पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १०८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १०७ पद्मपुराणम्
अध्यायः १०८
वेदव्यासः
अध्यायः १०९ →

नारद उवाच।
इत्थं तद्वचनं श्रुत्वा धर्मदत्तः सविस्मयः ।
प्रणम्य दंडवद्भूमौ वाक्यमेतदुवाच ह १।
धर्मदत्त उवाच।
आराधयंति सर्वेऽपि विष्णुं भक्तार्त्तिनाशिनम् ।
यज्ञैर्दानैर्व्रतैस्तीर्थैस्तपोभिश्च यथाविधि २।
विष्णुप्रीतिकरं तेषां विष्णुसान्निध्यकारकम् ।
यत्कृत्वा तानि चीर्णानि सर्वाण्यपि भवंति हि ३।
गणावूचतुः ।
साधु पृष्टं त्वया विप्र शृणुष्वैकाग्रमानसः ।
सेतिहासां कथां विप्र कथ्यमानां पुराभवाम् ४।
कांतिपुर्यां पुरा चोल चक्रवर्त्ती नृपोऽभवत् ।
यस्य नाम्ना च ते देशाश्चोलाख्या अभवन्किल ५।
यस्मिन्शासति भूचक्रं दरिद्रो नैव दुःखितः ।
पापबुद्धिः सरुग्वापि नैव कश्चिदभून्नरः ६।
यस्याप्यत्यंतयज्ञस्य ताम्रपर्णी तटावुभौ ।
सुवर्णयूपैः शोभाढ्यावास्तां चैत्ररथोपमौ ७।
स कदाचिदगाद्राजा ह्यनंतशयनं द्विज ।
यत्रासौ जगतां नाथो योगनिद्रामुपासते ८।
तत्र श्रीरमणं देवं संपूज्य विधिवन्नृपः ।
मणिमुक्ताफलैर्दिव्यैः स्वर्णपुष्पैश्च शोभनैः ९।
प्रणम्य दंडवद्यावदुपविष्टः स तत्र वै ।
तावद्ब्राह्मणमायां तमपश्यद्देवसन्निधौ १०।
देवार्चनार्थमायांतं तुलस्युदकपाणिनम् ।
स्वपुरीवासिनं तत्र विष्णुदासा वयं द्विजम् ११।
तत्राभ्येत्य स विप्रर्षिर्देवदेवमपूजयत् ।
विष्णुसूक्तेन संस्नाप्य तुलसीमंजरीदलैः १२।
तुलसीपूजया तस्य रत्नपूजां तथा कृताम् ।
आच्छादितां समालोक्य राजा क्रुद्धोऽब्रवीद्वचः १३।
राजोवाच।
माणिक्यस्वर्णपूजात्र शोभाढ्या या मया कृता ।
विष्णुदास कथं सेयमाच्छन्ना तुलसीदलैः १४।
विष्णुभक्तिं न जानासि वराकोऽसि मतो मम ।
यस्त्विमामतिशोभाढ्यां पूजामाच्छादयस्यहो १५।
इति तद्वचनं श्रुत्वा सक्रोधः स द्विजोत्तमः ।
राज्ञो गौरवमुल्लंघ्य जगाद वचनं तदा १६।
विष्णुदास उवाच।
राजन्मुक्तिं न जानासि गर्वितोऽसि नृपश्रिया ।
किंस्विद्विष्णुव्रतं पूर्वं त्वया चीर्णं वदस्व तत् १७।
गणावूचतुः ।
तद्ब्राह्मणवचः श्रुत्वा प्रहस्य स नृपोत्तमः ।
विष्णुदासं तदा गर्वादुवाच वचनं द्विज १८।
इत्थं चेत्कथ्यसे विप्र विष्णुभक्त्यातिगर्वितः ।
भक्तिस्ते कियतीविष्णोर्दरिद्रस्याधनस्य च १९।
यज्ञदानादिकं चैव विष्णुतुष्टिकरं कृतम् ।
नापि देवालयं पूर्वं त्वया विप्र क्वचित्कृतम् २०।
ईदृशस्यापि ते गर्व एष तिष्ठति भक्तितः ।
तच्छृण्वंतु वचो मेऽद्य सर्वेप्येते द्विजोत्तमाः २१।
साक्षात्कारमहं विष्णोरेष वादो गमिष्यति ।
यथा तु सर्वेऽपि ततो भक्तिं ज्ञास्यथ चावयोः २२।
गणावूचतुः ।
इत्युक्त्वा स नृपो गच्छन्निजं राजगृहं द्विजः ।
आरेभे वैष्णवं सत्रं कृत्वाचार्यं तु मुद्गलम् २३।
ऋषिसंघसमाजुष्टं बभूव बहुदक्षिणम् ।
यद्वद्ब्रह्मकृतं पूर्वं गयाक्षेत्रे समृद्धिमत् २४।
विष्णुदासोऽपि तत्रैव तस्थौ देवालये व्रती ।
पंचैतान्नियमान्कृत्वा विष्णुतुष्टिकरान्सदा २५।
माघोर्जयोर्व्रतं सम्यक्तुलसीवनपालनम् ।
एकादशीव्रतं जाप्यं द्वादशाक्षरविद्यया २६।
उपचारैः षोडशभिर्गीतनृत्यादिमंगलैः ।
नित्यं विष्णोस्तथा पूजां व्रतान्येतानि सोऽकरोत् २७।
नित्यं संस्मरणं विष्णोर्गच्छन्भुंजन्स्वपन्नपि ।
सर्वभूतस्थितं विष्णुमपश्यत्समदर्शनः २८।
माघकार्तिकयोर्नित्यं विशेषनियमानपि ।
अकरोद्विष्णुतुष्ट्यर्थं सोद्यापनविधिं तथा २९।
एवं समाराधयतोः श्रियः पतिं तयोस्तु चोलेश्वरविष्णुदासयोः ।
अगादनेहा बहु तद्व्रतस्थयोस्तन्निष्ठकर्मेन्द्रियकर्मणोस्तयोः ३०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे कलहोपाख्याने अष्टाधिकशततमोऽध्यायः १०८।