पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २०४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः २०३ पद्मपुराणम्
अध्यायः २०४
वेदव्यासः
अध्यायः २०५ →

शिवशर्मोवाच-
विष्णुशर्मंस्ततो वैश्यः शरभः सह भार्यया
नीत्वा पूजोपकरणं ययौ श्रीचंडिकालयम् १
तत्र तौविधिवत्स्नात्वा सुमनो धूपदीपकैः
आनर्चतुर्भक्तियुक्तौ चंडिकां पुत्रकाम्यया २
श्रद्धया पूजिता ताभ्यां दिनैः सप्तभिरंबिका
उवाच वाचा प्रत्यक्षं भूत्वा विशदमानसा ३
पार्वत्युवाच-
भो भो वैश्य प्रसन्नास्मि भक्त्या सुदृढया तव
ददामि पुत्रं ते साधो यदर्थे यत्नवानसि ४
गच्छ त्वं मा विलंबस्व वनमैद्रं च खांडवम्
तत्र तीर्थं महापुण्यमिंद्रप्रस्थाख्यमुत्तमम् ५
निगमोद्बोधकं तत्र तीर्थं निखिलकामदम्
बृहस्पतिकृतं तत्र स्नाहि त्वं सुतवांछया ६
भविष्यति सुतस्तात तव स्नानेन तत्र हि
तत्र स्नात्वा मयाप्यंग लब्धः स्कंदः सुरारिहा ७
शिवशर्मोवाच-
इत्याकर्ण्य वचो देव्याः पिता मम सहस्त्रिया
अत्राजगाम सत्तीर्थे सस्नौ च सुतवांछया ८
उपस्करवतीर्धेनूर्द्विजेभ्यः प्रददौ शतम्
देवान्पितॄंश्च संतर्प्य यथाविध्यत्र बुद्धिमान् ९
सप्तरात्रमुषित्वा तु दंपती यतमानसौ
जग्मतुः स्वगृहानिष्टलाभोत्फुल्लमुखांबुजौ १०
तस्मिन्नेवाभवद्गर्भो मासि मातुर्ममान्वहम्
व्यतीते नवमे मासि जातोऽहं दशमे शुभे ११
विष्णुशर्मन्यदुक्तं ते पुरावृत्तमिदं मया
दशाब्दद्वयमेवैतच्छ्रुतं सर्वं पितुर्मुखात् १२
एकदा क्षममालोक्य गृहकर्मणि मां पिता
गृहं मामर्पयामास विश्वाद्वैराग्यमाप्नुवन् १३
मां चोवाच स धर्मात्मा गोविंदासक्तमानसः
विनिंदन्विषयासक्तिं विष्णुभक्तिं स्तुवन्मुहुः १४
पितोवाच-
सुमते वार्द्धकं प्राप्तं पलिताश्चिकुरा मम
गोविंदचरणांभोजं सेविष्ये साधुसेवितम् १५
तत्सैवया भवेत्स्वच्छं मनो यस्य च सुस्थिरम्
स पुमानात्मसंतुष्टो न किंचिदभिवांछति १६
निष्कामः सुखदुःखाभ्यां भुंजन्सुकृतदुष्कृते
प्राकृते तत्समाप्तौ च त्यजन्देहं भवत्यजः १७
तां वद्द्रव्यं गुणसुखं यावत्प्राप्तं न चित्सुखम्
तत्प्राप्तौ तद्भवेत्तुच्छं सुधाया इव तक्रकम् १८
हरेर्मायाबलवतीयं मोहयति देहिनम्
हितानि तं न जानाति स यथा मदिरामदः १९
प्रवृत्तिं च निवृत्तिं च विद्ययाविद्यया च सः
करोति स्वेच्छया काले बाललीलो हि स प्रभुः २०
वेदोदितं यदा कर्म क्रियते फलमिच्छता
प्रवृत्तिं सा परा तात तेषामर्पणमीश्वरे २१
यथा निर्दग्धाबीजानि न प्ररोहंति यत्नतः
यथा कर्माणि विश्वेशे निःकामेनार्पितानि तु २२
कर्मणां च लयो मोक्षः सुखदुःखप्रदायिनाम्
