पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४३
← अध्यायः ०४२ | पद्मपुराणम् अध्यायः ०४३ वेदव्यासः |
अध्यायः ०४४ → |
युधिष्ठिर उवाच-
साधु कृष्ण त्वया प्रोक्तमादिदेवो भवान्प्रभो ।
स्वेदजा अंडजाश्चैव उद्भिज्जाश्च जरायुजाः १।
तेषां कर्त्ता विकर्त्ता त्वं पालकः क्षयकारकः ।
माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया २।
शुक्ले च का भवेद्देव कथयस्व प्रसादतः ।
किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते ३।
श्रीकृष्ण उवाच-
कथयिष्यामि राजेंद्र शुक्ले माघस्य या भवेत् ।
जया नामेति विख्याता सर्वपापहरा परा ४।
पवित्रा पापहंत्री च कामदा मोक्षदा नृणाम् ।
ब्रह्महत्यापहंत्री च पिशाचत्वविनाशिनी ५।
नैव तस्या व्रते चीर्णे प्रेतत्वं जायते नृणाम् ।
नातः परतरा काचित्पापघ्नी मोक्षदायिनी ६।
एतस्मात्कारणाद्राजन्कर्त्तव्या सा प्रयत्नतः ।
श्रूयतां राजशार्दूल कथा पौराणिकी शुभा ७।
पंकजे च पुराणेऽस्या महिमा कथितो मया ।
एकदा नाकलोके वै इंद्रो राज्यं चकार ह ८।
देवास्तत्र सुखेनैव निवसंति मनोरमे ।
पीयूषपाननिरता अप्सरोगणसेविताः ९।
नंदनं तु वनं तत्र पारिजातोपसेवितम् ।
रमयंति रमंतेऽत्र अप्सरोभिर्दिवौकसः १०।
एकदा रममाणोऽसौ देवेंद्रः स्वेच्छया नृप ।
नर्त्तयामास वै हर्षात्पंचाशत्कोटिनायकः ११।
गंधर्वास्तत्र गायंति गंधर्वः पुष्पदंतकः ।
चित्रसेनस्तु तत्रैव चित्रसेनसुता तथा १२।
मालिनीति च नाम्ना तु चित्रसेनस्य योषिता ।
मालिन्यास्तु समुत्पन्ना पुष्पदंती च नामतः १३।
पुष्पदंतस्य पुत्रोऽसौ माल्यवान्नाम नामतः ।
पुष्पदंत्याश्च रूपेण माल्यवानतिमोहितः १४।
तया ह्येवं कटाक्षैश्च माल्यवांश्च वशीकृतः ।
लावण्यं रूपसंपन्नं तस्या रूपं निशामय १५।
बाहू तस्याश्च कामेन कंठपाशौ कृताविव ।
कर्णायते तु नयने रक्तांते घूर्णिते तथा १६।
कर्णौ तु शोभनौ तस्याः कुण्डलाभ्यां नृपोत्तम ।
कंबुग्रीवायुता सैव दिव्याभरणभूषिता १७।
पीनोन्नतौ कुचौ तस्यास्तौ हेमकलशाविव ।
मध्यं क्षामं च चार्वंग्या मुष्टिग्राह्यमनुत्तमम् १८।
नितंबौ विस्तृतौ चास्या विस्तीर्णा जघनस्थली ।
चरणौ शोभमानौ च रक्तोत्पलसमद्युती १९।
ईदृश्या पुष्पवत्या स माल्यवानतिमोहितः ।
शक्रस्य परितोषाय नृत्यार्थं तौ समागतौ २०।
गायमानौ तु तौ तत्र अप्सरोगणसेवितौ ।
मदनाभिपरीतांगौ पुष्पदंती च माल्यवान् २१।
परस्परानुरागेण व्यामोहवशमागतौ ।
न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ २२।
बद्धदृष्टी तथान्योन्यं कामबाणवशं गतौ ।
ज्ञात्वा लेखर्षभस्तत्र संगतं मानसं तयोः २३।
तालक्रियामानलोपात्तथा गीतविसर्जनात् ।
चिंतयित्वा तु मघवा ह्यवमानं तथात्मनः २४।
कुपितश्च तयोरर्थे शापं दास्यन्निदं जगौ ।
धिग्धिग्वां पतितौ मूढावाज्ञाभंग कृतौ मम २५।
युवां पिशाचौ भवतां दंपतीभावधारिणौ ।
मर्त्यलोकमनुप्राप्तौ भुंजानौ कर्मणः फलम् २६।
एवं मघवता शप्तावुभौ दुःखितमानसौ ।
हिमवंतं गिरिं प्राप्ताविंद्रशापाद्विमोहितौ २७।
