पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २१६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २१५ पद्मपुराणम्
अध्यायः २१६
वेदव्यासः
अध्यायः २१७ →

नारद उवाच-
अतो मधुवनाद्राजन्नयं बदरिकाश्रमः ।
एकादशधनुर्मात्रे भूभागे व्यवतिष्ठति १।
अस्य तीर्थवरस्याहं महिमानं महद्भुतम् ।
वर्णयामि पुरस्तात्ते यं श्रुत्वा मुच्यते भयात् २।
एकस्तु मगधे राजन्देवदासो हि नामतः ।
ब्राह्मणः सत्यवान्दांतः साक्षाद्धर्म इवापरः ३।
निष्णातः सर्वविद्यासु बृहस्पतिरिवापरः ।
हरिसंतोषको भक्त्या प्रह्लाद इव दैत्यराट् ४।
सस्त्रीकोऽपि स्मरं जेता पार्वत्याइव वल्लभः ।
सदाचारपरो नित्यं विश्वामित्रो मुनिर्यथा ५।
मगधेशगृहे मान्यो द्रोणतत्कुरुवेश्मनि ।
दानशीलः सुपात्रेषु बलिर्दैत्याधिपो यथा ६।
तस्यभार्योत्तमा नाम लक्ष्मीरिव गुणोत्तमा ।
पतिशुश्रूषणपरा यथाजनकनंदिनी ७।
तस्यैकश्च सुतो राजन्नंगदो नाम बुद्धिमान् ।
एका पुत्री तु वलया नाम सल्लक्षमणान्विता ८।
तयोर्ज्यायान्सुतः कन्या तस्माद्भूपकनीयसी ।
तयोर्यथाक्रमं चक्रे विवाहं स द्विजोत्तमः ९।
विवाहिता तु सा कन्या ययौ श्वशुरवेश्मनि ।
शुभलक्षणसंपन्ना कालेन कियता नृप १०।
अंगदस्तु महाबुद्धिर्गृहभारं बभार ह ।
पितृवत्सर्वशास्त्रज्ञो यौवनश्रीविभूषितः ११।
एकदा स तु विप्रेंद्रः पुत्रं तं गृहकर्मणि ।
क्षमं विज्ञाय राजेंद्र निजभार्यामुवाच ह १२।
देवदास उवाच ।
समाकर्णय मे साध्वि कालेऽस्मिन्नुचितं वचः ।
ततो यदुचितं भद्रे तदह्नाय विधीयताम् १३।
एषा जरा समायाता शरीरं पातयिष्यति ।
अंगान्याकंपयंतीव वात्या पक्वफलं यथा १४।
अक्ष्णामपि द्युतिं मंदां नूनमेषा करिष्यति ।
नक्षत्राणां सचंद्राणां प्रातर्वेलेव सुव्रते १५।
स्खलितो पादयोर्मंदां गतिं प्रतिपदक्रमम् ।
करिष्यति जरा ह्येषा यथानिगडशृंखला १६।
तस्मादेषा जरा यावन्न प्रौढा जायते शुभे ।
आत्मनस्तावदावाभ्यां करणीयं हि तं द्रुतम् १७।
गृहपुत्रसुहृद्भ्रातृपितरो हि विनश्वराः ।
द्रव्यादिकं च सुभगे तेषु सज्जेत नो बुधः १८।
अतोऽहं सर्वतीर्थेषु पयर्यटन्विजितेंद्रियः ।
वानप्रस्थेन विधिना वीक्षिष्ये हरिमीश्वरम् १९।
ततः संन्यासमादाय क्वचित्तीर्थोत्तमे शुभे ।
प्रारब्धकर्मणामंते त्यक्ष्यामि स्वं कलेवरम् २०।