तदुत्पत्तिस्तु बंधः स्यादित्यसौ शास्त्रनिर्णयः २३
अतोऽहं कर्मवेदोक्तं कुर्वन्नाभिलषन्फलम्
पर्यटिष्यामि तीर्थेषु हृदि भक्ति दधद्धरेः २४
एवं प्रारब्धकर्माणि भुंजन्नान्यान्यतर्जयन्
हनिष्यामि जगद्रोगं पीत्वा सत्संगमौषधम् २५
शिवशर्मोवाच-
एवमाकर्ण्य वचनं तस्याहं पितुरात्मनः
अवदं विष्णुशर्मस्त्वं तन्निशामय तत्वतः २६
वैश्यपुत्र उवाच-
अयं जनो दुराराध्यः कथयिष्यति नो यशः
दुष्टकुटुंबादुद्विज्य निःसृत्य गत इत्ययम् २७
इयं विष्णुपदी तात भुवनत्रयपावनी
स्मृता हरत्यघं दूरात्कस्मादेनां विमुंचसि २८
पापकारी जनस्तात म्रियते मगधे तु यः
सोप्यस्तपापो गंगायां स्वर्याति त्यजमाशुभम् २९
पुत्राः षष्टिसहस्राणि सगरस्य महात्मनः
कपिलक्रोधनिर्दग्धा गतायत्स्पर्शनाद्दिवम् ३०
तामिमां त्रिदिवश्रेणीं मुक्तेरपि विधायिनीम्
मुमुक्षुसेवितां तात मुक्त्वा मान्यत्र गम्यताम् ३१
मावजानीहि सामीप्ये गंगा त्रिदशमानिताम्
यदिच्छसि महाभाग सेवितैषा प्रदास्यति ३२
तिर्यंचोऽपि विना ज्ञानाज्जले चेत्स्युर्गतासवः
भवेयुस्तर्हि ते ब्रह्म सा कथं त्यज्यते त्वया ३३
शिवशर्मोवाच-
निशम्यैतद्वचस्तातस्ततो मम ऋतप्रियः
उवास सदने सर्वविषयेभ्यः पराङ्मुखः ३४
त्रिषु कालेषुं गगायां प्रत्यहं स्नानमाचरन्
पुराणं स्याद्गृहे यत्र तत्र याति स नित्यशः ३५
एकदाकर्णयन्धीरो यमुनातीर्थगौरवम्
तत्र शुश्राव माहात्म्यमस्यतीर्थस्य पुत्र सः ३६
अविमुक्त हरिद्वार प्रयागेभ्यश्च पुष्करात्
अयोध्याद्वारिका कांची मथुराभ्यस्तथान्यतः ३७
सर्वतीर्थमयस्यास्य पुण्यं शतगुणाधिकम्
कथितं तेन विदुषा सुतेनाकर्ण्यमत्पिता ३८
त्यक्त्वा गृहमगादत्र तीर्थे सर्वैरलक्षितः
आवामिव महाभागो गोविंदपदसेवकः ३९
अत्रागत्य महाभागो मत्पिता मोक्षवांछया
निगमोद्बोधके तीर्थे त्रिकालं स्नानमाचरन् ४०
उवास कतिचिन्मासानत्र तीर्थोत्तमे हि सः ४१
कुर्वन्निजक्रियां धीमान्निस्पृहोप्यजवेश्मनि
एकदा सहसा तस्य ज्वरोऽभूदतिदारुणः ४२
महत्या पीडया तस्य मुमोह गतचेतनः
मुहूर्तं स पिता मुह्यं तदवस्थो व्यतिष्ठित ४३
पश्चात्समागतप्राणो विचिंत्य यदिदं तदा
अहो मे कष्टमापन्नं दूरे पुत्रः स धार्मिकः ४४
यो मां ज्वरवितप्तांगमाश्वासयति बुद्धिमान्
अगम्यागमनं पापं कृतं यन्मे सुदारुणम् ४५
प्रायश्चित्तं न तस्यापि कृतं कामे गतिर्भवेत्
आगमिष्यति पुत्रो मे तस्मै दास्यामि वस्विति ४६
यन्मया गोपितं गेहे न दृष्टं च तदप्यहम्
शिवशर्मोवाच-
इति चिंतयतस्तस्य पान्थो वर्षेण पीडितः ४७
शीतार्तः कंपितवपुरुटजं प्राविशत्तदा
