पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६७ पद्मपुराणम्
अध्यायः १६८
वेदव्यासः
अध्यायः १६९ →

महादेव उवाच
ततोगच्छेन्महादेवि वार्त्रघ्न्या गिरिकन्यया
शक्रश्चैव तया साध्व्या संगमं यत्र लब्धवान् १
तत्र स्नानं प्रकुर्वंति नरा नियतमानसाः
दशानामश्वमेधानां यत्फलं स्नानकृल्लभेत् २
तत्र यः कुरुते श्राद्धं पिंडान्वै तिलचूर्णजान्
पुनाति पुरुषो वंशान्सप्तसप्तपरावरान् ३
संपूज्य विधिवत्स्नात्वा संगमे गणनायकम्
न विघ्नैरभिभूयेत लक्ष्म्या नैव विहीयते ४
पार्वत्युवाच
कस्मिन्कार्यसमारंभे समायातः पुरंदरः
स्वर्गलोकादिमं लोकमेतदाख्यातुमर्हसि ५
वार्त्रघ्नी च नदी केन निरुक्तेन निगद्यते
पुरंदरपुरं देव ब्रह्मघोषनिनादितम्
संभावयति योऽजस्रं मम तत्संगमं वद ६
महादेव उवाच
अस्मिंश्चैव तु भूर्लोके प्रश्नोऽयं समभूत्पुरा
युधिष्ठिरेति विख्यातो राजा वै धार्मिको महान् ७
पृष्टवान्स तु भीष्माय धर्मिणे ज्ञानरूपिणे
तेनोक्तं यत्तु तद्देवि प्रवक्ष्यामि तवाग्रतः ८
दशवर्षसहस्राणि दशवर्षशतानि च
वृत्रवासवयोर्युद्धमभवल्लोमहर्षणम् ९
ततः पराजितः शक्रः कृत्वा वृत्रेण संविधम्
अद्रोहे स रणं त्यक्त्वा जगाम शरणं मम १०
वार्त्रघ्न्या संगमे पुण्ये तोषयामास शंकरम्
अथांतरिक्षेऽहं देवि दर्शनं दत्तवांस्तदा ११
ममगात्रात्तु यद्भस्म पतितं काश्यपी तटे
भस्मगात्रेति तत्पुण्यं लिंगं देवि विनिर्मितम् १२
भूतेश्वरं भस्मगात्रं ब्रह्मणा संप्रतिष्ठितम्
तस्य वै दर्शनादेव ब्रह्महत्या लयं व्रजेत् १३
मुच्यते सर्वपापेभ्यः श्राद्धं कृत्वा युगादिषु
तदहं सुप्रसन्नोऽभूदिन्द्राय सुमहात्मने १४
यद्यत्त्वं वांछसे देव तत्सर्वं हि ददामि ते
अनेन वज्रयोगेन शीघ्रं वृत्रं हनिष्यसि १५
शक्र उवाच
भगवंस्त्वत्प्रसादेन दितिजं च दुरासदम्
वज्रेण निहनिष्यामि पश्यतस्ते सुरोत्तम १६
एवमुक्त्वा तदा इंद्रो गतवांश्चासुरं प्रति
तदा दुंदुभयो नेदुर्देवसैन्ये विशेषतः १७
मृदंग डिंडिमाश्चैव भेरी तूर्याण्यनेकशः
असुराणां च सर्वेषां वृत्तिलोभो महानभूत १८
बलवान्मघवा चैव क्षणेन समजायत्
तमाविष्टं ततो ज्ञात्वा ऋषयः पन्नगास्तथा १९
स्तुवंति शक्रमीशानं स्तुत्या जयजयेति च
गच्छतस्तस्य शक्रस्य युद्धकामस्य सन्निधौ
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्भरम् २०
महादेव उवाच
वृत्रस्यसहसा देवि तदा संग्राममूर्द्धनि
अभवन्यानि लिंगानि शरीरे तानि मे शृणु २१
ज्वलतास्योभवद्धोरो वैवर्ण्यमभवत्परम्
गात्रकंपश्च सुमहान्श्वासः सोष्मा व्यजायत् २२
रोमहर्षश्च तीव्रोऽभूच्छ्वासश्चैव महानभूत्
