सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १९६

विकिस्रोतः तः
← अध्यायः १९५ पद्मपुराणम्
अध्यायः १९६
वेदव्यासः
अध्यायः १९७ →

सूत उवाच-
अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिमलौकिकीम् ।
निजलोकं परित्यज्य भुवमभ्यगमद्धरिः १।
वनमाली घनश्यामः पीतवासाः किरीटधृक् ।
कांचीकलापपर्यस्तो लसन्मकरकुंडलः २।
त्रिभंगललितश्चारु कौस्तुभेन विराजितः ।
कोटिमन्मथ लावण्यो हरिचंदन चर्चितः ३।
परमानंद चिन्मूर्तिर्मधुरो मुरलीधरः ।
आविवेश स्वभक्तानां हृदयान्यमलानि च ४।
वैकुंठवासिनो ये च वैष्णवाः शांतमानसाः ।
गूढरूपाः समायाताः श्रवणाय हरेः कथाः ५।
तदा जयजयेत्युच्चैः शब्दोऽभूत्कंबुशब्दयुक् ।
येनामंगलमत्युग्रं कलिजं प्रलयं गतम् ६।
तत्रस्थानां जनानां च दृष्ट्वा गेहात्मविस्मृतिम् ।
नारदोऽध्यात्मतत्वज्ञः कुमारान्प्रत्युवाच ह ७।
नारद उवाच-
अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योद्य विलोकितो मया ८।
मूढाः शठा ये पशुपक्षिणोऽपि तेपि प्रयांत्येव गतिं पराख्यात् ।
अतो नृलोकेन तु शास्त्रमन्यच्चित्तस्य शुध्यै विहितं पवित्रम् ९।
अघौघविध्वंसि कृतार्थतावहं कलौ युगे दोषनिधौ कुमाराः ।
के केन शुध्यंति वदंतु मह्यं सप्ताहयज्ञेन कथामयेन १०।
कृपालुभिर्लोकहितोभवद्भिः प्रकाशितं कोऽपि नवीनमार्गः ।
कुमारा ऊचुः।
ये मानवाः पापकृतः सुदुष्टाः सदा दुराचाररताः समत्सराः ११।
क्रोधाग्निदग्धाः कुटिलाश्च कामिनः सप्ताहयज्ञेन हरिं व्रजंति ते १२।
सत्येन हीनाः पितृमातृदूषकास्तृष्णाकुलाश्चाश्रमवर्णबाह्याः ।
ये दांभिका जीवविहिंसकाश्च सप्ताहयज्ञेन हरिं व्रजंति ते १३।
पंचोग्रपापाश्च्छलकारिणश्च क्रूराः पिशाचा इव निर्दयाश्च ।
ब्रह्मस्वपुष्टा व्यभिचारिणश्च सप्ताहयज्ञेन हरिं व्रजंति ते १४।
कायेन वाचा मनसापि पातकं नित्यं प्रकुर्वंति शठा हठेन ये ।
नीचाः कृतघ्ना मलिना दुराशयाः सप्ताहयज्ञेन हरिं व्रजंति ते १५।
सूत उवाच-
अथैवं तुष्टचित्तेऽथ नारदे देवपूजिते ।
प्रसन्नास्ते कुमाराश्च पुनरूचुश्च नारदम् १६।
कुमारा ऊचुः ।
अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापहानिः प्रजायते १७।
[]तुंगभद्रा तटे पूर्वं पत्तने कोहलाभिधे ।
वर्णाश्रमाचारयुते धनधान्यसमाकुले १८।
आत्मदेव इति ख्यातस्तत्रासीद्दिवजसत्तमः ।
वेदविद्याविधिप्राज्ञो नित्यकर्मपरायणः १९।
तत्प्रिया धुंधुली नाम नित्यं स्वीयहिते रता ।
स्ववाक्यस्थापनाचापि सुंदरी सुकुलोद्भवा २०।
पूर्वकर्मविपाकेन प्रायशो बहुजल्पिनी ।
शूरा च गृहकृत्येषु क्रूरा च कलहप्रिया २१।
