पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १७४
← अध्यायः १७३ | पद्मपुराणम् अध्यायः १७४ वेदव्यासः |
अध्यायः १७५ → |
महादेव उवाच।
शृणु देवि प्रवक्ष्यामि व्रतं त्रैलोक्यदुर्लभम् ।
यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादिपातकात् १।
उत्पतिः स्वप्रकाशस्य भक्तानां सुखहेतवे ।
तिथिर्वापि समासो वै संजातः पुण्यकारकः २।
यस्य नाम गृणन्देवि मुक्तिं लभति शाश्वतीम् ।
स एव परमात्मा च कारणानां च कारणम् ३।
विश्वात्मा विश्वरूपी च सर्वेषां भगवान्प्रभुः ।
द्वादशार्का धृता येन नृसिंहेन महात्मना ।
स एव प्रकटीजातो भक्तानां शमभीप्सया ४।
पार्वत्युवाच।
अवतारा ह्यसंख्याताः कथिताः सुरसत्तम ।
नृसिंहाख्यं परं धाम वद विश्वेश्वर प्रभो ।
येन विज्ञानमात्रेण सुख लोकमवाप्नुयात् ५।
महादेव उवाच।
हिरण्यकशिपुं हत्वा देवदेवं जगद्गुरुम् ।
सुखासीनं तदुत्संगे स्थितो वचनमब्रवीत् ६।
प्रह्लादो ज्ञानिनां श्रेष्ठः पितॄहंतारमुत्तमम् ७।
प्रह्लाद उवाच।
नमस्ते भगवन्विष्णो नृसिंहाद्भुतरूपिणे ।
त्वद्भक्तोहं सुरश्रेष्ठ त्वां पृच्छामि च तत्वतः ८।
स्वामिंस्त्वयि ममाभिन्ना भक्तिर्जाता ह्यनेकधा ।
कथं तेऽहं प्रियो जातः कारणं वद मे प्रभो ९।
नृसिंह उवाच।
कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः ।
भक्तेर्यत्कारणं वत्स प्रियत्वस्य च यत्पुनः १०।
पुरा कस्य द्विजस्यापि जातस्त्वं नाप्यधीतवान् ।
नाम्ना तु वसुदेवो हि वेश्यायामति लंपटः ११।
तस्मिन्जन्मनि नैवं च चकार सुकृतं कियत् ।
भुक्त्वा मधु घृतं चैव वेश्यासंगमलालसः १२।
मद्व्रतस्य प्रभावेन भक्तिर्जाता तवानघ ।
प्रह्लादोवाच।
विस्तराद्वद देवेश कस्य पुत्रस्य किं व्रतम् १३।
वेश्यायां वर्तमानेन कथंचिद्धि कृतं मया ।
ममोपरि कृपां कृत्वा सर्वं कथय सांप्रतम् १४।
नृसिंह उवाच।
सृष्ट्यर्थं तु पुरा ब्रह्मा चक्रे ह्येतदनुत्तमम् ।
मद्व्रतस्य प्रभावेन निर्मितं सचराचरम् १५।
ईश्वरेण व्रतं चीर्णं वधार्थं त्रिपुरस्यच ।
व्रतस्यास्यप्रभावेन त्रिपुरस्तु निपातितः १६।
अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैः ।
राजभिश्च महाप्राज्ञैर्विहितं व्रतमुत्तमम् १७।
व्रतस्यास्य प्रभावेन सर्वे सिद्धिमवाप्नुयुः ।
मम ते वै प्रिया जाता दिवि भोगाननेकशः १८।
भुक्त्वा मयि विलीनास्तु प्रह्लाद त्वं विशस्व माम् ।
कार्यार्थमवतारस्ते मच्छरीरत्पृथग्यतः १९।
न तेषां पुनरावृत्तिर्महाकल्पशतैरपि ।
दरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी २०।
ततः कामी लभेत्कामं राज्यार्थी राज्यमुत्तमम् ।
आयुष्कामो लभेदायुर्यादृशं च शिवस्य हि २१।
अवैधव्यकरं स्त्रीणां पुत्रदं भाग्यदं तथा ।
धनधान्यकरं चैव तथाशोकविनाशनम् २२।
स्त्रियो वा पुरुषा वापि कुर्वंति व्रतमुत्तमम् ।
