पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १८६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १८५ पद्मपुराणम्
अध्यायः १८६
वेदव्यासः
अध्यायः १८७ →
महाभूताः

[१]महादेव उवाच-
अस्ति कोल्हापुरं[२] नाम नगरं दक्षिणापथे ।
सुखानां सदनं साध्वि साधूनां सिद्धिसंभवम् १।
परशक्तेः परंपीठं सर्वदेवनिषेवितम् ।
पुराणेषु प्रसिद्धं यद्भुक्तिमुक्तिफलप्रदम् २।
कोटिशस्तत्र तीर्थानि शिवलिंगानि कोटिशः ।
आस्ते रुद्रगया यत्र विशालं लोकविश्रुतम् ३।
तुंगाचलमहावप्र गोपुरोल्लासितोरणम् ।
प्रासादशिखरे यत्र तुंगं च कनकध्वजम् ४।
सोमकांतिमहासौधवलभीपंक्तिशोभितम् ।
जालरंध्रोद्गिरद्धूपधूमाऽमोदितदिक्तटम् ५।
चलत्पताकविस्तीर्णच्छायं देवालयान्वितम् ।
चतुरैः सुंदरैः स्निग्धैः श्रीमद्भिः शुचिमानसैः ६।
अधिष्ठितं सदाचारैः पुरुषेर्भूरिभूषणैः ।
कुरंगनयनाश्चंद्रवदनाः कुटिलालकाः ७।
उत्फुल्लचंपकच्छायाः पीनतुंगपयोधराः ।
कृशमध्या निम्ननाभि वलित्रयविराजिताः ८।
विशालजघनाश्चारुजंघा युग्मा वरांघ्रयः ।
वाचालमेखलादामनिक्वणन्मणिनूपुराः ९।
रणत्कंकणहस्ताब्ज स्फुरत्करज रश्मयः ।
वसंति प्रमदा यत्र मादयंत्यो मुनीनपि १०।
समस्तवस्तुसंयुक्तं सर्वभोगसमन्वितम् ।
मंगलैः सकलैर्युक्तं महालक्ष्मीसमन्वितम् ११।
तत्रागच्छत्पुमान्कश्चिद्युवा गौरं सुलोचनः ।
कंबुकंठः पृथुस्कंधो महावक्षा महाभुजः १२।
समस्तलक्षणोपेतो गोचरासक्तमानसः ।
प्रविश्य नगरं पश्यन्शोभां सौधेषु सर्वतः १३।
उत्कंठितमना द्रष्टुं महालक्ष्मीं सुरेश्वरीम् ।
मणिकुंडे कृतः स्नानः संपन्न पितॄतर्पणः १४।
महालक्ष्मीं महामायां नत्वा तुष्टाव भक्तितः ।
जयत्यपारकरुणाशरण्या जगदंबिका १५।
कुर्वाणा जगतो जन्म पालनं क्षपणं दृशा ।
यया शक्त्या कृतादिष्टः परमेष्ठी सृजत्यसौ १६।
अवष्टभ्य च तां शक्तिं पालयत्यच्युतो जगत् ।
यया शक्त्या कृतावेशः संहरत्यखिलं हरः १७।
तां भजे परमां शक्तिं सर्गस्थितिलयोर्जिताम् ।
योगिध्येयांघ्रिकमले कमले कमलालये १८।
स्वभावानखिलान्नस्त्वं गृह्णासींद्रियगोचरान् ।
त्वमेव कल्पनाजालं तत्कल्पं कुरुषे मनः १९।
इच्छाज्ञानक्रियारूपा परसंवित्स्वरूपिणी ।
निष्फला निर्मला नित्या निराकारा निरंजना २०।
निरंतरा निरातंका निरालंबा निरामया ।
तवैवं महिमानं हि को वर्णयितुमीशते २१।
वंदे निर्भिन्नषट्चक्रद्वादशांतर्विहारिणीम् ।
अनाहतध्वनिमयीं बिंदुनादकलात्मिकाम् २२ ।
मातस्त्वं पूर्णशीतांशु गलत्पीयूषवाहिनी ।
पुष्णासि वत्सले बालान्सनकादीन्दिगंबरान् २३।
अनुस्यूता शिवा संविज्जाग्रत्स्वप्नसुषुप्तिषु ।
तुरीयायां वर्त्तमानां दयासूनृतसंधिषु २४।
ददासि प्राणिनां सर्वाः सततं ब्रह्मसंपदः ।
संहृत्य तत्वसंघातं तुरीयातीतया त्वया २५।
योगिनां बिंबतादत्म्यं दीयते निर्विकल्पया ।
परां नमामि पश्यंतीं मध्यमां वैखरीमपि २६।
रूपाणि देवि गृह्णासि जगत्संत्राणहेतवे ।
त्वं ब्राह्मी वैष्णवी च त्वं माहेशी च त्वमंबिके २७।
