहतैरपि ३
सरस्वतीपदांभोज सेवामाश्रित्य कुंकुमैः
यत्र गौरवयंत्याशा हंसपक्षपुटोद्भवैः ४
निरंतरं तया चैव नृणां संस्कृतभाषिणाम्
सुपर्वाणमयी भाषा निमेषेणोपलभ्यते ५
प्रातर्गृहांगणोद्भूतै र्यत्रकुंकुमपांसुलैः
सर्वतोरुणितच्छाय शशांकरविमंडलम् ६
तत्रासीत्तेजसां राशिः शौर्यवर्मा नरेश्वरः
उद्यदुज्ज्वलबाणौघ खंडितारातिमंडलः ७
अभूच्च सिंहलद्वीपे राजा सिंहपराक्रमः
नाम्ना विक्रमवेतालः कलानामपि शेवधिः ८
उभौ परस्परं मैत्रीं वर्द्धयांचक्रतुः क्रमात्
तत्तद्देशसमुत्पन्नैरपूर्वैः प्रचुरोत्करैः ९
एकदा प्रहितं प्रेम्णा प्रभूतं शौर्यवर्मणा
राजा विक्रमवेतालो विलोक्य शुनकीद्वयम् १०
मत्तमातंगतुरग मणिभूषणचामरम्
प्रेषयामास मित्राय प्रभूतं शौर्यवर्मणे ११
एकदा शिबिकारूढश्चारु चामरवीजितः
सुवर्णशृंखलारूढं वाद्यडिंडिमडंबरम् १२
शुनीयुगलमादाय मृगया कौतुकोत्सुकः
राजा जगाम बाह्यालीं समं राजकुमारकैः १३
पणबंधविधानेन समुपेतं शशामिषम्
तत्र राजकुमाराणां महान्कोलाहलोऽभवत् १४
ततः समानवयसा केनचिद्राजसूनुना
बहुमूल्यं पणं कृत्वा राजाचिक्रीडकौतुकी १५
ततोवतार्य दोलाया विरुदावलिगर्विताम्
धावतः शशकस्योच्चैः पृष्ठे मुंचन्नृपं शुनीम् १६
मुमोच राजपुत्रोऽपि प्रेमपात्रं महाभुजः
विरराम शुनीमुच्चैः संकीर्त्य विरुदावलीम् १७
अलक्ष्यमाणवेगेऽस्मिन्शुनीयुगलकेभृशम्
धावत्युत्थितमेवासीत्पश्यतां सर्वभूभृताम् १८
पपात गर्ते महति शशकोऽतिश्रमादसौ
पतितोऽपि शुनी वश्यो नाभवच्छशशावकः १९
ततः शनैः समुत्थाय धावन्नाक्रम्यरोषतः
जगृहे राजशुन्याऽसौ शशकः फेनमुद्वमन् २०
ततः कथंचिदुप्लुत्य गच्छन्विस्खलयञ्छशः
राजपुत्रशुनक्यासौ गृहीतः कंधरातटे २१
जितमस्माभिरत्यर्थमिति संजल्पतां नृणाम्
कोलाहले शंकिताया शुन्या निर्गतवान्मुखात् २२
ततो दंष्ट्राव्रणश्रेणी क्षरद्रुधिरधारकः
क्वापि र्ममरभूभागे निलीयस्थितवाञ्छशः २३
जिघ्रंत्या राजशुन्याऽसौ भूभागं धनरोषया
दृष्टमात्रः परित्रस्तो हस्तमात्रं ततोऽगमत् २४
यत्र कर्पूरकदली क्रोडव्याघ्रदरीतलः
चोली कपोलफलकान्चुबन्वाति समीरणः२५
उद्भिन्न केतकीकोशरजोमुकुलितेक्षणः
विस्रब्धाहरणा यत्रच्छायां तां परितन्वतः २६
नारिकेलफलैर्यत्र स्वयं निपतितैरधः
अपि चूतफलैस्तृप्ताः पक्वैः शाखामृगा अपि २७
अपि केसरिणो यत्र खेलंति कलभैः समम्
फणिनः केकिबर्हेषु निर्विशंकं विशंति च २८
यत्राश्रमांतरे विप्रो वत्सनामा जितेंद्रियः
शांतश्चतुर्दशाध्यायं जपन्नास्ते निरंतरम् २९
तत्र तच्छिष्यपादाब्ज प्रक्षालनजलैः कृते
कर्दमे न्यपतद्गत्वा जीवशेषो मुहुः श्वसन् ३०
ततः कर्दमसंस्पर्शमात्रनिस्तीर्ण संसृतिः
दिव्यं विमानमारुह्य निर्ययौ शशको दिवम् ३१
ततः शुन्यपि लिप्तांगीस्तोकैः कर्दमबिंदुभिः
क्षुत्पिपासार्तिरहिता शुनीरूपं विहाय सा ३२
ततो दिव्यांगनारम्यं गंधर्वैरुपशोभितम्
दिव्यं विमानमारुह्य शुन्यपि त्रिदिवं ययौ ३३
ततो जहास मेधावी शिष्यो नाम्ना स्वकंधरः
विचार्य विस्मितः पूर्वजन्मवैरस्य कारणम् ३४
राजापि पर्यपृच्छत्तं विस्मयस्मेरलोचनः
प्रणम्य परया भक्त्या विनयैकपयोनिधिः ३५
कथां कथय मे विप्र हीनयोनि निषेवितौ
अज्ञौयौ जग्मतुः स्वर्गे शुनी शशकशावकौ ३६
शिष्य उवाच-
वत्सनामा द्विजन्मास्ते वनेऽमुष्मिन्जितेंद्रियः
चतुर्दशं तु ह्यध्यायं गीतानां सर्वदा जपन् ३७
शिष्योऽहं तस्य भूपाल ब्रह्मविद्याविशारदः
चतुर्दश तु अध्यायं जपामि प्रत्यहं नृप ३८
मदीयचरणांभोजप्रक्षालनजले लुठन्
शशस्त्रिदिवमापन्नः शुनक्या सह भूपते ३९
राजोवाच
हेतुना केन कथय हसितं च द्विजोत्तम
अतः किमपि साकूतं मन्यमानेन सादरम् ४०
शिष्य उवाच
महाराष्ट्रेति नगरं नाम्ना प्रत्युदकं महत्
तत्रासीद्ब्राह्मणो नाम्ना केशवः कितवाग्रणीः ४१
विलोभनाभवत्तस्य जाया स्वैरविहारिणी
तेन सा हन्यते क्रोधाद्वैरं संचिंत्य जन्मनः ४२
ततः स्त्रीवधपापेन शशको जायते द्विजः
किल्बिषाच्छुनकी सापि जाता वंचनजन्मनः ४३
पूर्वेण जन्मनाभ्यस्तं वैरं विस्मरतो नहि
आसेदिवद्भ्यां बहुधा योन्यंतरमपि क्वचित् ४४
इत्याकलय्य सकलं भूपालः श्रद्धयान्वितः
गीतामभ्यस्य सकलामवाप परमां गतिम् ४५
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीता-
माहात्म्ये अष्टाशीत्यधिकशततमोऽध्यायः १८८


भगवद्गीतायाः चतुर्दशोऽध्यायः[सम्पाद्यताम्]