पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २०५
← अध्यायः २०४ | पद्मपुराणम् अध्यायः २०५ वेदव्यासः |
अध्यायः २०६ → |
शिवशर्मोवाच-
एकदाऽत्र महातीर्थे पंके मग्नां पयस्विनीम् ।
दृष्ट्वा स राक्षसश्रेष्ठस्तामुद्धर्तुं विवेश ह १।
गोरक्षणे महान्धर्मो रक्षतुः स्वर्गतिर्भवेत् ।
चिंतयन्निति मध्ये तु सगृहीतोंबुहस्तिना २।
नीतस्तु वारिणोऽधस्ताज्जलपूर्णोदरस्तदा ।
तत्याज जीवितं सद्यस्तेन पीडितविग्रहः ३।
दिव्यरूपं समास्थाय विमानमपि ढौकितम् ।
गणेन प्रहितेनाथ दैवैरिंद्रपुरोगमैः ४।
गच्छन्निति मया पृष्टः स निशाचरपुंगवः ।
मुक्तिदेऽत्र महातीर्थे मृत्युं प्राप्य सदुर्लभे ५।
कथं देवपदप्राप्तिर्जाता तव महामते ।
इत्युक्तो मामुवाचेदं वांछासीदत्र मेऽनघ ६।
तस्मिन्गते पुण्यजने स्वर्गं पुण्यवतां पदम् ।
एकाकिना मया विष्णुः सद्गतिः प्रापितस्तदा ७।
गच्छंस्तिष्ठन्स्वपन्जाग्रत्स्नानं कुर्वंश्च नित्यशः ।
तमेव पुंडरीकाक्षमहं दध्यावनन्यधीः ८।
हरे तव पदांभोजमहं शरणमागतः ।
ब्रह्मत्वे च महेशत्वे नेंद्रत्वे मम मानसम् ९।
प्रार्थयन्नित्यहं तात तमेव पुरुषोत्तमम् ।
उषितोऽत्र महातीर्थे कृत्वा निर्विषयं मनः १०।
विष्णुशर्मोवाच-
वसतोऽत्र महातीर्थे मरणं चेत्तवाभवत् ।
कथं जन्म पुनः प्राप्तं त्वयेति मम संशयः ११।
मर्यादां यस्य तीर्थस्य त्यक्त्वापि धनलोभतः ।
राक्षसान्मरणं प्राप्ताः पथिकस्ते च वाहकाः १२।
यस्य तीर्थवरस्यास्य जलपानाद्दिवंगताः ।
तथैव राक्षसोऽप्यस्मिन्नपमृत्युमवाप्य सः १३।
नक्रतः स्वेच्छया स्वर्गं जगाम तव पश्यतः ।
न नूनं तत्र मरणं जातं यज्जन्म दृश्यते १४।
नारद उवाच-
शिवे निशम्य पुत्रस्य शिवशर्मा शुभं वचः ।
उवाच पूर्ववृत्तांतं कारणं निजजन्मनः १५।
शिवशर्मोवाच-
विष्णुशर्मन्शृणुष्वेदं कारणं मम जन्मनः ।
कथयामि तवाग्रेऽहं श्रुत्वा निःसंशयो भव १६।
एकदा विष्णुपूजायां मयि ध्यानं समास्थिते ।
दुर्वासाः प्रकृतिक्रोधी ममाश्रममुपागतः १७।
तमागतमविज्ञाय विष्णुध्यानपरायणः ।
तस्थिवांस्तदवस्थोऽहं चिरं तं नामसंस्मरन् १८।
समुहूर्तं मुनिः स्थित्वा ममाग्रे क्रोधमूर्छितः ।
आत्मनात्मानमाहेदमुच्चैरारक्तलोचनः १९।
दुर्वासा उवाच-
अहो अत्रेरहं पुत्रोऽनसूयागर्भसंभवः ।
शिवांशो मानुषेणालमवज्ञातोऽमुना भवम् २०।
त्रिलोकीराज्यतः शक्रो मया येन प्रपातितः ।
तं मामपि मनुष्योऽयमवजानाति दुर्मतिः २१।
यो बिभेति न कः सोसि मत्तः कालानलादिव ।
मुक्त्वा देवत्रयीं लोके यतः सार्हत्तमा मम २२।
यामसौ ध्यायते मूढो देवतां ध्यानमास्थितः ।
न कथं बोधयत्येनं सेति मूर्त्तिस्थितो यमः २३।
नूनं नारायणं देवं ध्यायत्येष जगद्गुरुम् ।
यद्ध्यानामृततृप्तो हि न बाह्यज्ञानवानयम् २४।
हरिं वा ब्रह्म वा शंभुमन्यं वा ध्यायतामहम् ।
मयायं सर्वथा दंड्यो मदवज्ञाकरो ह्ययम् २५।
शिवशर्मोवाच-
एवं विचिंतयित्वा स सुमतिं मामबोधयत् ।
