पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १७३

विकिस्रोतः तः
← अध्यायः १७२ पद्मपुराणम्
अध्यायः १७३
वेदव्यासः
अध्यायः १७४ →

महादेव उवाच।
दुर्गया संगता यत्र देवि साभ्रमती नदी ।
संगमः सागरेणाथ स्नानं तत्र समाचरेत् १।
वीतदोषा भविष्यंति कलौ वै नात्र संशयः ।
तत्र श्राद्धं प्रकर्त्तव्यं दुर्गया संगमे तथा २।
तत्र गत्वा विशेषेण ब्राह्मणानां च भोजनम् ।
दानं गोमहिषीणां च कर्तव्यं विधिपूर्वकम् ३।
इयं धन्या धन्यतमा पवित्रा पापनाशिनी ।
यां दृष्ट्वा चापि भो देवि मुच्यते पातकैर्नरः ४।
यथा गंगा तथा चेयं ज्ञेया साभ्रमती नदी ।
कलौ देवि विशेषेण बहुकालफलप्रदा ५।
यदि चेच्छतशो जिह्वा मुखे वै मामके सति ।
तस्या अपि न शक्नोमि गुणान्वक्तुं कदाचन ६।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे साभ्रमतीमाहात्म्यंनाम त्रिसप्तत्यधिकशततमोऽध्यायः १७३।