पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २५४

विकिस्रोतः तः
← अध्यायः २५३ पद्मपुराणम्
अध्यायः २५४
वेदव्यासः
अध्यायः २५५ →

वसिष्ठ उवाच-
एवमुक्ता तु सा देवि पतिना शूलपाणिना ।
प्रणिपत्य महात्मानमुवाच प्रांजलिस्तदा १।
पार्वत्युवाच-
साधूक्तं हि त्वया नाथ वैष्णवं धर्ममुत्तमम् ।
गुह्याद्गुह्यतमं विष्णोः स्वरूपं परमात्मनः २।
धन्यास्मि कृतकृत्यास्मि सर्वदेवनमस्कृत ।
तव प्रसादाद्देवेशमर्चयामि सनातनम् ३।
वसिष्ठउवाच-
ततस्तद्वचनं श्रुत्वा स भवस्त्रिपुरांतकः ।
समाश्लिष्यावदद्देवीं प्रहृष्टेनांतरात्मनाः ४।
रुद्र उवाच-
साधुसाधु महादेवि साधुसाधु वरानने ।
अर्चयस्व हृषीकेशं लक्ष्मीभर्त्तारमच्युतम् ५।
कृतकृत्योऽस्म्यहं भद्रे वैष्णव्या भार्यया त्वया ।
गुरुणा तव चार्वंगि वामदेवेन धीमता ६।
अनुज्ञातार्चयस्वेशं पुराणं पुरुषोत्तमम् ।
गुरूपदेशमार्गेण पूजयित्वैव केशवम् ।
प्राप्नोति वाछितं सर्वं नान्यथा भूधरात्मजे ७।
वसिष्ठ उवाच-
एवमुक्ता तदा देवि वामदेवांतिकं नृप ।
जगाम सहसा हृष्टा विष्णुपूजनलालसा ८।
समेत्य तं गुरुं देवि पूजयित्वा प्रणम्य च ।
विनीता प्रांजलिर्भूत्वा उवाच मुनिसत्तमम् ९।
पार्वत्युवाच-
भगवंस्त्वत्प्रसादेन सम्यगाराधनं हरेः ।
करिष्यामि द्विजश्रेष्ठ त्वमनुज्ञातुमर्हसि १०।
वसिष्ठ उवाच-
इत्युक्तस्तु तया देव्या वामदेवो महामुनिः ।
तस्यै मंत्रवरं श्रेष्ठं ददौ स विधिना गुरुः ११।
नाम्नां सहस्रं विष्णोश्च प्रोक्तवान्मुनिसत्तमः ।
निवेदयित्वा पूजाया विधानमपि देशिकः ।
उवाच परमप्रीत्या पार्वतीं संशितव्रताम् १२।
वामदेव उवाच-
अर्चयित्वा हृषीकेशं प्रातर्नित्यं वरानने ।
सहस्रनामपठनं कुरुष्व तदनंतरम् १३।
वसिष्ठ उवाच-
द्वत्युक्ता तेन गुरुणा प्रहृष्टेनांतरात्मना ।
पूजयित्वा नमस्कृत्य पुनरायात्स्वमालयम् १४।
शिक्षिता गुरुणा तेन वामदेवेन पार्वती ।
ततः कतिपयाहस्तु द्वादश्यां वृषभध्वजः १५।
कैलासशिखरे रम्ये विष्णुमाराध्य शंकरः ।
उपविष्टस्ततो भोक्तुं पार्वतीं शंकरोऽब्रवीत् १६।
शंकर उवाच-
पार्वत्ये हिमया सार्द्धं भोक्तुं भुवनवंदिते ।
वसिष्ठ उवाच-
तमाह पार्वती देवी जप्त्वा नामसहस्रकम् १७।
ततो भोक्ष्याम्यहं देव भुज्यतां भवता प्रभो ।
ततस्तां पार्वतीं प्राह प्रहसन्परमेश्वरः १८।
शंकर उवाच-
धन्यासि कृतकृत्यासि विष्णुभक्तासि पार्वति ।
दुर्लभा वैष्णवी भक्तिर्भागधेयं विनेश्वरि १९।
रामरामेति रामेति रमे रामे मनोरमे ।
सहस्रनामतत्तुल्यं रामनाम वरानने २०।
रकारादीनि नामानि शृण्वतो मम पार्वति ।
मनः प्रसन्नतां याति रामनामाभिशंकया २१।
रामेत्युक्त्वा महादेवि भुंक्ष्व सार्धं मयाधुना ।
वसिष्ठ उवाच-
ततो रामेति नामोक्त्वा सह भुंक्त्वाऽथ पार्वती २२।