स तं संविष्टमालोक्य भूयो गत्वा तदंतिके ४८
मुनिरेष इति ज्ञात्वा ववंदे शिरसाध्वगः
ऊचे च कस्मात्सुप्तोसि मुने संध्या समागता ४९
रविरस्तं प्रयात्येष न सुप्तेः काल एष ते
इत्युक्तमात्रे वचसि पथिकेन पिता मम ५०
शरभो ज्वरतप्तांगस्तमाह कथमप्यहो
शरभ उवाच-
श्रूयतां वचनं पांथ यद्वदामि पुरस्तव ५१
श्रुत्वा मद्भाग्ययातेन त्वया साधो विधीयताम्
वैश्योऽहं शरभो नाम्ना कान्यकुब्जे गृहं मम ५२
अत्रागतो निषिद्धोपि जायामित्रसुतैरहम्
अस्य तीर्थस्य माहात्म्यं श्रुत्वा सूनुमुखेरितम् ५३
मासास्तु कतिचित्साधो व्यतीता मयि चागते
दिनत्रयमतिक्रांतं ज्वरितस्य ममाधुना ५४
प्राणा मे विगता आसन्नद्यभूयः समागताः
कियानप्यायुषः शेषः साधो मे खलु तिष्ठति ५५
शमनस्य गृहं दृष्ट्वा यदहं पुनरागतः
भाग्योदयेन केनापि ममात्र त्वं समागतः ५६
नय मां मद्गृहं मित्र द्रव्यं बहु ददामि ते
दास्याम्यपि गृहं गत्वा कृपां कुरु कृपानिधे ५७
इह भूभाग उत्खाय गृह्यतां मामकं धनम्
शिवशर्मोवाच-
इत्याकर्ण्य स दुर्बुद्धिर्ग्राम्यो विषयलंपटः ५८
उवाच धनलुब्धस्तं त्वदुक्तं साधयाम्यहम्
इत्युक्त्वा धनमुत्खाय तस्माद्भूभागतस्तदा ५९
अग्रतः स्थापयामास शरभस्याह चाध्वगः
अध्वग उवाच-
धनमेतद्विशांनाथ तव भूभागतो मया ६०
निष्कासितं प्रयच्छाशु शिबिकानयनाय मे
यामारोप्य ज्वरार्तं त्वां नयामि तव केतनम् ६१
शिवशर्मोवाच-
इत्युक्तस्तेन स तदा ददौ स्वर्णपलत्रयम्
सोपि नीत्वा पितुर्द्रव्यं ययौ लवणपत्तनम् ६२
उषित्वा रात्रिमेकां तु शिबिकां सपरिच्छदाम्
सवाहामानयत्पुत्र दत्त्वा स्वर्णपलद्वयम् ६३
पलं द्वयं गृहीतं तत्तेनैवाधर्मबुद्धिना
आरोप्य शिबिकां तं तु शरभं वैश्यसत्तमम् ६४
पांथः स चलितो वाहांस्त्वरयन्कान्यकुब्जकम्
अस्य तीर्थवरस्याथ कमंडलुजलं धृतम् ६५
पाययन्नल्पमल्पं तं तृषार्तं सोध्वगो ययौ
अथ ते सरसस्तीरे उत्तीर्णा भोक्तुमध्वनि ६६
स्नात्वा भुक्त्वा पुनस्तस्मात्स्थानाच्चेलुस्त्वरान्विताः
कियंति भूमिमुल्लंघ्य तृषार्तांस्ते कमंडलोः ६७
जलं पीत्वा तृषार्तं तं शरभं चाप्यपाययत्
अथ कश्चिन्महाभीमो विकटो नाम राक्षसः ६८
विचरन्निर्जनेऽरण्ये गच्छतस्तानवैक्षत
तान्दृष्ट्वा स क्षुधाक्रांतो वेगवान्विवृताननः ६९
अभिदुद्राव चरणाघातेनाकंपयन्महीम्
आगत्य तरसा पार्श्वे तान्वाहान्पथिकं च तम् ७०
सकोशेषु समादाय भ्रामयामास खेचरः
गतासून्भ्रामणेनैव भूतले तानपोथयत् ७१
चखाद पिशितं तेषां पपौ कोशाच्च शोणितम्
कुत्र यास्यति रोगार्तो नरोऽयं पुरतो मम ७२
एनं तु भक्षयिष्यामि पश्चादंबु पिबाम्यहम्
