पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १७२

विकिस्रोतः तः
← अध्यायः १७१ पद्मपुराणम्
अध्यायः १७२
वेदव्यासः
अध्यायः १७३ →

महादेव उवाच।
तस्मात्तीर्थात्परं तीर्थं नीलकंठेति विश्रुतम् ।
तस्य वै दर्शनं कार्यं मुक्तिं चैवेच्छता सदा १।
बिल्वपत्रैस्तथा धूपैर्दीपैर्वाथ सुरेश्वरि ।
वांछितं लभते मर्त्यो नीलकंठस्य दर्शनात् २।
उपवासपरो देवि निर्जनेसौ स्थितः सदा ।
यद्यद्वांच्छंति ये लोकास्तेषां तत्तद्ददाति च ३।
कलौ सा तु महादेवि विख्याता काश्यपीति वै ४।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तर।
खंडे नीलकंठमाहात्म्यंनाम द्विसप्तत्यधिकशततमोऽध्यायः १७२।