शशाप च विबुद्धं मामितिक्रोधारुणेक्षणः २६।
मामवज्ञाय यश्चित्ते ध्यानकाले मनोरथः ।
कुतस्तेन भवेह्यस्मिन्भविष्यति हि सर्वथा २७।
इत्युक्त्वा स यदा तात चलितो मुनिरत्रिजः ।
तदा मया चरणयोर्गृहीतोभयभीरुणा २८।
इत्युक्तश्च मुनिश्रेष्ठ क्षम्यतां रुड्विमुच्यताम् ।
मादृशा न विजानंति सम्यक्कर्म भवादृशाम् २९।
शापं त्वं दत्तवान्घोरं सांप्रतं मे निरेनसः ।
प्रसीद मम नम्रस्य शापांते कुर्वनुग्रहम् ३०।
इत्युक्तः कोपमुत्सृज्य दुर्वासा शीतलोभवत् ।
किमेतन्नोचितं तात स यतश्चंद्रशेखरः ३१।
उवाचेति समां धीमांस्तं भूत्वा ब्राह्मणोत्तमः ।
अत्रैव मरणं प्राप्य न भूयो जन्म लप्स्यसे ३२।
इति मामनुगृह्याथ स जगाम दिगंबरः ।
उषित्वा तद्दिनं तात मया सत्कारपूजितः ३३।
न मुनेर्भाषितं मिथ्या चिंतयित्वाहमित्यपि ३४।
जगाम स्वगृहं चित्ते पश्चात्तापं वहन्निति ।
अहो मे ध्यायतो नित्यं स तीर्थाश्रमिणस्तथा ३५।
दर्शनं दुर्लभं जातं श्रीपतेरिह जन्मनि ।
चातकस्येव मेघस्य शुचौ संतापकारिणि ३६।
कुतोऽयमागतो मह्यं वैकुंठगतिरोधकः ।
जनस्य प्रस्थितस्येव जलदो कालवारिमुक् ३७।
न दोषोऽस्ति मुनेर्नूनं तस्यैवेच्छाहरेः खलु ।
सुदर्शनं हि दत्त्वापि ममजन्मांतरं कृतम् ३८।
मया संसारभीतेन ग्राह्यं पादांबुजंहरेः ।
निदाघातपतप्तेन पथिकेनेव पादपः ३९।
किं धनापत्ययोषिद्भिरनित्यैश्चान्यबंधुभिः ।
गोविंदपरमानंद रामेति ममजल्पतः ४०।
उदासीनवदासीनः कुंटुबेषु हरिं भजन् ।
प्रारब्धमेव भोक्ष्यामि कर्माण्यन्यान्यतर्जयन् ४१।
चिंतयन्नित्यहं तात कियद्भिर्वासरैरहम् ।
प्राप्तवान्स्वगृहं स्नात्वा हरिपादोदकांतरे ४२।
पितुर्मरणमाख्यातं मात्रे बंधुभ्य एव च ।
श्रुत्वा तेऽपि शुचं चक्रुर्नाविंदन्निममस्थिरम् ४३।
सत्यलोकादि लोकेषु निस्पृहोऽहं गृहे वसन् ।
मरणं प्राप्तवान्कूले गंगाया मुनिसेविते ४४।
मुनेर्दुर्वाससः शापाज्जातोऽहं वैष्णवे कुले ।
मरणं चात्र सत्तीर्थे लब्ध्वा प्राप्स्ये हरेः पदम् ४५।
नारद उवाच-
एवं सुराचार्यविनिर्मिते तदा तीर्थे महाभाग पुराकृतानि तौ ।
द्विजोत्तमौ प्रोच्य मिथः सुतस्थतुर्विचिंतयंतौ हरिपादपल्लवम् ४६।
विचिंतयंतौ हरिमब्जलोचनं चतुर्भुजं नीरदनीलविग्रहम् ।
निजायुधालंकरणावभासितं स्मृत्वात्र सारूप्यमवापतुर्हरेः ४७।
यस्य क्षेत्रमिमं पुण्यमिंद्रप्रस्थाख्यमुत्तमम् ।
तस्योपाख्यानमाख्यातं फलमस्य शिवे शृणु ४८।
गंगास्नानेन यत्पुण्यं कन्यादानोद्भवं च यत् ।
श्रवणादस्य तत्पुण्यं श्रद्धया लभते नरः ४९।
पुत्रे जाते तु गोदानात्सिंहगे च बृहस्पतौ ।
गोदावरीजले स्नानाद्यत्फलं भुवि जायते ५०।
तत्फलं श्रवणादस्य जायते नात्र संशयः ।
अतस्तीर्थोत्तमादन्यत्तीर्थं नास्त्यखिलार्थदम् ।
यस्मिन्मरणतो नूनं तिर्यंचोऽपि चतुर्भुजाः ५१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये निगमबोधोपाख्यानं नाम पंचाधिकद्विशततमोऽध्यायः २०५।