पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०६४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०६३ पद्मपुराणम्
अध्यायः ०६४
वेदव्यासः
अध्यायः ०६५ →

नारद उवाच-
चातुर्मास्यां तु नियमा ये केचिद्भुवि विश्रुताः ।
तानहं श्रोतुमिच्छामि कथयस्व महेश्वर १।
चातुर्मास्ये हरौ सुप्ते कर्त्तव्यं किं जनार्दने ।
षड्रसानां परित्यागे नखकेशविधारणे ।
अन्यैश्च नियमैः स्वामिन्यत्फलं तद् ब्रवीहि मे २।
सूत उवाच-
एतच्छ्रुत्वा त्वसौ देवः प्रहस्योत्फुल्ललोचनः ।
प्रोवाच तं द्विजवरं नारदं तपसान्निधिम् ३।
महादेव उवाच-
शृणु त्वमिह देवर्षे कथयामि सविस्तरम् ।
आषाढस्य सिते पक्षे एकादश्यामुपोषितः ४।
चातुर्मास्यव्रतानीह गृह्णीयाद्भक्तिपूर्वकम् ।
भूमिशय्यासमारूढो योगनिद्रां गते हरौ ५।
नयेत चतुरो मासान्यावद्भवति कार्तिकी ।
प्रतिष्ठा न प्रवर्त्तंते तथा यज्ञादिकाः क्रियाः ६।
विवाहव्रतसंबंध अन्यन्माङ्गल्यकर्म च ।
भूपयानं तथा यात्रा अन्याश्च विविधाः क्रियाः ७।
प्रसुप्ते च जगन्नाथे अच्युते गरुडध्वजे ।
व्रतक्रियां चरेद्यस्तु तस्य व्रतफलं शृणु ८।
अश्वमेधसहस्रैस्तु यत्फलं प्राप्नुयान्नरः ।
चातुर्मास्यव्रतैश्चीर्णैस्तत्फलं समवाप्नुयात् ९।
मिथुनस्थे सहस्रांशौ स्वापयेन्मधुसूदनम् ।
तुलाराशौ गते सूर्ये पुनरुत्थापयेद्धरिम् १०।
अधिमासे तु पतिते तदा चैष विधिक्रमः ।
स्थापयेत्प्रतिमां विष्णोः शंखचक्रगदाधरीम् ११।
पीतांबरधरां सौम्यां पर्यंके स्थापयेत्शुचौ ।
श्वेतवस्त्रसमाच्छन्ने सोपधाने तु नारद १२।
इतिहासपुराणज्ञो विष्णुभक्तोऽथवा पुनः ।
स्नापयित्वा दधिक्षीरमधुलाजघृतस्तथा १३।
समालभ्य शुभैर्गंधैर्धूपैः पुष्पैर्मनोरमैः ।
पूजितां कुसुमैः शुभ्रैर्मंत्रेणानेन वाडव १४।
सुप्ते त्वयि जगन्नाथे जगत्सुप्तं भवेदिदम् ।
विबुद्धे त्वयि बुध्येत जगत्सर्वं चराचरम् १५।
एवं तां प्रतिमां विष्णोः स्थापयित्वा तु नारद ।
तस्यैवाग्रे स्वयं वाचा गृह्णीयान्नियमं ततः १६।
स्त्री वा नरो वा तद्भक्तो धर्माधर्मविभागतः ।
चतुरो वार्षिकान्मासान्देवस्योत्थापनावधि १७।
गृह्णीयान्नियमानेतान्दंतधावनपूर्वकम् ।
उपवासं ततः कृत्वा प्रभाते विमले सति १८।
नित्यं कर्म चरित्वा तु विष्णोरग्रे जितात्मवान् ।
तेषां फलानि वक्ष्यामि तत्कर्तॄणां पृथक्पृथक् १९।
मधुरत्वं लभेद्विद्वान्पुरुषो गुडवर्जनात् ।
तथैव संततिं दीर्घां तैलस्य वर्जनाद्यतः २०।
घृतस्य वर्जनाद्विप्र सुंदरांगः प्रजायते ।
कटुतैलपरित्यागी शत्रुनाशमवाप्नुयात् २१।
सुगंधतैलत्यागेन सौभाग्यमतुलं लभेत् ।
पुष्पभोगपरित्यागी स्वर्गे विद्याधरो भवेत् २२।
योगाभ्यासी नरो यस्तु स ब्रह्मपदमाप्नुयात् ।