इति कृत्वा मतिर्वारितीर्थस्यास्य कमंडलोः ७३
मुखे चिक्षेप स तदा रजनीचरपुंगवः
क्षिप्तमात्रे जले तस्य पूर्वजन्मभवा स्मृतिः ७४
जाता स तु वधात्तस्य शरभस्य न्यवर्तत
पूर्वजन्मकृतं पापं तदपि स्मृतिमागमत् ७५
येन राक्षसभावस्तु भूतो विप्रोद्भवादपि
स्मृत्वा पापमुपेत्याशु समीपे शरभस्य तु
उवाच ज्ञानमापन्नो राक्षसः पितरं मम ७६
राक्षस उवाच-
भो भो मनुष्यशार्दूल कस्त्वं के च जना अमी
भक्षिता ये मया घोर रूपेणाधमरक्षसा ७७
कस्य तीर्थवरस्येदं जलं यस्य प्रभावतः
पापिनोऽपि स्मृतिर्जाता पूर्वजन्मभवा मम ७८
वैश्य उवाच-
वैश्योऽहं राक्षसश्रेष्ठ कान्यकुब्जे गृहं मम
तीर्थानि पर्यटन्निंद्रप्रस्थेऽहं समुपागतः ७९
तत्राहमभवं दुःखी ज्वरेण विधियोगतः
ततो मे बुद्धिरुत्पन्ना गंतुं गृहमसत्पथ
तत्र कश्चित्समायातः पांथो वर्षेण पीडितः ८०
प्रार्थितः स मयानीय शिबिकां मां गृहं नय
स चायं शिबिकां पांथः समुपानीय सत्वरः ८१
मामारोप्य च तां धीरश्चलितो मद्गृहं प्रति
स पांथस्ते च शिबिकावाहाः संप्रति भक्षिताः ८२
त्वया जलमिदं यस्य तीर्थस्यापि च तच्छृणु
इंद्रस्य खांडववने यमुनास्ति सरिद्वरा ८३
तत्तीरेऽस्ति हरिप्रस्थं तीर्थं तीर्थोत्तमोत्तमम्
सुराचार्यस्य तत्रास्ति तीर्थं सर्वार्थसाधकम् ८४
निगमोद्बोधकं जाता स्मृतिस्ते यज्जलाशनात्
एतत्ते सर्वमाख्यातं यत्पृष्टोऽहंमिह त्वया ८५
पृच्छामि त्वामहं किंचित्तद्वदाशु निशाचर
पूर्वजन्मकृतं कर्म स्मरसि त्वमिहाधुना
वद किं ते कृतं पापं येन जातोऽसि राक्षसः ८६
राक्षस उवाच-
पुराहमभवं विप्रः पुण्ये वेदविदां कुले
दुराचारो ह्यधर्मात्मा शृणु सर्वं वदामि ते ८७
क्रीडता हि मया नित्यं द्यूतेन सह तद्विदैः
हारितं द्रविणं भूरि स्वकीयं पितुरेव च ८८
पित्रा निवेद्य भूपाय मामकं कर्म तज्जनैः
पुरान्निःसारितो निःस्वो गतोऽहं ग्राममंतिके ८९
तत्रासीन्मे सखा नाम देवको ब्राह्मणोत्तमः
तेनाऽहं रक्षितो गेहे कुर्वता चिरमादरम् ९०
वस्तुं तत्र सुखेनाहं तद्भार्यां रूपशालिनीम्
कामातुरोऽहमभजं बलान्मित्रे गते क्वचित् ९१
सा मृता तत्क्षणात्साध्वी भक्षयित्वा महाविषम्
तां दृष्ट्वा तमसायुक्ते निशीथेऽहं पलायितः ९२
पलायमानस्तरसा धृतोऽहं राजकिंकरैः
चौरोऽयमिति खङ्गेन चिच्छिदुस्ते शिरो मम ९३
मृतं मां यातनादेहमावेश्य यमकिंकराः
रौरवे निरयघोरे चिक्षिपुर्यमशासनात् ९४
षष्टिवर्षसहस्राणि तत्राऽहं तीव्रयातनाम्
भुक्त्वा तेनैव पापेन राक्षसत्वमुपागतः ९५
शतवर्षाण्यतीतानि राक्षसत्वे विशांपते
