पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १८७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८६ पद्मपुराणम्
अध्यायः १८७
वेदव्यासः
अध्यायः १८८ →

देव्युवाच
द्वादशाध्यायमाहात्म्यं भवता कथितं मम
ब्रूहि त्रयोदशाध्यायमाहात्म्यमतिसुंदरम् १
ईश्वर उवाच-
शृणु त्रयोदशाध्यायमहिमांभोनिधिं शिवे
यदाकर्णनमात्रेण परां मुदमवाप्स्यसि २
अस्ति दक्षिणदिङ्मार्गे तुंगभद्रा महानदी
तत्तटे नगरं रम्यं नाम्ना हरिहरं पुरम् ३
यत्राऽस्ते भगवान्देवि देवो हरिहरः स्वयम्
यस्य दर्शनमात्रेण परं कल्याणमाप्यते ४
तस्मिन्पुरे द्विजन्मासीद्धरिदीक्षितसंज्ञिकः
तपः स्वाध्यायनिरतो श्रोत्रियो वेदपारगः ५
दुराचारेति तस्यासीद्भार्या नाम्ना च कर्मणा
न सुष्वाप समं पत्या दुरालापा कदाचन ६
क्षणमप्यात्मसदने न चास्ते स्वैरचारिणी
कंठदघ्नं द्विजद्वारे धयंती वारुणीरसम् ७
पतिसंबधिनः सर्वान्तर्जयंती पुनः पुनः
विटैः सह सदोन्मत्ता रममाणा निरंतरम् ८
कदचिद्व्याकुलं दृष्ट्वा पुरं पौरैरितस्ततः
संकेतगेहमकरोत्कांतारे निर्जने स्वयम् ९
अथ तत्रैव सा धूर्ता रममाणा विटैः सह
निनाय सा बहून्कालान्निजयौवनगर्विता १०
अथ तस्मिन्पुरे रम्ये निवसंत्या निरंकुशम्
वसंतकालं समभूत्परं चित्ते भुवः सखा ११
आमूलपल्लवाकीर्णं सहकारविकारिणा
पिकानां पंचमालापैः पुनः स जीवितः स्मरः १२
स्फुरच्चंपकसौरभ्यहारकैर्मलयानिलैः
मंदं मंदं प्रसर्पद्भिरांदोलितवनद्रुमः १३
उत्फुल्लमल्लिकामोद मदिरापारणावताम्
अलीनां कलटंकारैः समंताद्रावशोभितः १४
प्रसन्नचारुभिः स्मेरः सरोवरसुगंधिभिः
मीलन्मरालनिवहैः सरोभिः प्रकटीकृतः १५
घनच्छायासुखासीन हरिणार्भकधारिभिः
नीरंध्रपल्लवैर्नानाशाखिभिः शोभितावनिः १६
तस्मिन्वसंतसमये मुदिता साभिसारिका
अपश्यज्जगदानंददायिनीं चंद्रिकां निशि १७
चंचच्चकोरचंच्वग्रगलत्पीयूषसीकराम्
द्रवदिंदुशिलानिर्यत्सुधानिर्झरनिर्भराम् १८
विकाशिकुसुमक्रोडसांद्रीभूतकरोत्कराम्
उल्लासितपयोराशिकल्लोलालिंगितांबराम् १९
मनोभवमहासिंहकुलटाकंठकर्तरीम्
घनांधकारसंदोहविदारणपटीयसीम् २०
श्वेतीकृतसतीकारपरार्थहिमगर्भिणीम्
म्लानपंकजसंकोचा द्यूनामानंददायिनीम् २१
चक्रवाकवधूवक्त्र करुणाक्रोशसाक्षिणीम्
मुक्ताश्रेणीविशुद्धांशु प्रभासितदिगंतराम् २२
अथ तस्यां प्रभूतायां पूरयंत्या दिशो दश
कामांधा कामिनीजाता पथिसौधविहारिणी २३
अपश्यंती विटान्रात्रौ निर्भिद्य भवनार्गलम्
ययौ संकेतभवनं निर्गत्य नगराद्बहिः २४
तत्र प्रियतमं कंचित्काममोहितमानसा
अन्वेषयंती नाद्राक्षीत्कुंजे कुंजे तरौ तरौ २५
आकर्णयंती कांतस्य मंदालापान्पदे पदे
अभियाति ततः क्रीडन्यत्र संहारिनिस्वनः २६
चक्रवाकरवान्श्रुत्वा कांतालापभ्रमादसौ
सरोवराणि सर्वाणि पर्यटंती मुहुर्मुहुः २७
कांतभ्रांत्या तरुतले प्रसुप्तान्हरिणोत्करान्
प्रबोधयंती सोच्छ्वासमागतास्मीति भाषिणी २८
आलिंगंती वनस्थाणुं जीवनेश्वरशंकया
तदाननभ्रमाद्भूयं चुंबंती विकचांबुजम् २९
तत्रतत्र कृतव्यर्थश्रमादृष्टप्रियास्वयम्
विललाप वने तस्मिन्मूर्च्छती विविधोक्तिभिः
हा कांत हा गुणाक्रांत मच्चैतन्यस्य नायक ३०
हे मनोहरसौभाग्य भाग्यलावण्यशेवधे
