पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३०

विकिस्रोतः तः
← अध्यायः १२९ पद्मपुराणम्
अध्यायः १३०
वेदव्यासः
अध्यायः १३१ →

पार्वत्युवाच।
श्रुतं कार्तिकमाहात्म्यं माघस्य च मया विभो ।
अधुना श्रोतुमिच्छामि मुक्तिदं कर्म चोत्तमम् १।
श्रेष्ठा भक्तिस्तु का प्रोक्ता वद विश्वेश्वर प्रभो ।
येन विज्ञानमात्रेण नराः सुखमवाप्नुयुः २।
महादेव उवाच।
तल्लीनचित्तः स पुमान्सा भक्तिः परमा मता ।
दयाधर्मपरो नित्यं विष्णुधर्मेषु तत्परः ३।
फलमूलजलाहारी शंखचक्रप्रधारकः ।
त्रिकालं पूजयेद्विष्णुं सा भक्तिः सात्विकी मता ४।
उत्तमा सात्विकी प्रोक्ता राजसी चैव मध्यमा ।
कनिष्ठा तामसी चैव त्रिविधा भक्तिरुच्यते ५।
श्रीधरे तु प्रकर्त्तव्या मुक्तिकामफलेप्सुभिः ।
अहंकारेण रूपेण दंभमात्सर्यमायया ६।
ये कुर्वंति जना भक्तिं तामसी सा उदाहृता ।
परस्योत्सादनार्थं वा दंभमुद्दिश्यवाऽथवा ७।
या भक्तिः क्रियते देवे तामसी सा प्रकीर्तिता ।
विषयान्प्रतिसंधाय यश ऐश्वर्यमेव वा ८।
अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः ।
कर्मक्षयार्थे कर्त्तव्या ब्राह्मणैर्ज्ञानतत्परैः ९।
विष्णौ ह्यात्मार्पणीं बुद्धिं सा भक्तिः सात्विकी मता ।
अतो वै सर्वथा देवि संसेव्यः सर्वदा हरिः १०।
तामसेन तु भावेन तामसत्वं हि लभ्यते ।
राजसो राजसेनैव सात्विकेन तु सात्विकः ११।
वेदाध्यायरतः श्रीमान्रागद्वेषविवर्जितः ।
शंखचक्रधरो विप्रः सर्वदा शुचिरुच्यते १२।
कर्मकांडे प्रवृत्तो यः सर्वदा विष्णुनिंदकः ।
निंदकस्तज्जनानां च महाचंडाल उच्यते १३।
वेदाध्यायरता नित्यं नित्यं वै यज्ञयाजकाः ।
अग्निहोत्ररता नित्यं विष्णुधर्मपराङ्मुखाः ।
निंदंति विष्णुधर्मांश्च वेदबाह्याः सुरेश्वरि १४।
कुर्वंति शांतिं विबुधाः प्रहृष्टाः क्षेमं प्रकुर्वंति पितामहाद्याः ।
स्वस्ति प्रयच्छंति मुनींद्रमुख्या गोविंदभक्तिं वहतां नराणाम् १५।
शुभा ग्रहा भूतपिशाचयुक्ता ब्रह्मादयो देवगणाः प्रसन्नाः ।
लक्ष्मी स्थिरा तिष्ठति मंदिरे च गोविंदभक्तिं वहतां नराणाम् १६।
गंगा गया नैमिषपुष्कराणि काशी प्रयागं कुरुजांगलानि ।
तिष्ठंति देहे कृतभक्तिपूर्वं गोविंदभक्तिं वहतां नराणाम् १७।
एवमाराधयेद्विद्वान्भगवंतं श्रिया सह ।
कृतकृत्यो भवेन्नित्यं स विप्रो नात्र संशयः १८।
क्षत्रियो वाथ वैश्यो वा शूद्रो वासुरसत्तमे ।
भक्तिं कुर्वन्विशेषेण मुक्तिं याति स वै नरः १९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे विष्णु।
भक्तिमहिमावर्णनंनाम त्रिंशाधिकशततमोऽध्यायः १३०।