कट्वम्लमधुरक्षारतीक्ष्णकाषाय षड्रसान् २३।
वर्जयेद्यस्तु वैरूप्यं दौर्गंध्यं नाप्नुयान्नरः ।
तांबूलवर्जनाद्भोगी रक्तकंठस्तु जायते २४।
घृतत्यागाच्च लावण्यं सदा स्निग्धतनुर्भवेत् ।
फलत्यागाच्च विपेंद्र बहुपुत्रश्च जायते २५।
पलाशपत्राशनकृद्रूपवान्भोगवान्भवेत् ।
दीप्तिमान्दीप्तिकरणः साक्षाद्द्रव्यपतिर्भवेत् २६।
दधिदुग्धपरित्यागी गोलोकं लभते नरः ।
मौनव्रती भवेद्यस्तु तस्याज्ञाऽस्खलिता भवेत् २७।
इंद्रासनमवाप्नोति स्थालीपाकस्य वर्जनात् ।
एवमादि परित्यागाद्धर्मस्थो धर्मनंदनः २८।
नमोनारायणायेति जप्त्वा शतगुणं फलम् ।
एक एव स वै स्वर्गे विद्याधरपतिर्भवेत् २९।
पुष्करस्नानमात्रेण गंगायाः स्नानजं फलम् ३०।
भूमौ भुंक्ते सदा यस्तु स पृथिव्यधिपो भवेत् ।
विष्णोश्चैव गृहे कुर्यादुपलेपनमार्जनम् ३१।
कल्पस्थायी भवेद्विद्वन्वैकुंठे नात्र संशयः ।
प्रदक्षिणं च यः कुर्याच्छतमष्टोत्तरं नरः ३२।
हंसयुक्तविमानेन दिव्येन सह गच्छति ।
गीतवाद्यकरो विष्णोर्गांधर्वं लोकमाप्नुयात् ३३।
पंचगव्याशनो विद्वन्चांद्रायणफलं लभेत् ।
नित्यं शास्त्रविनोदेन लोकान्यस्तु प्रबोधयेत् ३४।
स व्यासरूपी विष्ण्वग्रे ततो विष्णुपदं लभेत् ।
तुलसीदलपूजां तु कृत्वा विष्णुपुरं व्रजेत् ३५।
कृत्वा प्रोक्षणकं दिव्यं स्थानमप्सरसां लभेत् ।
शीतांबुना गृहे स्नानात्निर्मलं देहमाप्नुयात् ३६।
उष्णोदकं परित्यज्य स्नानं वै पौष्करं लभेत् ।
पत्रेषु यो नरो भुंक्ते कुरुक्षेत्रफलं लभेत् ३७।
भुंक्ते शिलायां यो नित्यं तस्य पुण्यं प्रयागजम् ।
धर्मोदयजलत्यागी न रोगैः परिभूयते ३८।
ताम्रपात्रेषु भुंजानो नैमिषं फलमाप्रुयात् ।
कांस्यपात्रं परित्यज्य शेषपात्रमुपाचरेत् ३९।
अलाभे सर्वपात्राणां मृन्मयं पात्रमुत्तमम् ।
स्वगृहीतैः कृतैर्वापि पात्रैः पालाशसंभवैः ४०।
यस्तु संवत्सरं पूर्ण अग्निहोत्रमुपासते ।
पात्रैर्वा भोजनं विद्वान्सेवते तत्समं स्मृतम् ४१।
चांद्रायणसमं प्रोक्तं ब्रह्मपात्रेषु भोजने ।
एकैकं भोजनं विद्वन्ब्रह्मपत्रेषु भुंजतः ४२।
त्रिरात्रेण समं प्रोक्तं महापातकनाशनम् ।
एकादश्युपवासेन यत्पुण्यं परिकीर्तितम् ४३।
सर्वदानफलं चैव सर्वतीर्थफलं लभेत् ।
न चापि नरकं पश्येत्पद्मपत्रेषु भोजनात् ४४।
ब्राह्मणो याति वैकुंठेऽन्यो जनः स्वर्गमाप्नुयात् ।
एष ब्रह्म महावृक्षः पापहा सर्वकामदः ४५।
मध्यमं वर्जितं पत्रं शूद्रजातेर्नृपोत्तम ।
भुंजन्नरकमाप्नोति यावदिंद्राश्चतुर्दश ४६।
वर्जयेन्मध्यमं पत्रं शेषपत्रेषु भोजनम् ।
मध्यपत्रे च यः शूद्रो भोजनं कुरुते द्विज ४७।
कपिलां ब्रह्मणे दत्त्वा शुद्धिर्भवति नान्यथा ।
