पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २०६
← अध्यायः २०५ | पद्मपुराणम् अध्यायः २०६ वेदव्यासः |
अध्यायः २०७ → |
सौभरिरुवाच-
धर्मराजशिबिः श्रीमानाकर्ण्य तद्वचो मुनेः ।
नारदस्याब्रवीत्प्रीतमना इति तमुत्तमम् १।
शिबिरुवाच-
मुने तीर्थवरस्यास्य निगमोद्बोध कस्य ते ।
माहात्म्यं वर्णितं सम्यक्श्रुतं पापहरं मया २।
इंद्रप्रस्थेत्र शतशः संति तीर्थानि वै मुने ।
अन्यस्यापि समाचक्ष्व माहात्म्यं यदि विद्यते ३।
नारद उवाच-
इंद्रप्रस्थांतरावर्तिन्येषा या द्वारका नृप ।
अस्यां पुरा हि यद्वृत्तं तत्ते वच्मि शृणुष्व मे ४।
काम्पिल्येऽथ द्विजः कश्चित् पुष्पेषुर्मूर्तिमानिव ।
सर्वासां योषितां चित्तहारी स्यादग्रविभ्रमैः ५।
संगीतविद्याकुशलः कोकिलामधुरध्वनिः ।
एकदा स करे वीणां धारयन्वादयन्मुहुः ६।
कंठेन कोकिलालाप मधुरेण नराधिप ।
गायन्बभ्राम नगरे प्रतिरथ्यं महामतिः ७।
तस्य गीतिध्वनिं श्रुत्वा मूर्छनातानसंयुतम् ।
त्वक्त्वा स्वगृहकार्याणि तमीयुः पौरयोषितः ८।
मोहितास्तस्य रूपेण कामवेगं न सेहिरे ।
जाता स्खलितवीर्यास्ता गीतं श्रुत्वा समक्षतः ९।
ब्रह्मणो मानसं येन लोभितं भारतीं प्रति ।
शिवस्यार्द्धशरीरं च पार्वत्यै येन दापितम् १०।
ताभ्यामन्यो जनो लोके वशी वा ज्ञानवानपि ।
यः स्मरं तं क्षमो जेतुं स्त्रियः प्रकृतिचंचलाः ११।
ताः स्मरावेशमासोढुं न साध्योपि विषेहिरे ।
वक्तव्यमिति किं राजन्लोके कामो हि दुर्जयः १२।
अथ तास्तत्र तत्रेयुर्यत्र यत्र व्रजत्यसौ ।
प्रगायन्कंठवीणाभ्यां प्रगायन्स्वरमोहितः १३।
तासां पतिसुतभ्रातृपितरोऽथ नराधिप ।
आगत्य भर्त्सयित्वा ता निन्युः स्वान्स्वान्गृहान्प्रति १४।
तमन्विष्य पुनस्तास्तु जग्मुः सर्वास्तदंतिके ।
यदा तदा पौरजना वृत्तं तत्प्राहुरीश्वरे १५।
राजापि तं समाहूय पप्रच्छ रहसि द्विजम् ।
केन मंत्रेण भो विप्र मोहितास्ताः पुरस्त्रियः १६।
तन्ममाचक्ष्व विप्रेंद्र दास्यामि बहु ते धनम् ।
नोचेन्निष्कासयामि त्वां निजराज्यान्न संशयः १७।
नारद उवाच-
श्रुत्वेति नृपतेर्वाक्यं नृपतिं स द्विजोत्तमः ।
उवाच सत्यं तस्याग्रे वचोरूपगुणार्णवः १८।
द्विज उवाच-
न मंत्रं नौषधं राजन्विद्यते मयि भिक्षुके ।
किंतु ते नगरे सर्वा योषितो ह्यजितेंद्रियाः १९।
रूपं मम समालोक्य श्रुत्वा गीतध्वनिं तथा ।
स्मरवेगं सहंते न राजंस्तव पुरे स्त्रियः २०।
किं करोमि महाराज कोऽपराधोस्ति मे विभो ।
पुराकृतमिवोल्लंघ्यं शासनं न महीपते २१।
नारद उवाच-