रामेत्युक्ता महादेवी शंभुना सह संस्थिता ।
पप्रच्छ शंकरं देवं प्रीतिप्रणवमानसा २३।
पार्वत्युवाच-
सहस्रनामभिस्तुल्यं रामनाम त्वयोदितम् ।
तस्यापराणि नामानि संति चेद्रावणद्विषः ।
कथ्यतां मम देवेश तत्र मे भक्तिरुत्थिता २४।
श्रीमहादेव उवाच-
शृणु नामानि वक्ष्यामि रामचंद्रस्य पार्वति ।
लौकिका वैदिकाः शब्दाः ये केचित्संति पार्वति २५।
नामानि रामचंद्रस्य सहस्रं तेषु चाधिकम् ।
तेषु चात्यंतमुख्यं हि नाम्नामष्टोत्तरं शतम् २६।
विष्णोरेकैकनामैव सर्ववेदाधिकं मतम् ।
तादृङ्नामसहस्राणि रामनामसमानि च २७।
यत्फलं सर्ववेदानां मंत्राणां जपतः प्रिये ।
तत्फलं कोटिगुणितं रामनाम्नैव लभ्यते २८।
नामानि शृणु रामस्य मुख्यानि शुभदर्शने ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि ते प्रिये २९।
ॐ श्रीरामो रामचंद्रश्च रामभद्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान्राजेंद्रो रघुपुंगवः ३०।
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दांतः शरण्य त्राणतत्परः ३१।
वालिप्रमथनो वाग्मी सत्यवाक्सत्यविक्रमः ।
सत्यव्रतो व्रतफलः सदा हनुमदाश्रयः ३२।
कौशलेयः खरध्वंसी विराधवधपंडितः ।
विभीषणपरित्राता दशग्रीवशिरोहरः ३३।
सप्ततालप्रभेत्ता च हरकोदंड खंडनः ।
जामदग्नि महादर्प्पदलनस्ताडकांतकृत् ३४।
वेदांतपारो वेदात्मा भवबंधैकभेषजम् ।
दूषणत्रिशिरोरिश्च त्रिमूर्त्तिस्त्रिगुणस्त्रयी ३५।
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्त्तनः ।
त्रिलोकरक्षको धन्वी दंडकारण्यवासकृत् ३६।
अहल्यापावनश्चैव पितृभक्तो वरप्रदः ।
जितेंद्रियो जितक्रोधो जितलोभो जगद्गुरुः ३७।
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।
जयंतत्राणवरदः सुमित्रापुत्रसेवितः ३८।
सर्वदेवाधिदेवश्च मृतवानरजीवनः ।
मायामारीचहंता च महाभागो महाभुजः ३९।
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसत्तमः ।
महायोगी महोदारः सुग्रीवस्थिरराज्यदः ४०।
सर्वपुण्याधिकफलः स्मृतः सर्वाघनाशनः ।
आदिपुरुषो महापुरुषः परमः पुरुषस्तथा ४१।
पुण्योदयो महासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मितभाषी पूर्वभाषी च राघवः ४२।
अनंतगुणगंभीरो धीरो दांतगुणोत्तरः ।
मायामानुषचारित्रो महादेवाधिपूजितः ४३।
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः ।
श्यामांगः सुंदरः शूरः पीतवासा धनुर्द्धरः ४४।
सर्वयज्ञाधिपो यज्ञो जरामरणवर्जितः ।
शिवलिंगप्रतिष्ठाता सर्वाद्यगुणवर्जितः ४५।
परमात्मा परब्रह्म सच्चिदानंदविग्रहः ।
परंज्योतिः परंधाम पराकाशः परात्परः ४६।
परेशः पारगः पारः सर्वभूतात्मकः शिवः ।
इति श्रीरामचन्द्रस्य नाम्नामष्टोत्तरं शतम् ४७।