उभौ पिशाचतां प्राप्तौ दारुणं दुःखमेव च ।
संतप्तमानसौ तत्र हिमकृच्छ्रगतावुभौ २८।
गंधर्वत्वमप्सरस्त्वं न जानीतो विमौहितौ ।
पीड्यमानौ निदाघेन देहपातकजेन च २९।
न निशायां सुखं शांतिं लभेते कर्मपीडितौ ।
परस्परं वादमानौ चेरतुर्गिरिगह्वरे ३०।
पीड्यमानौ तु शीतेन तुषारप्रभवेन तौ ।
दंतघर्षं प्रकुर्वाणौ रोमांचितवपुर्द्धरौ ३१।
ऊचे पिशाचः स तदा तां पत्नीं स्वां पिशाचिकाम् ।
किमनल्पकृतं पापं दारुणं रोमहर्षणम् ३२।
येन प्राप्तं पिशाचत्वं स्वेन दुष्कृतकर्मणा ।
नरकं दारुणं मत्वा पिशाचत्वं च दुःखदम् ३३।
तस्मात्सर्वप्रयत्नेन पातकं न समाचरेत् ।
इति चिंतापरौ तत्र तावास्तां दुःखकर्षितौ ३४।
दैवयोगात्तयोः प्राप्ता माघस्यैकादशी तिथिः ।
जयानामेति विख्याता तिथीनामुत्तमा तिथिः ३५।
तस्मिन्दिने तु संप्राप्ते तावाहारविवर्जितौ ।
आसाते तत्र नृपते जलपानविवर्जितौ ३६।
न कृतो जीवघातश्च न पत्रफलभक्षणम् ।
अश्वत्थस्य समीपे तौ सर्वदा दुःखसंयुतौ ३७।
रविरस्तंगतो राजंस्तथैव स्थितयोस्तयोः ।
प्राप्ता चैव निशा घोरा दारुणा प्राणहारिणी ३८।
वेपमानौ ततस्तौ तु ततः सुषुपतः क्षितौ ।
परस्परेण संलग्नौ गात्रयोर्भुजयोरपि ३९।
न निद्रा न रतं तत्र न तौ सौख्यमविंदताम् ।
एवं तौ राजशार्दूल शापेनेंद्रस्य पीडितौ ४०।
इत्थं तयोर्दुःखितयोर्निर्जगाम निशीथिनी ।
मार्तंड उदयं प्राप्तो द्वादशी दिवसागमे ४१।
मया तु राजशार्दूल तयोर्मुक्तिर्धृता हृदि ।
जयायाः सुव्रतं चीर्णं रात्रौ जागरणं कृतम् ४२।
तस्माद्व्रतप्रभावाच्च यथाजातं तथा शृणु ।
द्वादशीदिवसे प्राप्ते तथा चीर्णे जया व्रते ४३।
विष्णोः प्रभावान्नृपते पिशाचत्वं तयोर्गतम् ।
पुष्पदंती माल्यवतौ पूर्वरूपौ बभूवतुः ४४।
पुरातनस्नेहयुतौ पूर्वालंकारधारिणौ ।
विमानमधिरूढौ तौ गतौ नाके मनोरमे ४५।
देवेंद्रस्याग्रतो गत्वा प्रणामं चक्रतुर्मुदा ।
तथाविधौ तु तौ दृष्ट्वा मघवा विस्मितोऽब्रवीत् ४६।
इंद्र उवाच-
वद तं केन पुण्येन पिशाचत्वं हि वां गतौ ।
मम शापं च संप्राप्तौ केन देवेन मोचितौ ४७।
माल्यवानुवाच-
वासुदेवप्रसादेन जयायास्तु व्रतेन च ।
पिशाचत्वं गतं स्वामिंस्तव भक्तिप्रभावतः ४८।
इति श्रुत्वा तु मघवा प्रत्युवाच पुनस्तथा ।
पवित्रौ पावनौ जातौ वंदनीयौ ममापि च ४९।
हरिवासरकर्तारौ विष्णुभक्तिपरायणौ ।
हरिवासरसँल्लीना ये च कृष्णपरायणाः 6.43.५०।
अस्माकमपि मर्त्यास्ते पूज्याश्चैव न संशयः ।
विहरस्व यथासौख्यं पुष्पदंत्या सुरालये ५१।
कृष्ण उवाच-
एतस्मात्कारणाद्राजन्कर्त्तव्यो हरिवासरः ।
जया तु राजशार्दूल ब्रह्महत्यापहारिणी ५२।
सर्वदानानि तेनैव सर्वयज्ञा अशेषतः ।
दत्तानि कारिताश्चैव जयायास्तु व्रतं कृतम् ५३।
कल्पकोटिर्भवेत्तावद्वैकुंठे मोदते ध्रुवम् ।
पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत् ५४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे माघशुक्लजयैकादशीमाहात्म्यंनाम त्रिचत्वारिंशोऽध्यायः ४३।