तेभ्यो ददाम्यहं सौख्यं भुक्ति मुक्ति फलं तथा २३।
बहुनोक्तेन किं वत्स व्रतस्यास्य फलस्य हि ।
मद्व्रतस्य फलं वक्तुं नाहं शक्तो न शंकरः २४।
प्रह्लाद उवाच।
भगवंस्त्वत्प्रसादेन श्रुतं व्रतमनुत्तमम् ।
व्रतस्यास्य फलं श्रोतुं त्वयि मे भक्ति कारणम् २५।
अधुना श्रोतुमिच्छामि व्रतस्यास्य विधिं परम् ।
कस्मिन्मासे भवेदेव कस्मिंश्चिद्वासरे प्रभो २६।
एतद्विस्तरतो देव वक्तुमर्हसि सांप्रतम् ।
विधिना येन वै स्वामिन्समग्रफलभाग्भवेत् २७।
नृसिंह उवाच।
प्रह्लाद वत्स भद्रं ते शृणुष्वैकमना व्रतम् ।
वैशाखेसित पक्षे तु चतुर्दश्यां समाचरेत् २८।
ममाविर्भावसंयुक्तं मम संतुष्टिकारणम् ।
शृणु पुत्र ममोत्पत्तिं भक्तानां सुखहेतवे २९।
पश्चिमायां दिशायां च संजातं कारणांतरात् ।
मौलिस्तानमिदं क्षेत्रं पवित्रं पापनाशनम् ३०।
तस्मिन्क्षेत्रे तु विख्यातो ब्राह्मणो वेदपारगः ।
हारीत इति नाम्ना च ज्ञानध्यानपरायणः ३१।
तस्य स्त्री तु महापुण्या सतीरूपा सदा प्रभो ।
लीलावती तु नाम्ना च भर्तुर्वशपरा सदा ३२।
ताभ्यां तपो महत्तप्तं कालं बहुतरं सुत ।
एकविंशयुगाश्चैव यातास्तत्र न संशयः ।
तस्मिन्क्षेत्रे तु वै ताभ्यां प्रत्यक्षो वाभवत्तदा ३३।
नृसिंह उवाच।
यं यं वांछयसे ब्रह्मंस्तं ददामि न संशयः ।
ताभ्यामुक्तं तदा तस्मै दीयते चेद्वरो मम ३४।
त्वादृशो मम पुत्रस्तु ह्यधुनैव भवत्विति ।
मयोक्तं तु तदा वत्स पुत्रोऽहं ते न संशयः ३५।
विश्वकर्मा ह्यहं साक्षात्परमात्मा परात्परः ।
उदरेऽहं न वत्स्यामि यतोऽहं वै सनातनः ३६।
हारीतेन तदा चोक्तं भवत्वेवं न संशयः ।
तदाप्रभृति वै क्षेत्रे स्थितोऽहं भक्तकारणात् ३७।
अत्रागत्य प्रकुर्वीत दर्शनं भक्तसत्तमः ।
तस्याहं सकलां बाधां नाशयामि निरंतरम् ३८।
एतस्मात्कारणाच्चैव व्रतं वै विधिपूर्वकम् ।
ये कुर्वंति नरश्रेष्ठा न तेषां विद्यते भयम् ३९।
बालरूपमयं ध्यात्वा ताभ्यां सह विशेषतः ।
पूजनं कुरुते रात्रौ स वै नारायणो भवेत् ४०।
चतुर्भुजं महादंष्ट्रं कालरूपं दुरासदम् ।
सूर्यकोटिप्रतीकाशं यमकोटिदुरासदम् ।
सिंहवच्च मुखं यस्य नरवच्चांगसंयुतम् ४१।
श्रीनृसिंहं दिव्यसिंहं कालरूपं भजेत्सदा ।
एवं ज्ञात्वा विशेषेण यः स्थानं मामकं व्रजेत् ४२।
व्रतं पवित्रं परमं श्रीकदंब प्रदं महत् ।
अंते मुक्तिप्रदं चैव भक्तानां च न संशयः ४३।
येन वै क्रियमाणेन सहस्रद्वादशी फलम् ।
स्वाती नक्षत्र संयोगे शनिवारे तु मद्व्रतम् ४४।
सिद्धियोगस्य संयोगे वणिजे करणे तथा ।
योगैः सर्वैश्च संयोगं हत्याकोटि विनाशनम् ४५।
एतदन्यतरैर्योगे मद्दिनं पापनाशनम् ।
विज्ञाय मद्दिनं यस्तु लंघयेत्स तु पापकृत् ४६।
अकर्त्ता नरकं याति यावच्चंद्र दिवाकरौ ।
प्राप्ते मम दिने वत्स दंतधावनपूर्वकम् ४७।