कपिलां दोहयेद्यस्तु शूद्रो भुंक्ते निजे गृहे ४८।
दशवर्षसहस्राणि विष्ठायां जायते कृमिः ।
कृमियोनिविनिर्मुक्तः पशुयोनिमवाप्नुयात् ४९।
कपिलं योह्यनड्वाहं शूद्रो भूत्वात्र वाहयेत् ।
यावंति तस्य रोमाणि तावद्वर्षाणि नारद 6.64.५०।
कुंभीपाकेषु पच्येत स नरो नात्र संशयः ।
अजा चैव गृहे तस्य शूद्रस्य च विशेषतः ५१।
तस्या वै दुग्धपानेन शूद्रो यातीह रौरवम् ।
ब्राह्मणैः सह व्यापारो यस्य शूद्रस्य दृश्यते ५२।
स विप्रो वेदबाह्यः स्याच्छूद्रः कौलिक उच्यते ।
व्यापारे प्रेरितो विप्रः शूद्राज्ञां च करोति यः ५३।
यावत्पदानि चलते तावद्भवति नारकी ।
उदकार्थं तु यो विप्रः शूद्रेण प्रेषितो गृहे ५४।
तदुदकं मद्यतुल्यं पीत्वा वै नरकं व्रजेत् ।
शूद्रेण सर्वदा नित्यं दानं देयं द्विजन्मने ५५।
तेषां चैव तु वै भक्तिः कर्त्तव्या च विशेषतः ।
इहलोके सुखं भुक्त्वा परलोकं च गच्छति ५६।
पांचभौतिकमेतद्धि अनर्थकमुदाहृतम् ।
अतो देयं हि गुरवे यतोऽनंतफलं लभेत् ५७।
अस्मिन्कलियुगे घोरे पापाचारे दुरात्मनः ।
निंदां कुर्वंति विप्रेंद्र जनानां पुण्यकर्मणाम् ५८।
निंदया लभते दुःखं यावदाभूतसंप्लवम् ।
नानाधर्माः प्रवर्त्तंते कलौ चैव महामते ५९।
धर्मोऽयं दुर्ल्लभो लोके धर्मकामार्थमोक्षदः ।
भूमिशायी भवेद्यस्तु नरः कोऽपि महीतले ६०।
दशवर्षसहस्राणि न रोगैः परिपीड्यते ।
बहुपुत्रो धनैर्युक्तो ह्यकुष्ठी जायते नरः ६१।
नक्तभोजी नरो यस्तु तीर्थयात्राफलं लभेत् ।
अयाचितेन चाप्नोति वापीकूपक्रिंया फलम् ६२।
वर्जयेद्यस्तु वै द्रोहं प्राणहिंसापराङ्मुखः ।
अहिंसा परमो धर्म इति वेदेषु गीयते ६३।
दानं दया दम इति सर्वत्र हि श्रुतं मया ।
तस्मात्सर्वप्रयत्नेन कार्यं वै महतामपि ६४।
गुरवे ये प्रयच्छंति शरीरं पुत्रपौत्रकम् ।
तत्र दानप्रभावेन विष्णोर्वल्लभतामियात् ६५।
शूद्रेण दीक्षितो यस्तु शूद्रः शूद्रेण दीक्षितः ।
उभौ तौ पापिनौ प्रोक्तौ यावदाभूतसंप्लवम् ६६।
हिंसामतिं यदादत्ते शूद्रो वै पापसत्तमः ।
एकविंशतिकुलं तेन नरकं प्रतिपात्यते ६७।
कलौ पाखंडिनः शूद्रा दृश्यंते बहवो भुवि ।
तेषां संभाषणादेव नरको भवति द्विज ६८।
ब्रह्मज्ञानरता ये च गायत्रीजापिनो द्विज ।
तेषां दर्शनमात्रेण ब्रह्महत्या दिने दिने ६९।
शंखचक्रधरा विप्रा विष्णुधर्मेषु संमताः ।
वेदधर्मरता नित्यं पंक्तिपावनपावनाः ७०।
चातुर्मास्यमिदं कर्म कर्त्तव्यं तैः सदा नरैः ।
किमन्यद्बहुनोक्तेन भूयोभूयश्च वाडव ७१।
ते धन्याः पृथिवी मध्ये नरा ये वैष्णवा भुवि ।
तेषां कुलं धन्यतमं जातिर्धन्यतमा स्मृता ७२।
मधु भक्षयते यस्तु सुप्ते देवे जनार्दने ।
महत्पापं भवेत्तस्य वर्जने यच्छृणुष्व तत् ७३।