वदामि तमुपायं मे येनास्मान्मुक्तिमाप्नुयाम् ९६
पुण्यं तदर्पिते साधो वदामि शृणु सादरम्
येन तीर्थवरस्येदं जलं मम मुखे गतम् ९७
तत्रैव जन्मनि मया कृत्वा हरिदिने व्रतम्
संसर्गान्नेच्छया वैश्य रात्रौ जागरणं कृतम् ९८
द्वादश्यामथ संस्नात्वा भोक्तुंमपि समुद्यते
मद्गृहे कश्चिदायातो वैष्णवो विष्णुरूपधृक् ९९
कुपितोऽहं तमालोक्य दुर्वचो वदमग्रतः
क्व गच्छसि दुराचार दांभिकस्त्रीजनांतरे १००
इत्युक्तं स मया धीरस्तुल्यो मानापमानयोः
तूष्णीमेव निकेतान्मे निर्गत्य चलितो यदा १०१
तदाभिमुखमायांती पत्नी मम पतिव्रता
पतित्वा पादयोस्तस्य तं साधुं गृहमानयत् १०२
मयापमानितस्यापि न क्रोधोऽभून्महात्मनः
तयादृतस्याप्यानंदो यतः सोरि सुहृत्समः १०३
तमर्चयित्वा विधिवद्विष्टरे चोपवेश्य सा
भोज्यं भोजय जीवेश जयताद्भुवनत्रयम् १०४
इत्युक्तोऽहं तया साध्व्या न्यगदं तं महाशयम्
म्लानवक्त्रः प्रसन्नास्यमुत्तिष्ठ शमय क्षुधाम् १०५
इत्युक्त्वा तस्य चरणौ नोदितस्तनुमध्यमा
प्राक्षालयं पुनस्तं तु निवेश्यासनमुत्तमम् १०६
अददां पात्रमन्नेन पूर्णं तस्मै विवेकिने
जलं च तत्करे साध्व्या प्रेरितोऽहं तया मुहुः १०७
उपभुज्य स धर्मात्मा स्वैरं विगतविक्रियः
हरेराम हरेकृष्ण जपन्निति जगाम ह १०८
कृतं पुण्यमिदं वैश्य नोदितेन मया स्त्रिया
पूर्वजन्मनि येनेदं प्रापितं तीर्थवारि मे १०९
शिवशर्मोवाच-
विष्णुशर्मन्निदं वाक्यमुक्त्वा तिष्ठति राक्षसे
पथिकः स च ते वाहाः प्राहुः खे दिव्यदेहिनः ११०
पथिकवाहा ऊचुः
भो भो विशांपते साधो प्राप्ता अप्यपमृत्युताम्
त्वत्प्रसादादिदं वारि पीत्वा देवत्वमागताः १११
त्वत्संगे धनलोभेन विट्पते चलिता यतः
विगता न धनाकांक्षा मरणावसरेप्यतः ११२
तीर्थराजजलस्यास्य तिष्ठतो जठरे हि नः
मरणे ह्यनुभावात्तु मैत्री प्राप्ता धनेशितुः ११३
नमामस्त्वां वयं यामो धनेश नगरीं प्रभो
विमानैस्तद्गणानीतैर्नानामणिविभूषितैः ११४
प्रयाहि मा विलंबस्व तीर्थे निगमबोधके
त्वमनेनसमं साधो तारयैनमपि द्रुतम् ११५
शिवशर्मोवाच-
इत्युक्त्वा ते गतास्तात दिश्युदीच्यां समंततः
विमानकिंकिणीनादैर्नादयंतोऽथ रोदसी ११६
अथ वैश्यो मम पिता तमाह रजनीचरम्
शरभ उवाच-
उत्तिष्ठ नय मामाशु तीर्थे निगमबोधके ११७
ज्वरार्त्तेन मया पद्भ्यां तत्र गंतुं न शक्यते
यो मां नयति तत्तीर्थं त्वदन्यो नास्ति कश्चन ११८
शिवशर्मोवाच-
तथेति तमथाश्वास्य वैश्यं स रजनीचरः
स्कंधमारोप्य वेगेन तत्तीर्थं पावनं ययौ ११९
ऊषतुस्तावुभौ तत्र विश्पतिः स च राक्षसः
कुर्वंतौ स्नानमात्रं तु सर्वतीर्थोत्तमोत्तमे १२०