उशीनरशीबे राजन्नेवं कथयति द्विजे ।
सर्वे पौराः समेत्याथ प्रावदन्निति भूपतिम् २२।
पौरा ऊचुः -
राजन्ननेन विप्रेण मोहिताः पौरयोषितः ।
गृहेषु न हि तिष्ठंति ह्यस्माभिरनिवारिताः २३।
यद्ययं मोहनः स्त्रीणां नगरे वत्स्यति प्रभो ।
तदा देशांतराण्येव यास्यामो वयमद्य वै ।
गतोऽस्माकं वृषो देवो हव्यकव्यक्रियात्मकः २४।
तमनुप्रस्थितात्क्षेत्राद्गौरियं पापिनामिव ।
विना तं शरणं यातं त्यक्तश्रीभिर्नरेश्वर २५।
अथैनमनुयास्यंति वासिताभिर्वृषं यथा ।
शून्यालये कथं लक्ष्मीर्यत्नतोप्यवतिष्ठति २६।
धर्मोऽर्थश्च गृहं चैतत् त्रयं स्त्रीवशगं यतः ।
कांताधर्म धनाधीना तयोर्नाशे न तिष्ठति २७।
नारद उवाच-
एवं वदत्सु पौरेषु स्त्रियस्तेषां समागताः ।
राजांतिक उपाविष्टा इत्यूचुस्ताः परस्परम् २८।
पौरस्त्रिय ऊचुः ।
कामं वामाकृतिं विप्रमेनं प्राप्यमनांसि नः ।
उल्लसंति दिवाधीशं कमलानीव वारिणि २९।
संकुचंति विना तेन कुमुदानि यथेंदुना ।
आगच्छंतमिलित्वैनंधारयामोनृपाग्रतः ३०।
अवध्योऽयं वयं चास्य किं करिष्यति भूपतिः ।
नारद उवाच-
इत्युक्त्वा तास्त्वरावत्यो जगृहुस्तं द्विजोत्तमम् ३१।
पश्यतां निजभर्तॄणां राज्ञश्चैव पुरस्तदा ।
ऊचुश्चैनं मनोनाथ गृहानागच्छ हृच्छयम् ३२।
शमयाशु विनाद्यत्वां स्थातुं नैव च शक्नुमः ।
इत्याकर्ण्य वचस्तासां स विप्रः प्रत्युवाच ह ३३।
विप्र उवाच-
भवतीनामहं पुत्रो भवत्यो मातरो मम ।
गृहान्किमर्थमुत्सृज्य भवत्यः पर्यटंति हि ३४।
आराधयत नाथान्स्वान्यतो लोकद्वयं ध्रुवम् ।
आराधितेषु पतिषु विष्णुः सर्वसुरेश्वरः ३५।
प्रसन्नो भवति त्वत्र प्रसन्ने किमु दुर्लभम् ।
या स्त्री स्वपतिमुत्सृज्य सेवतेऽन्यसुखेच्छया ३६।
सापवादमवाप्नोति याति घोरां च दुर्गतिम् ।
उषित्वा तत्र कल्पांते यावत्सा पतिवंचना ३७।
पुनस्तस्माद्विनिर्गत्य स्थावरत्वं प्रपद्यते ।
तस्मादपि पशुत्वं सा लभते बहुजन्मसु ३८।
ततो मुक्ता मनुष्यत्वे व्यंगा भवति तत्र सा ।
एवं पापगतिं ज्ञात्वा निवर्तध्वमतो जनात् ३९।
नो वा यास्यथ देहांते नरकं भृशदारुणम् ।
यदिच्छंति भवंत्यो मे सुखं तन्नेह लप्स्यथ ।
पापमेव हि युष्माकं यतोधःपतनं नृणाम् ४०।
नारद उवाच-
श्रुत्वैवं वचनं तस्य दृष्ट्वा भर्तृसुखानि च ।
लज्जयानम्र मुख्यस्ता लतावातहता इव ४१।
तासां तु पुरनारीणां स्मराग्निर्भृशदारुणः ।
शशाम तस्य शीतेन बटोर्वचनवारिणा ४२।
उत्थाय चेलुः सर्वास्ता विनिंदंत्य इति स्मरम् ।
ब्रह्मशक्रादिदेवानामपि मोहकरं नृप ४३।
स्त्रिय ऊचुः ।