सर्वयज्ञैश्च विविधैर्यत्फलं तदवाप्नुयात् ।
दाडिमं मातुलिगं च नालिकेरं च वर्जयेत् ७४।
देवो वैमानिको भूत्वा ह्यंते विष्णुपदं व्रजेत् ।
वित्तवान्सुभगश्चैव कुले श्रीमति जायते ७५।
यः क्षिपेदेकभक्तेन नरो मासचतुष्टयम् ।
यावंति च मुहूर्तानि उदितोदितभास्करे ७६।
ताद्वर्षसहस्राणि विष्णुलोके महीयते ।
व्रीहींश्च यवगोधूमान्वर्जयेद्यस्तु मानवः ७७।
अश्वमेधादिके कृते विधिवद्वै सदक्षिणे ।
यत्फलं मुनिभिः प्रोक्तं तत्फलं लभते नरः ७८।
धनधान्यसमायुक्तो बहुपुत्रश्च जायते ।
तुलसीतिलदर्भैश्च ये कुर्वंति च तर्पणम् ७९।
तत्फलं कोटिगुणितं चातुर्मास्ये विशेषतः ।
यदा सुप्ते हृषीकेशे कुर्याच्चैतत्त्रयान्वितम् ८०।
तेऽपि युगसहस्राणि मोदंते विष्णुसंनिधौ ।
पदं वा पदमर्द्धं वा ऋचां चार्द्धऋचां तथा ८१।
विष्ण्वग्रे ये प्रगायंति मुक्तास्ते वै न संशयः ।
मैथुनं वर्जयेद्यस्तु सुप्ते देवे जनार्दने ८२।
एकमन्वंतरं सोऽपि विष्णुलोके महीयते ।
दधिदुग्धं तथा तक्रं गुडं शाकं तथैव च ८३।
वर्जनादेव भो विप्र मुक्तिभागी न संशयः ।
स्नानमामलकेनैव ये कुर्वंति च मानवाः ८४।
दिनेदिने महत्पुण्यं प्राप्नुवंति च ते मुने ।
धात्रीफलं पापहरं प्रवदंति मनीषिणः ८५।
त्रैलोक्यतारणार्थाय निर्मिता ब्राह्मणा पुरा ।
संध्यामौनं चरेद्यस्तु भुंक्ते मासचतुष्टयम् ८६।
मन्वंतराणि चत्वारि वैकुंठे मोदते पुनः ।
स्वयंपाकी नरो यस्तु भुंक्ते मासचतुष्टयम् ८७।
दशवर्षसहस्राणि इंद्रलोके महीयते ।
चतुरो वार्षिकान्मासान्मौनं चैव समाचरेत् ८८।
स च विष्णुपुरं गच्छेद्ब्राह्मं च तदनंतरम् ।
मौनभोजी नरो यस्तु कदाचिन्नावसीदति ८९।
मौनेन भुंजमानास्तु राक्षसास्त्रिदिवं गताः ।
कृमिकीटसमायुक्तं पक्वान्नमशुची भवेत् ९०।
गवां मांससमं ज्ञेयमन्नं चापि द्विजोत्तम ।
तदन्नमशुचि ज्ञेयं ग्रसते मानुषो यदि ९१।
एतद्वै भोजनं प्रोक्तं राक्षसानां प्रियं सदा ।
तोषितो हि पुरा ब्रह्मा तेन दत्तं महात्मना ९२।
मौनेन भोजयित्वा तु स्वर्गं प्राप्ता न संशयः ।
संजल्पन्भुंजते यस्तु तेनान्नमशुची भवेत् ९३।
पापं स केवलं भुंक्ते तस्मान्मौनं समाचरेत् ।
उपवाससमं भोज्यं ज्ञेयं मौनेन नारद ९४।
पंचप्राणाहुतीर्यस्तु मौनभोजी नरोत्तमः ।
पंच वै पातकान्यस्य नश्यंति नात्र संशयः ९५।
न कुर्यात्संधितं वस्त्रं पितृकर्मणि वाडव ।
अशुच्यंगे स्थितं चैव वस्त्रं तदशुची भवेत् ९६।
कटिपृष्ठस्थिते वस्त्रे पुरीषं कुरुते तु यः ।
मूत्रं वा मैथुनं वापि तद्वस्त्रं परिवर्जयेत् ९७।
पितृकर्मविशेषेण वर्जनीयं च वाडव ।
सर्वदा च मुने प्राज्ञैर्देवार्चा चक्रपाणिनः ९८।
कर्त्तव्या च विशेषेण शुचिभिर्विजितेंद्रियैः ।
संप्रसुप्ते हृषीकेशे तृणशाककुसुंभिकाः ९९।