निष्पपात महाघोरा उल्काः पार्श्वं प्रपेदिरे २३
गृध्रा वटाः श्येन कंका वचो मुंचन्सुदारुणाः
वृत्रस्योपरि ते सर्वे चक्रवत्परिबभ्रमुः २४
ततः स गजमास्थाय इंद्रस्तत्र समागतः
वज्रोद्यतकरस्तत्र शक्रस्तं दैत्यमासदत् २५
अमानुषमथो नादं स मुमोच सुरेश्वरः
वृत्रासुरस्य यततः शक्रो वज्रमपातयत् २६
स वज्रः सुमहातेजाः कालाग्निसदृशो महान्
समुद्रस्य तटे वृत्रं शक्रो दैत्यमपातयत् २७
ततो नादः समभवत्पुनरेव समंततः
वृत्रं विनिहतं दृष्ट्वा सर्वदेवभयंकरम् २८
पुष्पवृष्टिस्तु महती इंद्र मूर्ध्नि पपात ह
वृत्रं हत्वा स भगवान्दानवेशं भयंकरम् २९
स्तूयमानोऽमरैः सार्द्धं देवदानीं तमाविशत्
अथ वृत्रशरीरात्तु निर्गतं तेज उत्तमम् ३०
ब्रह्महत्यामहाघोरा रौद्र लोकभयंकरी
करालवदना सा च विकृता कृष्णपिंगला ३१
कपालमालिनी चैव सुकृशा नगनंदिनि
रुधिराक्ता च पापिष्ठा मीनगंधातिभीषणा ३२
सानिष्क्रम्य महादेवि तादृग्रूपा भयावहा
इंद्रमन्वेषयामास तदा वै सुरसत्तमे ३३
निर्धावती ततः सा तु दृष्ट्वा शक्रं महौजसम्
कंठे जग्राह देवेंद्रं सुलग्ना साभवत्तदा ३४
स च तस्मिन्समुद्भ्रांतो ब्रह्महत्याकृते भये
निलिल्य बिसमध्येऽसौ स्थितो वर्षगणान्बहून् ३५
तया गृहीतो भो देवि निश्चेष्टः समपद्यत
तस्या व्यपोहने शक्रः प्रयत्नं च चकार ह ३६
न शक्तोऽभून्महादेवि ब्रह्महत्यां व्यपोहितुम्
तया गृहीतमात्रस्तु देवेंद्रो निष्ठरूपधृक् ३७
पितामहमुपागम्य शिरसा प्रत्यपूजयत्
ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया ३८
ब्रह्मा संचिंतयामास तदा वै सुरसत्तमे
सा चिंत्यमाना ब्रह्माणमुपगम्याब्रवीद्वचः ३९
प्राप्तास्मि भगवन्देव त्वत्सकाशं हि मानद
यत्कर्त्तव्यं मया देव तद्भवान्वक्तुमर्हति ४०
तामुवाच महाभागे ब्रह्महत्यां पितामहः
स्वरेण मधुरेणाथ संक्षेपेण यथातथम् ४१
मुच्यतां देवराजोऽयं मत्प्रियं कुरु भामिनि
ब्रूहि किं ते करोम्यद्य कामं त्वं किमिहेच्छसि ४२
हत्योवाच
शक्रादपगमिष्यामि वचनात्ते नरोत्तम
देवदेव नमस्तेस्तु निवासं च ददस्व मे ४३
महादेव उवाच
तथेति तां प्रतिज्ञाय हत्यां चापि पितामहः
उपायमथ शक्रस्य ब्रह्महत्यापनोदने ४४
ततो वह्निं समाहूय ब्रह्मा वचनमब्रवीत्
शक्रहत्या चतुर्थांशं जातवेदो गृहाण भो ४५
अग्निरुवाच
मम मोक्षस्य को हेतुर्ब्रह्महत्याकृते प्रभो
एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित ४६
ब्रह्मोवाच
यस्त्वां ज्वलंतमासाद्य न होष्यति नरः क्वचित्
बीजौषधितिलानग्रे फलमूलसमित्कुशान् ४७
तदैव त्यक्षति त्वां च तत्रैव च निवत्स्यति
ब्रह्महत्या हव्यवाह व्येतु ते मनसो ज्वरः ४८