हा पूर्णचंद्रवदन हा सरोजायतेक्षण ३१
हा कांततत्वसौहित्य विश्रमाय सुरद्रुम
यदि कोपेन कुत्रापि गुह्यवेषोऽत्र तिष्ठसि ३२
प्रसादयामि त्वां कांत दत्त्वा प्राणान्प्रियानपि
इत्युच्चैः सर्वतो दिक्षु विलपंत्या वियोगतः ३३
तस्याः श्रुत्वा वचः कोऽपि सुप्तो व्याघ्रः प्रबुद्धवान्
कुर्वन्घुरघुरध्वानं पश्यन्प्रतिदिशं रुषा ३४
आस्फालयन्नखैर्भूमिं गर्जन्नाकाशगह्वरम्
पृष्ठनिर्भग्नलांगूल द्रुतमुत्थाय वेगवान् ३५
गतो व्याघ्रः समुत्पत्य यत्रास्ते साभिसारिका
अथ सापि तमायांतमालोक्य पतिशंकया ३६
निर्जगाम पुरः स्थातुं प्रेममनिर्भरमानसा
ततस्तस्यनखक्रीडाक्रूरतांधीकृता सती ३७
जहौ प्रियवपुः शंकां श्रुत्वा गर्जितमूर्ज्जितम्
तथाविधापि सा नारी भ्रांतिमुत्सृज्यसत्वरम् ३८
व्याघ्रत्वं तु कुतो हेतोर्मां निहंतुमिहागतः
इदं सर्वं समाख्याहि यतस्त्वं हंतुमिच्छसि ३९
इति तस्या वचः श्रुत्वा शार्दूलश्चंडविक्रमः
क्षणं विहाय तद्ग्रासमुवाच प्रहसन्निव ४०
मलापहा नदी नाम्ना देशे तिष्ठति दक्षिणे
नगरी मुनिपर्णेति तस्या रोधसि वर्तते ४१
तत्रास्ते भगवान्साक्षात्पंचलिंगो महेश्वरः
तस्यां पुर्यामहं विप्र पुत्रो भूत्वा स्थितस्ततः ४२
अयाज्यान्याजयन्नश्नन्नेकोद्दिष्टे नदी तटे
वेदपाठफलं शश्वद्विक्रीणन्धनकांक्षया ४३
भिक्षुकानपरान्लोभात्तिरस्कुर्वन्दुरुक्तिभिः
अदेयद्रविणं गृह्णन्नदत्तमनिशं दिनम् ४४
छलयन्सकलांल्लोकान्क्षणग्रहणकौतुकात्
ततः कतिपये काले जरठत्वमुपागतः ४५
वलीपलितवानंधः प्रपतन्प्रस्खलद्गतिः
पतद्दंतोभवं भूयः प्रतिग्रहपरायणः ४६
हस्ते गृहीत दर्भोऽहमगमं तीर्थसन्निधिम्
धनग्रहणलोभेन भ्रमन्पर्वसु पर्वसु ४७
ततोऽहं शिथिलांगः सन्कंचिद्भूनिर्जरालयम्
गतवान्याचितं भोक्तुं दष्टो मध्ये पदे शुना ४८
अपतं मूर्छितो भूत्वा ततः क्षितितले क्षणात्
ततोऽहं गलितप्राणो व्याघ्रयोनिमुपागतः ४९
अत्र तिष्ठामि कांतारे पूर्वपापमनुस्मरन्
न भक्षयामि धर्मिष्ठान्मुनीन्साधुजनान्सतीः 6.187.५०
किंतु पापान्दुराचारनसतीर्भक्षयाम्यहम्
अतोऽसतित्वं तत्वेन ममैव कवलायसे ५१
इत्युक्त्वा स्वैर्नखैः कूरैस्तां विभज्यांगखंडशः
अथतां भक्षितां तेन पापदेहमुपाश्रिताम् ५२
यमस्य किंकरा निन्युः सद्यः संयमनीं पुरीम्
यमादेशेन तत्रापि पातयामासुराशु ताम् ५३
विण्मूत्ररक्तपूर्णेषु घोरकुंडेष्वनेकधा
कल्पकोटिषु पीतासु तस्मादानीय तां मुहुः ५४
रौरवे स्थापयामासुर्मन्वंतरशतावधि
ततोप्याकृष्य तां दीनां रुदतीं सर्वतोमुखीम् ५५
मुक्तकेशां भग्नगात्रां चिक्षिपुर्दहनानने
एवं पापपरां घोरां भुक्त्वा नरकयातनाम् ५६
इह जाता महापापात्पुनः श्वपचयोनिषु
ततः श्वपचगेहेऽपि वर्द्धमाना दिनेदिने ५७
पूर्वजन्मवशेनैव तथैवासीद्यथा पुरा
ततः कतिपये काले पुनः स्वंभवनंययौ ५८
यत्रास्ते जृंभकादेवी शिवस्यांतः पुरेश्वरी
तत्रापश्यद्द्विजन्मानं वासुदेवाभिधं शुचिम् ५९
गीतात्रयोदशाध्यायमुद्गिरंतमनारतम्
ततस्तच्छ्रवणादेव मुक्ता श्वपचविग्रहात् ६०
दिव्यं देहं समासाद्य जगाम त्रिदशालयम् ६१
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीता-
माहात्म्ये सप्ताशीत्यधिकशततमोऽध्यायः १८७


भगवद्गीतायाः त्रयोदशोध्यायः[सम्पाद्यताम्]