एवं निवसतोस्तत्र दंपत्योर्निरपत्ययोः ।
व्यतिक्रांतं वयश्चापि पंचाशद्वर्षसंमितम् २२।
अथ तौ दुःखितौ जातौ निरपत्यौ गृहेस्थितौ ।
संतानोत्पत्तये ताभ्यां दत्तं चापि धनादिकम् २३।
गोभूहिरण्यवासांसि दत्तान्यपि बहूनि च ।
न पुत्रो नापि दुहिता जायते पूर्वकर्मणा २४।
स चैकदा तु निर्विण्ण आत्मदेवो द्विजोत्तमः ।
गृहं त्यक्त्वा गतोऽरण्यमानपत्येन दुःखितः २५।
यत्र तत्र भ्रमन्भ्रांतो दुःखाकुलितमानसः ।
क्षुत्क्षामस्तृट्परीतश्च दैवात्प्राप्तो जलाशयम् २६।
जलं पीत्वा ततस्तस्मिंस्तडागे स द्विजोत्तमः ।
वृक्षच्छायां समाश्रित्य निषण्णस्तत्र नारद २७।
अथ तत्र तदैवागात्कश्चित्सिद्धो भ्रमन्महीम् ।
जलं पीत्वा तडागे तु सोऽपि तत्रैव चागतः २८।
तं दृष्ट्वा न्यासिनं शांतमात्मदेव उदारधीः ।
सत्कृत्योत्थाय तत्पादौ जग्राह स्वगुरोरिव २९।
उपविष्टौ ततस्तौ द्वौ कृतप्रश्नौ परस्परम् ।
सुस्निग्धमानसौ भूत्वा गुरुशिष्याविवाश्रमे ३०।
अथ तं स यतिर्दृष्ट्वा श्वसंतं दुःखितांतरम् ।
पप्रच्छ करुणासिंधुरात्मदेवं पुरः स्थितम् ३१।
सिद्ध उवाच-।
का ते चिंता द्विजश्रेष्ठ दुःखाय हृदि वर्तते ।
तां समाचक्ष्व धर्मज्ञ परितापप्रदायिनीम् ३२।
तच्छ्रुत्वा वचनं तस्य सिद्धस्य सुमहात्मनः ।
आत्मदेव उवाचाथ स्वस्य दुःखस्य कारणम् ३३।
आत्मदेव उवाच-।
किं ब्रवीमि मुने दुःखं संचितं पूर्वकर्मणा ।
मदीयाः पूर्वजास्तोयं कवोष्णमुपभुंजते ३४।
मद्दत्तं नैव गृह्णंति पितरो देवता बलिम् ।
तेन दुःखेन निर्विण्णः प्राणांस्त्यक्तुमिहागतः ३५।
धिग्जीवितं प्रजाहीनं गृहं चैव धनं कुलम् ।
पाल्यते या मया धेनुः साऽपि वंध्यात्वमेति ह ३६।
यो मयारोपितो वृक्षः सोपि वंध्यत्वमागतः ।
निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे ३७।
कुमारा ऊचुः।
इत्युक्त्वा स रुरोदोच्चैस्तत्पुरो दुःखपीडितः ।
यदा तदा यतेश्चित्ते करुणाभूद्गरीयसी ३८।
ललाटाक्षरमालां च दृष्ट्वा ज्ञात्वा स योगवान् ।
आत्मदेवं द्विजं प्राज्ञः पुनरूचे सविस्तरम् ३९।
सिद्ध उवाच।
शृणु विप्र मया तेऽद्य प्रारब्धमवलोकितम् ।
सप्तजन्मावधि प्राप्तिः पुत्रस्य न च दृश्यते ४०।
मुंचाग्रहं प्रजाहेतोर्बलिष्ठा कर्मणो गतिः ।
विवेकं तु समासाद्य सुखी भव महामते ४१।
एवमुक्तं समाकर्ण्य सिद्धस्य द्विजसत्तमः।
प्रजाशाबद्धचित्तस्तु सिद्धं प्राहातिदुःखितः ४२।
विप्र उवाच-।
विवेकेन भवेत्किं मे पुत्रं देहि बलादपि ।
नो चेत्त्यजाम्यहं प्राणांस्त्वदग्रे शोकमूर्च्छितः ४३।
इति विप्राग्रहं दृष्ट्वा प्राब्रवीत्स तपोधनः ।
संततेः सगरो दुःखमवापांगः प्रजापतिः ४४।