वाराहि त्वं महालक्ष्मीर्नारसिंही त्वमैंद्रिका ।
त्वं कौमारी चंडिका त्वं लक्ष्मीस्त्वं विश्वपावनी २८।
सावित्री त्वं जगन्माता शशिनी त्वं च रोहिणी ।
त्वं स्वाहा त्वं स्वधा त्वं हि त्वं सुधा परमेश्वरी २९।
चंडमुंडभुजादंडखंडदोर्दंडमंडिते ।
रक्तबीजगलद्रक्तपानघूर्णितलोचने ३०।
उन्मत्तमहिषग्रीवोन्मूलनप्रौढ दोर्युगे ।
शुंभासुरमहादैत्यदारणायातविक्रमे ३१।
अनंतचरिते तुभ्यं नमस्त्रैलोक्यमातृके ।
भक्तकल्पलते मह्यं प्रसीद परमेश्वरि ३२।
इति तेन स्तुता देवी महालक्ष्मीस्ततः स्वयम् ।
निजरूपं समास्थाय पुरुषं प्रत्युवाच तम् ३३।
श्रीलक्ष्मीरुवाच-।
राजपुत्र प्रसन्नाऽहं वृणीष्व वरमुत्तमम् ।
राजपुत्र उवाच।
पिता मे धरणीपालो वाजिमेधं महाक्रतुम् ३४।
कुर्वाणो दैवयोगेन रोगाक्रांतो दिवं ययौ ।
तद्वपुस्तप्ततैलेन शोषयित्वा मया ततः ३५।
स्थापितस्तत्र यागोऽसौ यथापूर्वमवर्तत ।
अथ क्रांतमहीचक्रो यूपे यागतुरंगमः ३६।
निशीथे बंधनं हित्वा नीतः केनापि कुत्रचित् ।
अदृष्ट्वा तद्गतं क्वापि निवृत्तेषु जनेष्वहम् ३७।
आमंत्र्य ऋत्विजः सर्वाञ्छरणं त्वामुपागतः ।
प्रसन्ना यदि देवि त्वं तन्मे यागतुरंगमः ३८।
दृष्टो भवतु यागोऽसौ संपूर्णो जायते यथा ।
आनृण्यं मम तातस्य तेन राज्ञो भविष्यति ३९।
तथा कुरु जगद्धात्रि शरणागतवत्सले ।
देव्युवाच।
ममद्वारं द्विजः सिद्धसमाधिरिति विश्रुतः ४०।
ममाज्ञया स ते सर्वं कार्यं निष्पादयिष्यति ।
इत्युक्तः श्रीमहालक्ष्म्या ततो राजकुमारकः ४१।
आजगाम मुनिः सिद्धसमाधिर्यत्र तिष्ठति ।
प्रणम्य तस्यपादाब्जं कृतांजलिरवस्थितः ४२।
तमुवाच ततो विप्रः प्रहितोऽसि त्वमंबया ।
त्वदीप्सितमिदं सर्वं साधयामि विलोकय ४३।
इत्युक्त्वा त्रिदशान्सर्वानाचकर्ष स मांत्रिकः ।
एक्षत क्षितिपालस्य तनयोऽसौ तदा सुरान् ४४।
कृतांजलिपुटान्देवान्वेपमानकलेवरान् ।
अथ तानमरान्सर्वान्संबभाषे द्विजोत्तमः ४५।
अमुष्य राजपुत्रस्य वाजी यज्ञाय कल्पितः ।
नीतोस्ति देवराजेन क्षपायामपहृत्य सः ४६।
गीर्वाणा अश्वमेवास्य समानयत मा चिरम् ।
अथ तस्य मुनेर्वाक्याद्देवैर्यज्ञतुरंगमः ४७।
समर्पितस्ततस्तेन तेऽनुज्ञात्वा दिवौकसः ।
आकृष्टानमरान्दृष्ट्वा गतं लब्ध्वा तुरंगमम् ४८।
महीपतिसुतो नत्वा तं मुनिं वाक्यमब्रवीत् ।
आश्चर्यमिदमेतत्ते सामर्थ्यमृषिसत्तम ४९।
कृतं त्वया चित्रमिदं त्रिदशाकर्षणं क्षणात् ।
हस्तादाकृष्य दत्तो मे यज्ञीयोऽयं तुरंगमः 6.186.५०।
न किंचिदपरं यावद्दुष्करं यत्सुरैरपि ।
प्रभविष्यति तत्कर्तुं भवानेव न चापरः ५१।
शृणु विप्र महीपाल पितासीन्मे बृहद्रथः ।
प्रारब्ध हयमेधोऽसौ दैवेन निधनं गतः ५२।
अद्यापि तस्य देहोस्ति तप्ततैलेन शोषितः ।
तस्य संजीवनं भूयः कर्त्तुमर्हसि सत्तम ५३।
इत्याकर्ण्य स्मितं कृत्वा स जगाद महामुनिः ।
यामस्तत्र पिता यत्र तावको यागमंडपः ५४।
अथागत्य समं तेन तत्र सिद्धः समाधिना ।
पयोऽभिमंत्र्य विदधे तस्य प्रेतस्य मूर्द्धनि ५५।