एवं चेत्प्राणमुक्तः स्यान्मुक्तिः स्यान्नात्र संशयः ।
मम श्रीपतिपादाब्जसम्यक्स्थापितचेतसः २१।
उत्तमोवाच-
पुमान्वा स्त्रीजनो वापि को रमेत विनश्वरे ।
संसारे माधवं मुक्त्वा नित्याश्रममचेतनः २२।
तस्मान्मामपि जीवेश त्वत्पादांबुजसेविनीम् ।
नीत्वा स्वसंगमे तावद्विश्वाब्धेराशु तारय २३।
पुत्रोऽयमंगदः श्रीमान्गृहभारस्य धारणे ।
समर्थोऽभूत्स्नुषा चेयं कल्याणी तत्सहायिनी २४।
पुत्रे समर्थे यो मूढः पुरुषः स्त्रीजनोऽथवा ।
न विरज्येत यो मूढो वंचितः श्रेयसा हि सः २५।
नारद उवाच-
एवमन्योन्यमामंत्र्य दंपती तौ रहस्तदा ।
पुत्रमाहूय कथयांचक्रतुस्त्विदमंगदम् २६।
दंपत्यूचतुः-
जरागमश्लथद्गात्रावावां विद्धि त्वमंगद ।
स्वश्रेयसे यतिष्यावः कुत्रचित्पुण्यभूतले २७।
हरेराराधनं भक्त्या श्रेयः परममुच्यते ।
तदर्थमेव निष्कामा यतंते साधवो भुवि २८।
विषयेषु न संसक्तिः समत्वं सर्वजंतुषु ।
येषां हर्षविवादौ च न जातु सुखदुःखयो २९।
त एव साधवो लोके गोविंदपदसेविनः ।
तेषां दर्शनमात्रेण कृतार्थो जायते नरः ३०।
तीर्थानि पर्यटन्धीरस्तद्दर्शनसमुत्सुकः ।
भाग्योदयेन केनापि तद्दर्शनमवाप्नुयात् ३१।
तस्माद्भारं कुटुंबस्य भुजयोर्युगदीर्घयोः ।
आरोप्य नौ विसर्जस्व तीर्थयात्रार्थमंगद ३२।
तीर्थयात्राप्रसंगेन कदाचित्साधुदर्शनम् ।
भवेद्यदि तदा पुत्र द्वयोर्नौ स्यात्कृतार्थता ३३।
नारद उवाच-
इत्युक्तः पितृभ्यां पुत्रः साधुवादमवादयत् ।
नारद उवाच-
समस्तकुलनिस्तारो भवद्भ्यामयमीरितः ३४।
आशु मामवजानीतं किं करोमि भवद्धितम् ।
अहमाज्ञाकरो नित्यं युवयोः पूज्यपादयोः ३५।
पुण्यतीर्थेषु दानार्थं गृहीतं धनमुत्तमम् ।
नयतं मामपि प्रेष्यं सेवायै निजसंगमम् ३६।
नारद उवाच-
इत्युक्त्वा धनमादाय गत्वा क्रोशद्वयं तयोः ।
संगे गृहमगात्ताभ्यां कथंचित्संनिवर्तितः ३७।
तौ गृहीत्वा धनं किचिद्विष्णुर्नौ संयतामिति ।
कंदमूलफलाहारौ तत्रोषित्वा दिनत्रयम् ३८।
यदा तस्मात्प्रचलितौ दंपती जगतीपते ।
तदा मार्गे महान्कश्चित्सिद्धः संमीलितस्तयोः ३९।
ताभ्यामुभाभ्यां शिरसा वंदितः स उपाविशत् ।
उपविष्टस्तदा ताभ्यामिति पृष्टः स सिद्धराट् ४०।
को भवान्कुत आयातो किं चिकीर्षति तद्वद ।
सिद्ध उवाच-
सिद्धोऽहं तापसश्रेष्ठ कल्पग्रामे गृहं मम ४१।