चित्रकेतुर्गतः कष्टं विधिलेखविमार्ज्जनात् ।
अतस्त्वमपि धर्मज्ञ यदि पुत्रं लभेरपि ४५।
सुतेन न सुखीभूयाः दैवं हि बलवत्तरम् ।
इत्युक्त्वा द्विजवर्याय स सिद्धः साधुसंमतः ४६।
ददावेकं फलं तस्मै प्राग्रहेण सुतार्थिने ।
इदं फलं मया तुभ्यं दत्तं पुत्राप्तये द्विज ४७।
भार्यायै देहि पुत्रस्ते भविष्यति न संशयः ।
सत्यं शौचं दया दानमेकभक्तं तु भोजनम् ४८।
वर्षावधि स्त्रिया कार्यं तेन शुद्धो भवेत्सुतः ।
एवमुक्त्वा ययौ योगी विप्रः स्वगृहमागतः ४९।
दत्त्वा पत्न्यै फलं तत्तु सिद्धोक्तमवदच्च ह ।
अथ सा धुंधुली क्रूरा स्ववाक्यस्थापनोत्सुका 6.196.५०।
स्वसख्यै प्राह तत्सर्वं पत्योक्तं सिद्धभाषितम् ।
यद्यहं भक्षये चेदं फलं सिद्धेन चार्पितम् ५१।
गर्भो मम भवेत्तर्हि कथं चाहं सहाम्यहम् ।
स्वल्पं भक्ष्यमशक्तिश्च गमने गृहकर्मणि ५२।
तिर्यक्चेदागतो गर्भो तदा मे मरणं भवेत् ।
प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे ।
मंदयां मयि सर्वस्वं ननांदा संहरेत्सदा ५३।
चिंता मे समनुप्राप्ता किं करोमि शुचिस्मिते ।
सा तद्वचनमाकर्ण्य स्नेहभंगभयाद्दिवज ५४।
एवमेवेति तां प्राह प्रीत्या प्रहसितानना ।
एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् ५५।
पत्या पृष्टे फलं भुक्तं भुक्तं चेति तयेरितम् ।
एकदा भगिनी तस्याः स्वेच्छया तद्गृहं गता ५६।
तदग्रे कथितं सर्वं चिंतेयं महती हि मे ।
किं करोमि सगर्भोऽहं त्वं प्रब्रूहि यथातथम् ५७।
साब्रवीन्मम गर्भोस्ति तुभ्यं दास्ये प्रसूतितः ।
तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् ५८।
तं बालं पोषयिष्यामि त्वद्गृहे चैव नित्यदा ।
फलं धेनोः प्रयच्छाद्य परीक्षार्थं शुभानने ५९।
इत्युक्त्वा सा ययौ गेहमात्मनो हृष्टमानसा ।
धुंधुल्यापि यथोद्दिष्टं तद्भगिन्या तथा कृतम् ६०।
अथ प्रसूय सा बालं धुंधुल्यै चार्पयद्द्रुतम् ।
तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः६१।
लोकस्य सुखमुत्पन्नमात्मदेव प्रजोदयात् ।
दत्त्वा दानं द्विजाग्रेभ्यो जातकर्म चकार च ६२।
गीतवादित्रनिर्घोषो गृहे तस्यातिमङ्गलम् ।
बभूव हर्षमापन्न आत्मदेवो महामतिः ६३।
अथ सा प्राह भर्त्तारं दुग्धं मेस्तनयोर्नहि ।
पालयिष्ये कथं बालं सद्यः सूतं प्रभोऽधुना ६४।
मत्स्वसुश्च प्रसूताया मृतो बालः पुराभवत् ।
तामानीय गृहे रक्षसार्भकं पोषयिष्यति ६५।
इति श्रुत्वा वचस्तस्या धुंधुल्या द्विजसत्तमः ।
तथैव कृतवान्भ्रांतरात्मदेवो मुदान्वितः ६६।
धुंधुकारीति नामास्य कृतं मात्रा यथार्थतः ।
स्तन्येन पोषमाप्नोति नित्यं मातृष्वसुः सुतः ६७।
