पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २०३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २०२ पद्मपुराणम्
अध्यायः २०३
वेदव्यासः
अध्यायः २०४ →

देवल उवाच।
अथोषसि नराधीशः पूजितां कुसुमादिभिः ।
महिष्या नंदिनीं धेनुं नीत्वारण्यं जगाम सः १।
गच्छंतीमनु तां देवीं छायेव नृपतिर्ययौ ।
खादंतीमनुशष्पादि सोऽपि मूलाद्यभक्षयत् २।
तरुच्छायामुपासीनामनु सोऽप्युपविष्टवान् ।
पिबंतीमनुपानीयं राजापि सलिलं पपौ ३।
स च राजा मृदुग्रासैर्दंशापनयनेन च ।
कंडूयनैः कामधेनुं गुरोरेवमसेवत ४।
अथ प्रत्याश्रमं सायं न्यवर्त्तंत महीपतेः ।
अंगं पवित्रयंती सा खुरोद्धूतैरजःकणैः ५।
अधोभारेण गुरुणा गच्छंती मंथरं बभौ ।
महीपालमहत्कार्यभाराक्रांतेव नंदिनी ६।
तां मुनेराश्रमाभ्याशे राज्ञी प्रत्युज्जगाम ह ।
चंदनाक्षतनैवेद्यधूपादीनुपनीय च ७।
तां पूजयित्वा विधिवत्प्रणम्य च पुनः पुनः ।
कृत्वा प्रदक्षिणं राज्ञी तस्थौ प्रांजलिरग्रतः ८।
सा गृहीत्वा च तां पूजां विहितां श्रद्धया तया ।
राज्ञा निश्चलमास्थाय ययौ ताभ्यां सहाश्रमम् ९।
आराधयति तामेवं दिलीपे तु दृढव्रते ।
एकाधिका व्यतीयाय दिनानां वैश्य विंशतिः १०।
अथ भूमिपतेस्तस्य भावजिज्ञासया तु सा ।
विवेश निर्भयस्वांता सशष्पां हिमवद्गुहाम् ११।
पश्यता हिमवत्सानु शोभामथ महीभृता ।
अलक्षितागमः सिंहो बलाज्जग्राह नंदिनीम् १२।
सा चक्रंद भृशं धेनुर्दुःखितेव दयास्वना ।
चित्ते धनुर्भृतस्तस्य जनयंती दयोदयम् १३।
तदाक्रंदितमाकर्ण्य तस्याः स जगतीपतिः ।
हिमवत्सानुसंलग्नां निजदृष्टिं न्यवर्त्तयत् १४।
उपर्युपरि तां धेनुं स्रवदश्रुमुखीं नृपः ।
तीक्ष्णदंष्ट्रनखं सिंहं दृष्ट्वा स व्यथितोऽभवत् १५।
गृहीतां तेन सिंहेन तामालक्ष्य धनुर्द्धरः ।
निषंगाद्बाणमुद्धर्तुं प्राहिणोद्दक्षिणं भुजम् १६।
बाणमुद्धृत्य तूणीरान्निहंतुं तं मृगाधिपम् ।
गुणेनापूर्णमायोज्य चकर्ष वसुधाधिपः १७।
जडीभूतः समस्तांगस्तत्सिंहालोकनेन सः ।
नाशकद्बाणमुत्सृष्टुं राजासीद्विस्मितस्ततः १८।
तादृशं नृपमालक्ष्य जगाद स मृगाधिपः ।
नरवाचा भृशं भूयो विस्मयं प्रापयन्निदम् १९।
सिंह उवाच-
दिलीपं त्वामहं राजन्जानामि रविवंशजम् ।
त्वं च जानीहि मां शंभोर्गणं कुंभोदराभिधम् २०।
देवदारुरयं यस्ते वर्त्तते दृष्टगोचरे ।
पार्वत्यापुत्रवद्वीर पालितः स्निग्धचित्तया २१।
एकदामुष्यवन्येन गजेनाघर्षता कटम् ।
उदपाटि महाराज वल्कलं मृदुलं भृशम् २२।
एनं तादृशमालक्ष्य मृडानी करुणान्विता ।
मामत्र स्थापयामास सिंहं कृत्वास्य रक्षणे २३।
ममाह चेति सा देवी कुंभोदर निशम्यताम् ।
योऽत्र जंतुः समागच्छेत्तं खादेस्त्वं वसन्निह २४।