संधितानि च वस्त्राणि वर्जितानि प्रयत्नतः ।
चातुर्मास्ये हरौ सुप्ते यस्तु एतानि वर्जयेत् 6.64.१००।
नरकं न तु संगच्छेत्यावदाभूतसंप्लवम् ।
मद्यं मांसं न भक्षेत शाशकं सौकरं तथा १०१।
चातुर्मास्ये विशेषेण सुप्ते देवे जनार्दने ।
सोऽपि देवत्वमाप्नोति अहिंसानिरतो नरः १०२।
मिथ्याक्रोधं तथा रौक्ष्यं तथा पर्वसु मैथुनम् ।
वर्जितं येन विप्रेंद्र सोऽश्वमेधफलं लभेत् १०३।
ब्रह्मचर्ये प्रजावृद्धिरायुर्वृद्धिस्तथैव च ।
पुष्पं पत्रं फलं शय्या अभ्यंगं च विलेपनम् १०४।
वृथादुग्धानि मांसं च मद्यं च परिवर्जयेत् ।
चातुर्मास्ये हरौ सुप्ते नियतं यद्विवर्जितम् १०५।
प्रथमं तत्तु दातव्यं ब्राह्मणाय न संशयः ।
तद्धनं चाक्षयं विद्वन्प्रदत्तं यद्दिवजातये १०६।
कोटिकोटिगुणं विप्र लभते नात्र संशयः ।
येनकेनापि विप्रेंद्र नियमेनार्चितो हरिः १०७।
ददाति विष्णुभवनं नात्र कार्या विचारणा ।
चातुर्मास्ये हरौ सुप्ते नियमं यो न कारयेत् १०८।
सोऽपि नरकमाप्नोति तस्य जन्म वृथागतम् ।
यत्पुमान्कारयेन्नित्यं द्विजोक्तं विधिमुत्तमम् १०९।
तथोक्तान्नियमांश्चैव स याति परमं पदम् ।
त्रिवर्गरहितं दानं दत्तं भवति निष्फलम् ११०।
तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम् ।
तोषयेन्नियमैर्दानैर्यथाशक्त्या नरोत्तमः १११।
अकृतस्नानदानं च ब्राह्मणानां च पूजनम् ।
वृथागतं तु तत्सर्वं यावदिंद्राश्चतुर्दश ११२।
नारद उवाच-
कीदृशं ब्रह्मचर्यं च वद विश्वेश्वर प्रभो ।
येन चीर्णेन गोविंदः परितुष्टो भवेन्नृणाम् ११३।
महादेव उवाच-
स्वदारनिरतश्चैव ब्रह्मचारी स्मृतो बुधैः ।
चांडालादधिको विद्वन्यः स्वभार्यां परित्यजेत् ११४।
ऋतावभिगमं कृत्वा ब्रह्मचर्यं विधीयते ।
परित्यजति यो भार्यां भक्तां दोषविवर्जिताम् ११५।
पापकर्मा नरो लोके भ्रूणहत्यामवाप्नुयात् ।
अश्वमेधसहस्राणि वाजपेयशतानि च ११६।
एकादश्युपवासस्य कलां नार्हंति षोडशीम् ।
स्नानं दानं जपो होमः स्वाध्यायं देवतार्चनम् ११७।
चातुर्मास्यकृतं यच्च सर्वं हि चाक्षयं भवेत् ।
एककालं द्विकालं वा पुराणं शृणुते तु यः ११८।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
हरौ सुप्ते विशेषेण हरेर्नामपठन्जपन् ११९।
तत्फलं कोटिगुणितं लभते द्विजसत्तम ।
वैष्णवो ब्राह्मणो यस्तु पूजनं यः करोति हि १२०।
स एव सर्वधर्मात्मा पूज्य एव न संशयः ।
चातुर्मास्यमिदं पुण्यं पवित्रं पापनाशनम् ।
श्रुत्वा तु लभते पुण्यं गंगास्नानफलं लभेत् १२१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्र्यां संहितायामुमापतिनारदसंवादे उत्तरखंडे चातुर्मास्यमहिमानाम चतुःषष्टितमोऽध्यायः ६४।