धिगिमं पापकर्माणं शीलदारुकुठारकम् ।
कामवामदृशां प्रीत्यै धन्यो येन हतः स्मरः ४४।
किं वदेम जगत्पूज्यां रुक्मिणीं जठरे यया ।
धृतः प्रद्युम्ननाम्नाऽसौ राहुः स्त्रीशीलचंद्रभुक् ४५।
स देवाधम आयाति यदि नो दृष्टगोचरम् ।
भूयो ध्यानकृतेशान दृगग्नौ तं क्षिपामहे ४६।
येनायं जनितः पापो ह्यात्मारामेण विष्णुना ।
कृतः षोडशसाहस्रस्त्रीप्रियः का हि नः कथा ४७।
एवं विनिंद्य तं कामं तुष्टुवुस्तं द्विजोत्तमम् ।
शीलं स्वस्य च तासां च रक्षितं येन भूपते ४८।
धन्या सामुष्य जननी ययायं ब्राह्मणोत्तमः ।
स्मरजिन्निर्मितो लोके परधर्मस्य रक्षकः ४९।
धिगस्तु नो राजलोकैर्हसिताः स्मरनिर्जिताः ।
याभिर्वाक्यमनोभ्यां च जनितं पापमुल्बणम् ५०।
नारद उवाच-
एवं विचिंतयंत्यस्ता एक्यमत्ययुताः स्त्रियः ।
जग्मुः स्वंस्वं गृहं सर्वा द्विजवाक्येन बोधिताः ५१।
अथ राजापि कांपिल्यस्तं द्विजं वस्त्रभूषणैः ।
संपूज्य प्रेषयामास सद्गृहे संयतेंद्रियम् ५२।
अथागच्छति काले तु कारूषाधिपतिर्बली ।
कांपिल्याधिपतिं सैन्यैर्नगरं रुरुधे तदा ५३।
तयोर्युद्धमभूद्घोरं तेन युद्धे स घातितः ।
नगरं लुठितं सर्वं हताः शूराश्च सर्वशः ५४।
ता स्त्रियः कालकूटं तु खादित्वा मरणं गताः ।
प्रायश्चित्तं तु न कृतं ताभिः पापस्य तस्य तु ५५।
येन पापेन ताः सर्वा भीषणाख्यस्य रक्षसः ।
राक्षस्यो नगरे जाता महाकाया भयानकाः ५६।
तत्र ता निहिताः सर्वाः पुरनार्यो हनूमता ।
यज्ञांश्च रसतो जिष्णोस्तिष्ठतां रथकेतने ५७।
पुनस्ता एव राक्षस्यो बभूवुर्मारवेध्वनि ।
क्षुधार्ताश्च तृषार्ताश्च दर्शनेन भयप्रदाः ५८।
एवं तेन तु पापेन वाङ्मनोविहितेन तु ।
ताभिर्जन्मद्वयं प्राप्तं राक्षसीयोनिमिश्रितम् ५९।
पापेन नाशितं तासां स नृपं नगरद्वयम् ।
अतएव न कर्त्तव्यं परकांतनिषेवणम् ६०।
नारीभिः पापभीताभिर्वाङ्मनोभ्यामपि प्रभो ।
रोगी जडो दरिद्रो वा नेत्राभ्यां वर्जितोऽपि वा ।
न त्याज्यः स्वपतिः स्त्रीभिः इच्छंतीभिस्तु सद्गतिम् ६१।
कथितमिदं मया मनोवचोभ्यां जनितमघं च यदन्यकांतभक्त्या ।
फलमपि च यदेव लब्धमाभिस्तदपि शिबे बहुविस्तरेण तुभ्यम् ६२।
इंद्रप्रस्थगता न ये ममनघा या द्वारका दृश्यते तास्तस्या जलबिंदुदेहपतनात्पौरस्त्रियो रेभिरे ।
स्वर्गं चित्तवचोऽन्यकांत भजनाज्जातं विमुच्वोल्बणं क्रव्यादत्वमवाप्य देववनिताभावं सुराह्लाददम् ६३।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये द्वारकावर्णंनंनाम षष्ठाधिकद्विशततमोऽध्यायः २०६।