पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १६१ पद्मपुराणम्
अध्यायः १६२
वेदव्यासः
अध्यायः १६३ →

महादेव उवाच।
ततो गच्छेत्तथा देवि तीर्थं कापोतिकं पुनः ।
यत्र साभ्रमती तोयं प्राचीनं संप्रवर्त्तते १।
पिंडं ददाति यस्तत्र पितृतर्पणपूर्वकम् ।
वन्यैः फलैस्तथा पुष्पैः सदा पर्वणि पर्वणि २।
काकादिभ्यश्च श्वादिभ्यो बलिं संददते तु यः ।
यमस्य पंथानं सोऽपि ससुखं निस्तरेन्नरः ३।
तत्र तीर्थे नरः स्नात्वा वैशाख्यां गौरसर्षपैः ।
पूजयेद्देवमीशानं प्राचीनेश्वरमुत्तमम् ४।
आत्मानं तारयेत्सोऽथ पितॄनथ पितामहान् ।
कपोतो यत्र चात्मानं दत्त्वा चातिथये मुदा ५।
स्तुतो देवगणैः सर्वैर्विमानेन दिवं गतैः ।
तदा प्रभृति तत्तीर्थं कापोतमिति विश्रुतम् ६।
तत्र स्नात्वा नरः पीत्वा ब्रह्महत्यां व्यपोहति ।
पार्वत्युवाच।
कपोतेन कथं दत्तं शरीरं च वद प्रभो ।
निमित्तं किं तथा देव नाहं वेद्मि सुरेश्वर ७।
महादेव उवाच।
अत्र तीर्थेति देवेशि वटो वै परमो महान् ।
तस्य शाखा ह्यनंताश्च दृश्यंते विपुला भुवि ८।
तत्र जीवा वसंतीह पक्षिणो बहवस्तथा ।
कपोतेन गृहं तत्र कारितं तु सुरेश्वरि ९।
तत्र तिष्ठति पक्षीशो नित्यं विष्णुपरायणः ।
कुटुंबेन समायुक्तो शाखायां वसति ध्रुवम् १०।
एकस्मिन्वासरे देवि द्वादश्यां विष्णुवासरे ।
श्येनस्तत्र समायातो ह्यतिथित्वेन भामिनि ११।
कपोत भो देहि मांसं तव शारीरकं मम ।
नोचेच्छापं प्रदास्यामि इत्युक्तं नगनंदिनि १२।
अद्य वै वासरे विष्णोः क्षुधार्तोऽहं समागतः ।
तस्माद्देयं हि मांसं तत्क्षुधार्ताय मम प्रभो १३।
श्येनोक्तं तत्तु वै श्रुत्वा कपोतो वैष्णवो महान् ।
तेन दत्तं तदा देवि शरीरं नात्र संशयः १४।
तेन दानप्रभावेन तीर्थं जातं सुरोत्तमे ।
कापोतकं महत्तीर्थं पावनानां च पावनम् १५।
अत्र तीर्थे नरः स्नात्वा कृत्वा वै शिवपूजनम् ।
ददाति चातिथिभ्यश्च मिष्टमन्नं सुरोत्तमे १६।
इहलोके सुखं भुक्त्वा याति विष्णोः सनातनम् ।
दत्त्वा वै स्वशरीरं तु कपोतोऽथ महात्मने १७।
स गतो वैष्णवं तत्र यावच्चंद्र दिवाकरौ ।
अतो गत्वा तु भो देवि अतिथिं पूजयेत्सदा ।
पूजिते चातिथौ तत्र सर्वं च लभते ध्रुवम् १८।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कपोततीर्थं नाम द्विषष्ट्यधिक शततमोऽध्यायः १६२।