ततः स परिजग्राह तद्वचो हव्यकव्यभुक्
पितामहश्च भगवान्तथा तदलभत्प्रियम् ४९
ततो वृक्षौषधितृणान्याहूय स पितामहः
इममर्थं महाभागे वक्तुं समुपचक्रमे 6.168.५०
ततो वृक्षौषधितृणैस्तथैवोक्तं यथातथम्
व्यथितान्यग्निवद्देवि ब्रह्माणं वाक्यमब्रुवन् ५१
अस्माकं ब्रह्महत्यायाः कथयंतः पितामह
स्वभाव निहिता तस्मान्न पुनर्हंतुमर्हसि ५२
वयमग्निं तथा शीतं वर्षं च पवनेरितम्
सहामः सततं देव तथा छेदनभेदनम् ५३
ब्रह्मोवाच
अकारणं नरो यस्तु युष्मच्छेदनभेदनम्
करिष्यति महामोहात्तमेषानु प्रयास्यति ५४
महादेव उवाच
ततो महौषधितृणैरोमित्युक्तं महात्मभिः
ब्रह्माणमपि संपूज्य जग्मुश्चाथ यथागतम् ५५
आहूयाप्सरसो देवस्ततो लोकपितामहः
वाचा मधुरया प्राह सांत्वयन्निव सत्तमे ५६
इयं वृत्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः
चतुर्थमस्या भागं च मयोक्तं संप्रतीच्छथ ५७
अप्सरा ऊचुः
ग्रहणे कृतबुद्धीनां देवेश तव शासनात्
संमोक्षसमयोऽस्माकं चिंतनीयः पितामह ५८
पितामह उवाच
रजस्वलासु नारीषु यो वै मैथुनमाचरेत्
तमेषा यास्यति क्षिप्रं व्येतु वो मनसो ज्वरः ५९
महादेव उवाच
तथेति हृष्टमनसः प्रत्युक्ता ह्यप्सरोगणाः
स्वानि स्थानानि संप्राप्य रेमिरे शैलजे तदा ६०
ततश्च लोककृद्देवः पुनरेव पितामहः
आपः संचिंतयामास ततस्ताश्च समागमन् ६१
ताश्च सर्वाः समागम्य ब्रह्माणममितौजसम्
इदमूचुर्वचो देवि प्रणिपत्य पितामहम् ६२
इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम
शासनात्तव देवेश समाज्ञापय तत्प्रभो ६३
ब्रह्मोवाच
इयं वृत्रादनुप्राप्ता पुरुहूतं भयानका
ब्रह्महत्या चतुर्थांशं यूयमस्याः प्रतीच्छथ ६४
आप ऊचुः
एवं भवतु लोकेश यत्त्वं वदसि नः प्रभोः
मोक्षस्य समयं नस्त्वं संचिंतयितुमर्हसि ६५
त्वं हि देवेंद्र सर्वस्य जगतः परमा गतिः
कोऽन्येभ्यो हि प्रसादोऽपि यः कृच्छ्रान्नः समुद्धरेत् ६६
ब्रह्मोवाच
अल्पमेव मतिं कृत्वा यो नरो बुद्धिमोहितः ६७
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्षति
तमेव यास्यति क्षिप्रं तत्रैव च निवत्स्यति
ततो वै भविता मोक्ष इति सत्यं ब्रवीमि वः ६८
महादेव उवाच
ततो विमुच्य देवेंद्रं ब्रह्महत्या सुरेश्वरि
गतातिहृष्टो देवेशो ह्यभवद्देवशासनात् ६९
एवं शक्रेण संप्राप्ता ब्रह्महत्या पुरा युगे
अस्मिंस्तीर्थे तपस्तप्त्वा शुद्धात्मा त्रिदिवं ययौ ७०
अश्वमेधं ततः कृत्वा विपाप्मा समपद्यत
इति साभ्रमती तीर्थे वार्त्रघ्नीयं नगात्मजे ७१
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे
वार्त्रघ्नीमाहात्म्यंनामाष्टषष्ट्यधिकशततमोऽध्यायः १६८