इंद्रप्रस्थात्समायातो दृष्टं तत्र महाद्भुतम् ।
तत्रास्ति कपिलः सिद्धो नारायणसमो गुणैः ४२।
तस्मादहं पठन्सांख्यं निवसामि तदाश्रमे ।
एकदा मद्गुरुः श्रीमान्स्वाश्रमात्कपिलो ययौ ४३।
बदर्याख्यं महापुण्यं स्नातुं स यमुनाजले ।
तत्रैकोरण्यमहिषस्तृषार्तो यमुनाजले ४४।
प्रविष्टो जलमापीय पूर्वजन्मस्वमस्मरत् ।
स्मृत्वा स पूर्वकर्माणि महिषोऽरण्यसंभवः ४५।
जलान्निसृत्य तरसा ववंदे कपिलं गुरुम् ।
उवाच नरवाचा च मयि शृण्वति तापसः ।
यत्तत्ते कथयाम्यद्य शृणु त्वं परमाद्भुतम् ४६।
महिष उवाच-
भोभो विष्णुकलाभूत सिद्धानां कपिलेश्वर ।
किं नामेदं महातीर्थं नताय कथयस्व मे ४७।
अस्य तीर्थवरस्यांबुस्पर्शाद्वै पूर्वजन्मनि ।
जाता मम महाभाग पापस्यापि च कर्मणः ४८।
सिद्ध उवाच-
एवमाकर्ण्य तद्वाक्यं महिषस्य महामुनिः ।
जानन्नपि च तद्वृत्तं विहस्येदमुवाच ह ४९।
कपिल उवाच-
भवान्महिषशार्दूल क आसीत्पूर्वजन्मनि ।
तत्र किं कृतवान्कर्म योनिं येनाप माहिषीम् ५०।
महिष उवाच-
शृणुष्व मुनिशार्दूल वृत्तं वै पूर्वजन्मनः ।
अहमासं पुरा राजा कलिंगाधिपतिर्बली ५१।
स्वां परां नैव जानामि योषितं काममोहितः ।
वणिजां साधुवृत्तीनां धनहर्ता निरेनसाम् ५२।
निशीथे नगरे राजन् गतभीः पर्यटाम्यहम् ।
सुंदरीभिः परस्त्रीभिः क्रीडितुं रतिलीलया ५३।
यद्गृहे सुंदरीं नारीं पश्यामि स्मरमोहितः ।
वसामि निशि तत्राहं क्षेत्रे मध्ये गजो यथा ५४।
क्रीडित्वा तत्र निःशंकं धनं हृत्वा च तद्गृहात् ।
स्वगृहं पुनरायामि कियद्भिर्वासरैरहम् ५५।
उपविष्टः सभामध्ये दिवा द्वौ पुरबालकौ ।
अनार्यबाहुयुद्धेन योधयामि निजाग्रतः ५६।
नियोधयति यो बालस्तं मत्वा धनिनं बलात् ।
गृह्णामि तत्पितुर्वित्तं स्वल्पं वा भूरि वा मुने ५७।
यः पराजयते तत्र कातरत्वान्महामुने ।
नायमर्हः पुरे स्थातुं ममेति विनिहन्मि तम् ५८।
एवमप्यद्यमारेभे वर्त्तमाने महीपतौ ।
पौरा नगरमुत्सृज्य प्रययुर्विषयांतरम् ५९।
एकदा मुनिशार्दूलो दुर्वासा पर्यटन्महीम् ।
पुरे मम समायातो दुर्वासा रुद्रसंभवः ६०।
मिलित्वा नागराः सर्वे तदाजग्मुस्तदंतिके ।
प्रणिपत्येदमाहुस्तं स्वदुःखज्ञापकं वचः ६१।
पौरा ऊचुः
आत्रेय मुनिशार्दूल कृपां कुरु कृपानिधे ।
अधर्मनिरतं भूपमेनं धर्मेण योजय ६२।