ममाग्रे व्रतसंकल्पं मद्भक्तो विजितेंद्रियः ।
अद्याहं ते विधास्यामि व्रतं निर्विघ्नतां नय ४८।
व्रतस्थेन न कर्त्तव्यं दुष्टसंभाषणादिकम् ।
ततो मध्याह्नसमये नद्यादौ विमले जले ४९।
गृहे वा देवखाते वा तडागे वाथ शोभने ।
वैदिकेन तु मंत्रेण स्नानं कुर्याद्विचक्षणः 6.174.५०।
मृत्तिका गोमयेनैव तथा धात्रीफलेन च ।
तिलैश्च विधिवत्स्नायात्सर्वपापौघ शांतये ५१।
परिधाय शुभे वस्त्रे नित्यकर्म समारभेत् ।
ततो गृहं विलिप्याथ कुर्यादष्टदलं शुभम् ५२।
कलशं तत्र संस्थाप्य ताम्रंत्रसमन्वितम् ।
तस्योपरि न्यसेत्पात्रं तंडुलैः परिपूरितम् ५३।
हैमीं च तत्र मन्मूर्ति स्थाप्य लक्ष्म्या समन्विताम् ।
निर्माय शक्त्या स्वर्णेन स्नाप्य पंचामृतैस्ततः ५४।
ततो ब्राह्मणमाहूय आचार्यं नातिलोलुपम् ।
शास्त्रज्ञमग्रतः कृत्वा ततो देवं समर्चयेत् ५५।
मंडपं कारयेत्तत्र पुष्पस्तबक शोभितम् ।
ऋतुकालोद्भवैः पुष्पैः पूज्योऽहं च यथाविधि ५६।
उपचारैः षोडशभिर्मंत्रैर्नियमैश्च यः ।
ततः पौराणिकैर्मंत्रैः पूजनीयो विशेषतः ५७।
चंदनं च सकर्पूरं घनकुंकुममिश्रितम् ।
कालोद्भवानि पुष्पाणि तथा तुलसीदलानि च ५८।
श्रीनृसिंहाय यो दद्यात्स मुक्तो नात्र संशयः ।
कृष्णागुरुमयं धूपं सर्वदा हरिवल्लभम् ५९।
हरये गुरवे दद्यात्सर्वकामार्थसिद्धये ।
महादीपः प्रकर्त्तव्यो ह्यज्ञानध्वांत नाशनः ।
महानीराजनं कुर्याद्घंटानाद पुरःसरम् ६०।
नैवेद्यं शर्करां चापि भक्ष्यभौज्यसमन्वितम् ।
ददामि ते रमाकांत सर्वपापक्षयं कुरु ६१।
नैवेद्य मंत्र।
नृसिंहाच्युत देवेश तव जन्मदिने शुभे ।
उपवासं करिष्यामि सर्वभोगविवर्जितः ६२।
तेन प्रीतो भव स्वामिन्पापं जन्म निराकुरु ।
रात्रौ जागरणं कार्यं गीतवादित्र निःस्वनैः ६३।
पुराणपठनं नित्यं श्रीनृसिंकथाश्रयम् ।
ततः प्रभातसमये स्नानं कृत्वा ह्यनंतरम् ६४।
पूर्वोक्तेन विधानेन पूजयेन्मां प्रतर्पयन् ।
वैष्णवं कारयेच्छ्राद्धं मदग्रे स्वस्थमानसः ६५।
ततो दानानि देयानि वक्ष्यमाणानि यान्युत ।
पात्रेभ्यः स द्विजेभ्यो हि लोकद्वय जिगीषया ६६।
सहस्वर्णमयो देवो मम संतोषकारकः ।
गोभूतिलहिरण्यादि प्रददाति द्विजातये ६७।
शय्या सतूलिका देया सप्तधान्यसमन्विता ।
अन्यानि च यथाशक्त्या देयानि निजशक्तितः ६८।
वित्तशाठ्यं न कुर्वीत यथोक्तफलकांक्षया ।
ब्राह्मणान्भोजयेत्पश्चात्तेभ्यो दद्यात्सुदक्षिणाम् ६९।
निर्धनैरपि कर्त्तव्यं देयं शक्त्यनुसारतः ।
सर्वेषामेव वर्णानामधिकारोऽस्ति मद्व्रते ।
मद्भक्तैस्तु विशेषेण कर्त्तव्यं मत्परायणैः ७०।
ततः प्रार्थना मंत्रः ।
मद्वंशे येन राजा ता ये भविष्याश्च मानवाः ।
तानुद्धरस्व देवेश दुःखदाद्भवसागरात् ७१।
पातकार्णवमग्नस्य व्याधिभिश्चांबुचारिभिः ।
जीवैस्तु परिभूतस्य महादुःखगतस्य मे ७२।
करावलंबनं देहि शेषशायी जगत्पते ।