त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् ।
सर्वांगसुंदरं दिव्यं निर्मलं कनकप्रभम् ६८।
दृष्ट्वा प्रसन्नस्तं विप्रः संस्कारान्स्वयमादधे ।
तं दिदृक्षव आयाता जनाः सर्वेऽतिविस्मिताः ६९।
आत्मदेवस्य विप्रस्य महाभाग्योदयेन च ।
धेन्वा बालः प्रसूतश्च देवरूपोऽतिकौतुकम् ७०।
न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः ।
गोकर्णः तं सुतं दृष्ट्वा गोकर्णेत्येवचाभ्यधात् ७१।
कियत्कालेन संप्राप्तौ तारुण्यं तावुभावपि ।
गोकर्णः पंडितो ज्ञानी धुंधुकारी महाखलः ७२।
स्नानशौचक्रियाहीनो भक्ष्याभक्षी क्रुधाप्लुतः ।
चौरः सर्वजनद्वेषी दुष्टचांडालसंगतः ७३।
क्रीडतो ह्यर्भकान्धृत्वा बलात्कूपे निपातयेत् ।
एवं वेश्याप्रसंगेनानयद्द्रव्यं क्षयं पितुः ७४।
पिता कृपणवत्तस्य शुचा निःस्वो रुरोद ह ।
अनपत्यः सुखी नित्यं कुपुत्रो दुःखदायकः ७५।
सिद्धेनोक्तं वचः सत्यमनुभूतं मयाधुना ।
क्व गच्छामि क्व तिष्ठामि को मे दुःखं निवारयेत् ७६।
प्राणांस्त्यक्ष्ये जले वह्नौ भृगोर्वापि पते ह्यहम् ।
इत्येवं चिंतयानं तमधोमुखमुपागतः ७७।
गोकर्णो जनकं ज्ञानी बोधयामास तत्वतः ।
गोकर्ण उवाच-
असारस्तात संसार दुःखमोहप्रदो नृणाम् ७८।
कः सुत किं धनं कस्य का जाया कः पतिः पितः ।
मोहेन बद्धो दीनात्मा लोकः क्लिश्यति नान्यथा ७९।
न चेंद्रस्य सुखं किंचिन्न सुखं चक्रवर्तिनः ।
विरक्तस्य सुखं तात मुनेरेकांतशीलिनः ८०।
मुंचाज्ञानं प्रजारूपं मोहं नरककारणम् ।
निर्द्वंद्वो निरभीमानो व्रज त्यक्त्वाखिलं वनम् ८१।
ततस्तद्वाक्यमाकर्ण्य गोकर्णं स द्विजोऽब्रवीत् ।
द्विज उवाच-
यत्कर्त्तव्यं वने साधो तन्ममाचक्ष्व विस्तरात् ८२।
मोहपाशनिबद्धं हि शठं कृपणमानसम् ।
संसारगर्ते पतितं मामुद्धर दयानिधे ८३।
पितुरित्थं वचः श्रुत्वा गोकर्णो ज्ञानपंडितः ।
उवाच दीनं निर्विण्णं पितरं हृष्टमानसः ८४।
गोकर्ण उवाच-
मांसास्थिरक्तनिकरे स्वशरीरकेऽस्मिन्स्वत्वं त्यजाशु ममतां वनिता सुतादौ ।
पश्यानिशं जगदिदं क्षणभंगनिष्ठं ज्ञानी विरागरसिको भव भक्तिनिष्ठः ८५।
धर्मं भजस्व सततं त्यज लोकधर्मान्संसेव्य साधुपुरुषान्जहि कामतृष्णाम् ।
अन्यस्य दोषगुण चिंतनमाशु मुक्त्वा विष्णोः कथारसमथो नितरां पिब त्वम् ८६।
कुमारा उचुः-
एवं सुतोक्तविदितानुभवो निरीहस्त्यक्त्वा गृहं स्थिरमतिर्गतषष्टिवर्षः ।
नित्यं हरिप्रियजनानुगतो महात्मा दुष्प्रापमाप च पदं स हरेर्वनस्थः ८७।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे श्रीभागवत। माहात्म्ये षण्णवत्यधिकशततमोऽध्यायः १९६।

  1. तुंगभद्रा उपरि संक्षिप्तटिप्पणी