गुह्याद्गुह्यतरं देवि तव स्नेहात्प्रकीर्तितम् ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ४८।
सर्वैः प्रमुच्यते पापैः कल्पकोटिशतोद्भवैः ।
जलानि स्थलतां यांति शत्रवो यांति मित्रताम् ४९।
राजानो दासतां यांति वह्नयो यांति सौम्यताम् ।
आनुकूल्यं च भूतानि स्थैर्यं यांति चलाः श्रियः ५० 6.254.50।
अनुग्रहं ग्रहा यांति शांतिमायांत्युपद्रवाः ।
पठतो भक्तिभावेन नरस्य गिरिसंभवे ५१।
पठेत्परमया भक्त्या तस्य वश्यं जगत्त्रयम् ।
यंयं कामं प्रकुरुते तंतमाप्नोति कीर्त्तनात् ५२।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
वैकुंठे मोदते नित्यं दशपूर्वैर्दशापरैः ५३।
रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् ।
स्तुवंति नामभिर्द्दिव्यैर्न ते संसारिणो जनाः ५४।
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ५५।
इमं मंत्रं महादेवि जपन्नेव दिवानिशम् ।
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ५६।
इति ते रामचंद्रस्य माहात्म्यं वेदसंमितम् ।
कथितं वै मया सुभ्रूस्तव प्रीत्या शुभाह्वयम् ५७।
वसिष्ठ उवाच-
तच्छ्रत्वा शंकरेणोक्तं माहात्म्यं परमात्मनः ।
प्रहर्षमतुलं लेभे आनंदाश्रुजलाप्लुता ५८।
प्रणम्य प्राह देवेशं भर्तारं वृषभध्वजम् ।
पार्वत्युवाच-
अहो माहात्म्यमतुलं रामस्य परमात्मनः ।
श्रोत्रतृप्तिर्हि मे न स्यात्कल्पायुतशतैरपि ५९।
धन्याहं कृतकृत्यास्मि सर्वमुक्तं त्वयानघ ।
त्वत्प्रसादाद्धरेर्भक्तिर्जन्मजन्मनि चास्तु मे ६०।
वसिष्ठ उवाच-
एवमुक्त्वा स्वभर्तारं गौरी भागवतोत्तमा ।
रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ६१।
इममेव जपन्मंत्रं सर्वावस्थासु पार्वती ।
उवास च सुखेनैव कैलासे पतिना सह ६२।
एतत्ते सर्वमाख्यातं गुह्याद्गुह्यतमं नृप ।
रुद्रप्रोक्तानि शास्त्राणि तामसान्येव पार्थिव ६३।
संमोहनार्थं लोकानां प्रोक्तवान्वृषभध्वजः ।
रहसि प्रोक्तवान्देव्या इदमेकं हरः प्रभुः ६४।
यथार्थमर्थं गुह्यं च सारं मंत्रस्य भूपते ।
देव्या प्रीत्यै महादेवः कथयामास तत्परः ६५।
उमामहेश्वरं राजन्संवादमिममद्भुतम् ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ६६।
स सर्ववंद्यः सर्वज्ञो महाभागवतो भवेत् ।
सर्वधर्मविनिर्मुक्तः प्राप्नोति परमं पदम् ६७।
धन्यः खलु भवान्लोके पार्थिवेंद्र महाबल ।
त्वदन्वये हरिः श्रीमान्पुराणः पुरुषोत्तमः ६८।
उत्पत्स्यते दाशरथिः सर्वलोकहिताय वै ।
तस्मादिक्ष्वाकवः पूज्याः सुराणामपि पार्थिव ६९।
येषां जातो हि भगवान्रामो राजीवलोचनः ।
इति श्रीपाद्मे महापुराणे पंचपचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे रामचंद्राष्टोत्तरशतनामकथनं नाम चतुःपंचाशदधिक द्विशततमोऽध्यायः २५४ ।