भाग्योदयेन केनापि भवानस्माकमागतः ।
उद्वेलाद्भूपदुःखाब्धेरस्मांस्तारय पोतवत् ६३।
धनं लोभयतातेन हृतं नो मुनिपुंगव ।
दूषिताश्च स्त्रियः साध्व्यः सकामेन निरेनसा ६४।
दशवत्सरदेशीया बहवः शिशवो हताः ।
अगण्य वैगुण्यनिधिरेष भूपो महामुने ६५।
महिष उवाच-
एवमाकर्ण्य पौराणां वचः स मुनिरत्रिजः ।
दंड्योयमिति संचित्य सभास्थं मामथा ययौ ६६।
दृष्ट्वा हि तं समायांतमवधूतं दिगंबरम् ।
आवारयमहं भृत्यैर्नेत्ययं दर्शनोचितः ६७।
रेणुना सर्वलिप्तांगो महिषाकृतिरेव वै ।
वार्यतामिति पार्श्वस्थान्बहुशोऽहं समादिशम् ६८।
ततस्ते तरसा भृत्यास्तं वारयितुमभ्यगुः ।
हुंकारेणैव तान्सर्वान्स चक्रे भस्मसान्मुनिः ६९।
यज्ञाश्वं रक्षतः स्वस्य पितुस्त्वमिव सागरात् ।
सर्वशस्तानहं भृत्यान्भस्मीभूतांस्तु तेजसा ७०।
आलक्ष्य सहसोत्थाय गृहमावेष्टुमुद्यतः ।
रेरे पापेति संबोध्य ततो मां मुनिसत्तमः ७१।
शशापेति महारण्ये महिषो भव सांप्रतम् ।
तेनाहमिति शप्तो वै मुक्त्वा राजतनुं तदा ७२।
मरुदेशे महारण्ये जातोऽहं महिषो मुने ।
चिरकालमहं तत्र न्यवसं मुनिपुंगवः ७३।
अत्रागतस्तु केनाहं पुण्येन तदपि शृणु ।
वापीकूपसरस्यस्तु बहबः कारिता मया ७४।
सहकारादिवृक्षाणामारोपो विहितः पथि ।
पुण्येनानेन मे देव पातो न नरकेऽभवत् ७५।
तीर्थस्य च मया प्राप्तो ह्यमुष्यजलसंगमः ।
एतत्ते कथितं सर्वं पूर्वजन्मशुभाशुभम् ७६।
येन तीर्थं मया प्राप्तमेतद्योनिश्च माहिषी ।
अस्यतीर्थवरस्यांबुस्पर्शाज्जातिस्मरोभवम् ।
कथमस्या असद्योनेर्मुक्तिः स्यात्तन्मुने वद ७७।
कपिल उवाच-
एतत्तीर्थं महापुण्यं बदर्याख्यं रमापतेः ।
अत्र स्नाहि द्रुतं कामं स्वचित्तस्थं हि लप्स्यसे ७८।
सिद्ध उवाच-
एतच्छ्रुत्वा वचस्तस्य महिषस्य महामुने ।
तत्र तीर्थे वरे स्नातुं प्राविशत्स्वर्गवांछया ७९।
स्नात्वा स्वर्गेच्छया तस्मिन्जलात्तटमुपागते ।
तत्क्षणं गजमारूह्य शक्रः स्वर्गात्समाययौ ८०।
इंद्र उवाच-
हे कलिंगपते नैजं देहं जहि हि माहिषम् ।
प्रतिलभ्य वपुर्दिव्यं सममायाहि मे दिवम् ।
त्वया स्वर्गेच्छया स्नातं प्राप्तं तत्ते सुरास्पदम् ८१।
सिद्ध उवाच-
इत्युक्तः स तदा तेन त्यक्त्वा देहं तु माहिषम् ।
दिव्यं वपुः समासाद्य गजराजं समारुहत् ८२।
गजराजं समारुह्य स्थित्वा च गगने क्षणम् ।