ततः प्राप नृपः संज्ञामुत्तस्थे वै ददर्श च ।
स तं पप्रच्छ विप्रेंद्रं कोऽसि धर्मेति भूपतिः ५६।
ततो राजसुतः सर्वं भूपालाय न्यवेदयत् ।
स नत्वा ब्राह्मणं राजा तं पुनर्दत्तजीवितम् ५७।
बभाषे केन पुण्येन त्वयि शक्तिरलौकिकी ।
यया मे जीवितं दत्तमाकृष्टाश्च दिवौकसः ५८।
यागश्चोद्धरितो विप्र येनमेतन्निरूपय ।
इत्युक्तस्तेनविप्रोऽसौ जगाद श्लक्ष्णया गिरा ५९।
गीतानां द्वादशाध्यायं जपाम्यहमतंद्रितः ।
तेन शक्तिरियं राजन्यया प्राप्तोसि जीवितम् ६०।
एतदाकर्ण्य राजाऽसौ द्वादशाध्यायमुत्तमम् ।
पपाठ तस्माद्विप्रर्षेः सकाशात्ब्राह्मणान्वितम् ६१।
तस्याध्यायस्य माहत्म्यात्ते सर्वे सद्गतिं ययुः ।
अन्ये पठित्वा जीवाश्च मुक्तिमापुरहो पराम् ६२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये षडशीत्यधिकशततमोऽध्यायः १८६।



[सम्पाद्यताम्]

भगवद्गीतायाः द्वादशोध्यायः

  1. यूट्यूबोपरि हिन्दी रूपान्तरम्; मार्कण्डेयपुराणे ८१ दुर्गासप्तशत्यां यः आख्यानः अस्ति, तत्र मुख्यतः त्रयः अभिनेतारः सन्ति - मेधाऋषिः, सुरथराजा एवं समाधिवैश्यः। किन्तु अस्मिन् आख्याने द्वौ अभिनेतारौ स्तः - बृहद्रथः एवं सिद्धसमाधिब्राह्मणः। अयं प्रतीयते यत् अश्वमेधे यः अश्वः ब्रह्माण्डस्य भ्रमणं करोति, तस्मिन् द्वौ गत्यौ निहितौ स्तः - प्रेति एवं एति। यदि अश्वः बहिर्गच्छति किन्तु न पुनरायाति, तर्हि एतिसंज्ञका गतिः दोषपूर्णा अस्ति। प्रेति - समाधिं प्रति गमनम्। एति - समाधितः व्युत्थानम्। समाधितः व्युत्थाने ये दोषाः विद्यमानाः सन्ति, तेषां उपचारः सिद्धसमाधिसंज्ञकः ब्राह्मणः करोति। पुराणेषु उल्लेखाः सन्ति यत् क्षत्रियवीरस्य यः इषुः भवति, तत् शत्रुरुपरि घातं कृत्वा पुनः आवर्तनं कर्तुं शक्यते। महाभारते सौप्तिकपर्वे १५.७ अश्वत्थामा एवं अर्जुनः परस्परयुद्धे दिव्यास्त्रयोः प्रयोगं कुर्वन्तः। सत्परामर्शोपरि, अर्जुनः स्वअस्त्रस्य आवर्तनं करोति, न अश्वत्थामा। कारणं - यः ब्रह्मचारी अस्ति, सैव आवर्तनकर्तुं शक्यते - ब्रह्मतेजोद्भवं तद्धि विसृष्टमकृतात्मना। न शक्यमावर्तयितुं ब्रह्मचर्यव्रतादृते।।)
  2. पुराणेषु अन्यत्र कोलापुरः संज्ञा अस्ति - बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा॥ (मार्कण्डेयपुराणम् ८१.४), कोलानाम्नीं राजधानीं रुरुधुस्तस्य भूपतेः ।।- शिव ५.४५.१७। अयं कोला कुलः अस्ति, अथवा अन्यत् किंचित् भवति, अन्वेषणीयः। रजनीशमहोदयानुसारेण, हृदयस्य अनाहतचक्रस्य गुणः अयमस्ति यत् चेतनायाः अस्तित्वं पात्रतः बहिरपि अस्ति, अन्तरे अपि। कण्ठोपरि यः विशुद्धिचक्रः अस्ति, तस्मात् चेतनायाः बहिर्गमने - अन्तरागमने कोपि बाधा नास्ति। यः अनाहतचक्रः अस्ति, तत् वायोः महाभूतस्य स्थानमस्ति। अस्य अभिव्यक्तिः षट्कोणेन भवति। अयं षट्कोणः आधुनिकविज्ञाने कोल - कार्बनसंज्ञकस्य तत्त्वस्य आन्तरिकसंरचनायाः परिचायकः अस्ति।