व्रतेनानेन देवेश भुक्तिमुक्तिप्रदो भव ७३।
एवं प्रार्थ्य ततो देवं विसृज्य च यथाविधि ।
उपहारादिकं सर्वे आचार्याय निवेदयेत् ७४।
दक्षिणाभिश्च संतोष्या ब्राह्मणांश्च विसर्जयेत् ।
मम ध्यान समायुक्तो भुंजीत सह बंधुभिः ७५।
अकिंचनोपि नियतमुपोष्यति चतुर्दशीम् ।
सप्त जन्म कृतात्पापान्मुच्यते नात्र संशयः ७६।
य इदं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम् ।
तस्य श्रवणमात्रेण ब्रह्महत्यां व्यपोहति ७७।
पवित्रं परमं गुह्यं कीर्तयेद्यस्तु मानवः ।
सर्वकामानवाप्नोति व्रतस्यास्य फलं सदा ७८।
य इदं कुरुते शक्त्या काले मध्याह्न संज्ञके ।
लीलावत्या सह ऋषिं श्रीनृसिंह प्रसादतः ७९।
पूजयेत्परया भक्त्या मुक्तिं प्राप्नोति शाश्वतीम् ।
तस्मिन्क्षेत्रे तु यो गत्वा श्रीनृसिंहं प्रपूजयेत् ८०।
वांच्छितं लभते नित्यं श्रीनृसिंह प्रसादतः ।
श्रीनृसिंह महद्रूप कालकोटिदुरासद ८१।
भैरवेश हरार्तिघ्न बालरूप नमोस्तु ते ।
श्रीनृसिंहाय रूपाय बालाय बालरूपिणे ८२।
व्यापकाय सुनंदाय स्वात्मप्रकट रूपिणे ।
सर्वजीवात्मकायैव विश्वेशाय स्वरात्मने ८३।
मार्तंड मंडलस्थाय दयासिंधो नमोस्तु ते ।
चतुर्विंशस्वरूपाय कालरुद्राग्निरूपिणे ८४।
जगदेकस्वरूपाय नृसिंहाय नमोस्तु ते ।
भाले दधार यो देवो नृसिंहो वीरभद्र जित् ८५।
द्वादशादित्यबिंबानि सुतप्तानि प्रमाणतः ।
तत्र सिंधु महापुण्या नदी रम्या विशेषतः ८६।
तस्याः समीपे नगरं वर्त्ततेऽद्यापि सुंदरि ।
मौलिस्तानेति विख्यातं सर्वदा देवनिर्मितम् ८७।
वसतिर्वर्त्तते तत्र हारीतस्य महात्मनः ।
लीलावती तु तत्रैव तिष्ठते नात्र संशयः ८८।
प्रतिशब्दो भवेत्तत्र सिंधुनद्याः समीपतः ।
कलौ युगे तु संप्राप्ते म्लेच्छा वै पापचारिणः ८९।
निवसंति तु तत्रैव बहवो नात्र संशयः ।
नृसिंहजन्मनि यथा शब्दोऽभूदद्भुतः परः ९०।
नृसिंहेति नृसिंहेति य उच्चैर्नदते नरः ।
तादृशः प्रतिशब्दो वै जायते नगनंदिनि ९१।
ब्रह्महा हेमहारी वा सुरापो गुरुतल्पगः ।
सिंधौ गत्वा विशेषेण स्नानं कुर्वंति ये जनाः ९२।
मुच्यते नात्र संदेहः श्रीनृसिंह प्रसादतः ।
दशारात्रिप्रमाणेन मानवा ये वसंति हि ९३।
ते ज्ञेयाः पुण्यकर्माणो नासत्यं मामकं वचः ।
निवसंति कलौ तत्र वर्णा ये द्विजपूर्वकाः ९४।
म्लेच्छवत्तेऽपि विज्ञेया वेदबाह्याः सुरोत्तमैः ।
मांसं खादंति ते तत्र मद्यपानं पपुः सदा ९५।
अतो ह्यधर्मरूपास्ते पापिष्ठा नात्र संशयः ।
संध्याहीना यथा विप्रा वेदबाह्यास्तथैव च ९६।
निवसंति पुरे तस्मिन्पश्चिमायां सुरेश्वरि ।
एकमेव परं तीर्थं नृसिंहाख्यं सुविस्तरम् ।
यं श्रुत्वा मुच्यते पापान्नरः सद्यो न संशयः ९७।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे नृसिंहोत्पत्तिर्नाम चतुःसप्तत्यधिकशततमोऽध्यायः १७४।