प्रणम्य शिरसा देवं तुष्टाव कपिलं मुनिम् ८३।
कलिङ्ग उवाच ।
नमस्ते परमेशान केवलज्ञानहेतवे ।
सेतवे वेदविद्यानां रिपवे तद्विरोधिनाम् ८४।
त्वत्तः प्रवृत्तिः सांख्यस्य जाता तत्वावबोधिनी ।
देहिनां मायया ग्रस्त चेतसामपि ते विभो ८५।
ये वेदविहितं त्यक्त्वा वर्तंते स्वेच्छया मुने ।
तान्दंडयसि दंड्यांस्त्वं मज्जयंस्तिर्यगादिषु ८६।
इंद्रादयो लोकपालाः सर्वे त्वदधिकारिणः ।
त्वदिच्छामनुवर्तंते भीता दंडकृतो हि ते ८७।
त्रयीधर्मविरोद्धारः पूर्वदेवा युगे युगे ।
अवतीर्य विनाशाय कृता सर्वात्मना त्वया ८८।
ये ये त्वया हता नाथ चक्रिणा त्रिदशारयः ।
ते ते तमोमयीं हित्वा तनुं वैकुंठमभ्यगुः ८९।
आज्ञापय जगन्नाथ गंतु मां त्रिदशालयम् ।
अनुगृह्णीष्व शक्रं च नमंतं वीक्षणामृतैः ९०।
प्रसादात्तव देवेश बदर्याख्यस्य च प्रभो ।
तीर्थस्य स्वतनुं हित्वा तामसीं सात्विकीं गतः ९१।
इंद्रेण सह नागेंद्रमारुह्य त्रिदशालयम् ।
गच्छामि स्वेच्छया नाथ कृपातस्ते कृपानिधेः ९२।
सिद्ध उवाच-
इत्यभिष्टूय देवेशं कपिलं स कलिंगपः ।
नमस्कृत्य च तत्पादौ जगाम त्रिदशालयम् ९३।
एतन्मयाद्भुतं विप्र दृष्टं बदरिकाश्रमे ।
गुरुं शुश्रूषमाणेन पापस्यापि विमोक्षणम् ९४।
नातः परं त्रिलोक्यां तु तीर्थं सर्वार्थदायकम् ।
याहि तत्रैव सस्त्रीकः परं श्रेयो यदीच्छसि ९५।
अहं यामि समानेतुं बदर्याख्यं गृहान्द्विज ।
वृद्धं स्वकीय पितरं निस्पृहं मोक्षकामुकम् ९६।
नारद उवाच-
इति तीर्थवरस्यास्य बदर्याख्यस्य भूपते ।
महिमानं समुत्कीर्त्य स सिद्धः स्वगृहं ययौ ९७।
अथ कालेन कियता स द्विजः सह भार्यया ।
तीर्थानपर्यटन्धीरः इंद्रप्रस्थेभ्यगादहम् ९८।
तेनैव वपुषा राजन्नीतवांस्तौ निजालयम् ।
ससिद्धोऽपि स्वपितरं गृहादानीय सत्वरः ९९।
तत्रैव स्नापयामास तत्तीर्थे मोक्षकामुकम् ।
सोऽपि श्रीवासुदेवेन वृद्धः सिद्धपिता तदा १००।
ततो नीतो निजगृहं वृंदारकविवंदितः ।
इंद्रप्रस्थांतरगतमिदं सद्बदर्याख्यमीशः स्नानाद्दद्यादखिलजनिता मानसेष्टं पदार्थम् ।
माहात्म्यं ते नृपनतिमते वर्णितं तस्य पूतं यच्छ्रुत्वा वै पतति न जनो मातृगर्भे कदाचित् १०१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये बदरिकाश्रमवर्णनंनाम षोडशाधिकद्विशततमोऽध्यायः२१६।