ततः प्रभृति राजेंद्र तदाज्ञां पालयन्नहम् ।
पालितां त्रिदशैः सर्वैः कंदरेऽत्र वसाम्यहम् २५।
जडीभावे स्वदेहस्य त्वया कार्यो न विस्मयः ।
महती शांभवी माया वर्त्ततेऽत्र हिमाचले २६।
अन्यस्मिन्निव सिंहे त्वं प्रहर्तुं न मयि क्षमः ।
यतो मत्पृष्ठमारुह्य वृषमारोहति प्रभुः २७।
निवर्त्तस्व निजं देहं रक्ष सर्वार्थसाधनम् ।
दैवेनासादिता वीर गौरियं भक्षणाय मे २८।
देवल उवाच-
इत्याकर्ण्य वचस्तस्य वीरसंबोधनान्वितम् ।
प्रत्युवाच दिलीपस्तं स जडीभूतविग्रहः २९।
राजोवाच-
सर्गस्थितिविसर्गाणां कारणं जगतः शिवम् ।
अंबिकां जगदंबां च नमामि मृगराज तौ ३०।
त्वं च तत्सेवकत्वेन मान्यो मम मृगाधिप ।
ब्रवीमि यदहं वाक्यं श्रुत्वा शाधि करोमि किम् ३१।
वसिष्ठो ब्रह्मणः पुत्रो गुरुर्नो विदितस्तव ।
तस्येयं नंदिनीनाम धेनुः सर्वार्थसाधिका ३२।
संतानोत्पत्तये तेन दत्ताराधयितुं मम ।
येयमाराधिता सम्यक्दिनानि कतिचिन्मया ३३।
लघुतर्णक मातेयं धृता ते गिरिकंदरे ।
शुंभुभृत्याद्बलात्त्वत्तोशक्तामोचयितुंमया ३४।
अहं तस्य मुनेरग्रे गच्छाम्येनामृते कथम् ।
कामधेनोस्तु दौहित्री जगत्सेव्या यशस्विनी ३५।
अनया सदृशी नान्या गौर्यया तोषयामि तम् ।
तस्माद्विमुच्य गामेनामग्र्यां कुरु निजाशनम् ३६।
ददामि देहमात्मीयमपकीर्तिमलीमसम् ।
एवं न धर्महानिः स्यादृषेस्तव तु भोजनम् ।
गवार्थे त्यजतः प्राणान्ममापि गतिरुत्तमा ३७।
देवल उवाच-
एवमाकर्ण्य सिंहेन कृते मौने विशांपते ।
तदग्रेऽवाङ्मुखो राजा न्यपतद्धर्मकोविदः ३८।
तस्य प्रतीक्षमाणस्य सिंहपातं सुदुःसहम् ।
पपातोपरि पुष्पाणां वृष्टिर्मुक्ता सुरेश्वरैः ३९।
पुत्रोत्तिष्ठेति वचनं श्रुत्वा राजा स उत्थितः ।
जननीमिव तां धेनुं ददर्श न मृगाधिपम् ४०।
तं विस्मितमुवाचेदं नंदिनी नृपसत्तमम् ।
नंदिन्युवाच-
मायया सिंहरूपिण्या त्वं मयासि परीक्षितः ४१।
मुनिप्रभावान्मां राजन्गृहीतुं न क्षमोंऽतकः ।
मनसापि कुतोऽन्येषां यद्ग्रहे शक्तिरंगिनाम् ४२।
स्वशरीरस्य दानेन त्वं मां रक्षितुमुद्यतः ।
अतस्तेऽहं प्रसन्नास्मि वृणीष्व वरमीप्सितम् ४३।
राजोवाच-
न गुप्तं देहिनामंतर्वर्तिवृत्तं भवादृशम् ।
अतो जननि जानासि वांच्छितं मम देहि तत् ४४।
मगधेशसुतायां मे वंशकर्तारमात्मजम् ।
प्रयच्छ किंचित्स्वच्छानां नासाध्यं हि भवादृशाम् ४५।
इत्युक्त्वांजलिमाधाय तत्पुरस्तस्थिवान्नृपः ।
तूष्णीं तदुत्तरापेक्षी तत्पुरोबद्धलोचनः ४६।
देवल उवाच-
निशम्येति वचस्तस्य भूपतेरिदमब्रवीत् ।
नंदिनी पितृदेवर्षिनरभूतार्थसाधिका ४७।
नन्दिन्युवाच-
पुत्र पत्रपुटे दुग्ध्वा पयो मम पिबेप्सितम् ।
आश्रमे गुरुणाज्ञप्तः पुनः पास्यसि शेषितम् ४८।