अथाऽहं पितुराकर्ण्य महतीं गुरुवेदनाम्
तं प्रति प्रेरितो मात्रा चलितो निजसद्मतः १२१
अत्रागत्य मया दृष्टः स महाज्वरपीडितः
मूर्ध्ना च वंदितस्तेन दत्ताशीर्मेऽभ्यभाषि च १२२
शरभ उवाच-
किमर्थमिह भो तात दूरमार्गे समागतः
दिनानि कतिचित्तिष्ठन्कुर्वन्नत्र निजक्रियाम् १२३
विकटो नाम मे मित्रः राक्षसः समुपैति वै
उत्तिष्ठ वपुषामुष्य दंडवत्पत पादयोः १२४
न भेतव्यं त्वयामुष्मात्त्यक्तहिंसादि कर्मणः
अधुना तीर्थमासाद्य सन्निधौ मम तिष्ठति १२५
शिवशर्मोवाच-
इत्युक्तोऽहं तदा पित्रा शरभेण महात्मना
उत्थाय पतितस्तस्य पादयोर्दंडवद्भुवि १२६
दोर्भ्यामुत्थाप्य मां सोऽथ गाढमालिंग्य राक्षसः
स्वागतं मित्रपुत्रेति जगादाशिषमीरयन् १२७
राक्षस उवाच-
भाग्यवानसि भो तात यत्त्वमत्र समागतः
पितुर्धर्मात्मनः श्रुत्वा ज्वरपीडां सुदारुणाम् १२८
पितुराण्यमाप्नोषि तीर्थे कृत्वा तिलोदकम्
स्नात्वा कुरु क्रियां स्वीयाः पूर्वजन्मस्मरिष्यसि १२९
शिवशर्मोवाच-
एवमुक्तस्तदा तेन स्नातुं तीर्थे वरांभसि
प्रविष्टोऽहं स्मरंस्तात पूर्वजन्मशुभाशुभम् १३०
स्नात्वा विधिवदत्रैव पितुरंतिकमागतः
अपृच्छं रक्षसो वृत्तं कुतोऽयं धर्मधीरिति १३१
पित्रोक्तं रक्षसो वृत्तं वाहानां पथिकस्य च
श्रुत्वाऽहं तीर्थराजस्य स्तुतिमस्य चकार वै १३२
पिता मे रोगनिर्मुक्तो भविष्यति यदा तदा
यास्यामि गृहमित्यत्र दशोषितमहानि मे १३३
दशाहाभ्यंतरे तात तातस्य मरणं मम
अभूदर्धजले ह्यस्य तीर्थराजस्य पश्यतः १३४
अथो गरुडमारुह्य वक्षसो धारयन्श्रियम्
आजगाम स्वयं विष्णुर्नवीन घनविग्रहः १३५
पीतवासा चतुर्बाहुः पंकजारुणलोचनः
ब्रह्मेंद्रादिभिरादिव्यैः सनाथैरंधकारिणा १३६
सेव्यमानो गुणग्रामान्गायद्भिः किन्नरैः सह
हाहाहूहूप्रभृतिभिः स्तूयमानश्च सर्वतः १३७
दत्त्वा स्वकीय सारूप्यमारोप्य गरुडं तदा
पितरं मम ब्रह्माद्यैर्वृतो वैकुंठमारुहत् १३८
पितुः सारूप्यमालोक्य विष्णोरहमचिंतयम्
इति चित्ते तदालोक्य जाततत्वोदये तदा १३९
न हि वर्णयितुं शक्यो ह्यस्य तीर्थशिरोमणेः
महिमा यज्जलार्द्धे स्यान्मृतो जंतुश्चतुर्भुजः १४०
न मया सर्वथा त्याज्यं तीर्थराजमिदं ननु
अंजसा दृढमाहात्म्यं धनरोगादितृष्ण्या १४१
पितुरत्रोटजे तावत्स्थातव्यं हि मया मम
यावत्तु कर्मणां भुक्तः प्रारब्धानां महीतले १४२
एवं विचिंतयित्वा च पितुः कृत्वा तु सत्क्रियाम्
रक्षसा तेन सहितः स्थितोऽहं मोक्षवांछया १४३
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिं
दीमाहात्म्ये चतुरधिकद्विशततमोऽध्यायः २०४