भविता वंशकर्ता ते सुतः शस्त्रास्त्रतत्ववित् ।
देवल उवाच-
इत्युक्तः सौरभेय्या तामुवाच विनयेन सः ४९।
दिलीप उवाच-
मातस्तवैव पास्यामि शेषं सर्वक्रियाविधेः ।
तृप्तोऽहं मातरासाद्य मिष्टं ते वचनामृतम् ५०।
नान्यदिच्छामि सारंगः कादंबिन्या यथा जलम् ।
तव शुश्रूषणान्मातरभवं सकलोद्भवः ५१।
समस्तजनपूज्याया विद्याया इव मूढधीः ।
तव मातामही दत्तः शापोऽप्यासीद्वरो मम ५२।
तमृते पुत्रलाभो मे कुतस्तव च दर्शनम् ।
वरायैव तथाप्यंब समाराध्या भवादृशः ।
न हि कश्चिद्विषाकांक्षी महादेवात्त्रिवर्गदात् ५३।
देवल उवाच-
श्रुत्वेति तद्वचः सा गौः प्रसन्ना साधुसाध्विति ।
आभाष्य हि महादर्पा ययौ तेन सहाश्रमम् ५४।
पूर्वेद्युरिव तत्रापि पूजिता राजभार्यया ।
प्रसन्ना सा बभौ धेनुः कार्यसिद्धिरिवांगभाक् ५५।
मुखं प्रसन्नमालक्ष्य मृगाक्षी सा क्षितीशितुः ।
अज्ञासीत्तं निजं कार्यं सिद्धं यत्नस्तु यत्कृते ५६।
अथ तौ दंपती धेन्वा विधिवद्विहितार्चया ।
तया सह गुरोरग्रे कृतकृत्यस्य जग्मतुः ५७।
निरीक्ष्य तौ मुनिवरः प्रसन्नमुखपंकजौ ।
अतींद्रियज्ञाननिधिः प्रोवाचेदं प्रहर्षयन् ५८।
वसिष्ठ उवाच-
राजञ्जानामि गौरेषा प्रसन्ना वामभूत्किल ।
अपूर्वा युवयोरद्य मुखकांतिर्हि लक्ष्यते ५९।
सुरभिः सुरशाखी च विश्रुतौ कामपूरिणौ ।
तदपत्यं समाराध्य सिद्धोऽथ स्यात्किमद्भुतम् ६०।
यो ददाति निखिलं मनोरथं कीर्तितेयमनघापि दूरतः ।
श्रद्धया निकट एव सेविता किं पुनः सुरतरंगिणीव सा ६१।
ज्ञानतो विदितमद्भुतं मया त्वत्कृतं यदनया परीक्षणम् ।
भूपते त्वमपि धर्ममात्मनो रक्षसि स्म च यथा च तत् ६२।
त्वय्यसौ मम मनोऽनुकूलतां भावमात्मनि विबुध्यते तथा ।
तुष्यति स्म कमला यथा हरेः पार्वतीव गिरिशस्य सज्जते ६३।
रात्रिरत्र सहाभार्ययानया धेनुपूजनपरेण नीयताम् ।
भूपभव्य भवता गमिष्यते श्वः समाप्तविधिना निजांपुरीम् ६४।
देवल उवाच-
वैश्यैवं धेनुमाराध्य सभार्यः प्राप्तवांछितः ।
प्रातर्युक्तरथः प्राप्य गुरोराज्ञामगाद्गृहम् ६५।
कतिचिद्वासरैस्तस्य दिलीपस्याभवद्रघुः ।
यस्य नाम्ना रघोर्वंशः पृथिव्यां विश्रुतोऽभवत् ६६।
यः पठिष्यति भूपस्य दिलीपस्य कथामिमाम् ।
धनं धान्यं सुतं वैश्य लप्स्यते स पुमानिह ६७।
शरभवरसुताप्तये स्वबुद्ध्या सममनया परितोषयाशु गौरीम् ।
त्वमपि कुलधुरं गुणान्वितं सा सुतमनघं खलु दास्यते च तुभ्यम् ६८।
शिवशर्मोवाच-
मुनिरिति चरितं दिलीपराज्ञो ललिततरं शरभाय पुण्यमुक्त्वा ।
अभिमतगतमात्मनः प्रपेदे विधिमुपदिश्य च पूज जनेंबिकायाः ६९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये त्र्यधिकद्विशततमोऽध्यायः २०३।