पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २५३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५२ पद्मपुराणम्
अध्यायः २५३
वेदव्यासः
अध्यायः २५४ →

श्रीपार्वत्युवाच-
भगवन्सर्वमाख्यातं वैभवावस्थितं हरेः
एतस्मिन्रामकृष्णाभ्यां चरित्रमति विस्मितम् १
अहो रामस्यचरितं कृष्णस्य च महात्मनः
शृण्वत्या मम देवेश कल्पांतरशतैरपि २
तृप्तिं नैवेति भूतेश चेतो हरिकथामृतम्
अधुना श्रोतुमिच्छामि विष्णोर्माहात्म्यमुत्तमम्
तत्पूजनविधिं देव श्रोतुमिच्छाम्यहं तथा ३
श्रीरुद्र उवाच-
शृणु देवि प्रवक्ष्यामि हरेश्च सुमहात्मनः
स्थापनं च स्वयं व्यक्तं द्विविधं तत्प्रकीर्तितम् ४
शिला मृद्दारुलोहाद्यैः कृत्वा प्रतिकृतिं हरेः
श्रौतस्मार्तागमप्रोक्तक्रियासंस्थापनं हि यत् ५
तत्स्थापनमिति प्रोक्तं स्वयं व्यक्तं हि मे शृणु
यस्मिन्संनिहितो विष्णुः स्वयमेव नृणां भुवि ६
पाषाणदार्वोरात्मेशः स्वयं व्यक्तं हि तत्स्मृतम्
स्वयं व्यक्तं स्थापितं वा पूजयेन्मधुसूदनम् ७
देवतानां मर्हषीणामर्चनार्थे सनातनः
स्वयमेव जगन्नाथः सान्निध्यं याति केशवः ८
यस्य यद्विग्रहे भोग्यं तदेवाविरभूद्भुवि
तदेव पूजयेन्नित्यं तस्मिन्नेव रमेत्सदा ९
श्रीरङ्गशायी देवेशो विधिनार्च्यः सुरोत्तमः
स एवेक्ष्वाकुनाथानां तपसाविरभूद्भुवि १०
ममापि काश्यां संपूज्यो माधवः कलुषापहः
यत्र यत्र गृहे रम्ये स्वयं व्यक्तः सनातनः ११
तत्रतत्र समागम्य रमेऽहं संव्यवस्थितः
नाष्टांगयोगे यज्ञेशस्त्वर्चायां विंदते नृणाम् १२
चक्षुषोर्विषयं प्राप्य ददाति वरमीप्सितम्
सर्वावस्थासु सौलभ्यमर्चायां लभ्यते जनैः १३
अज्ञानामपि सान्निध्यं सर्वदा पृथिवीतले
जंबूद्वीपे महापुण्ये वर्षे वै भारते शुभे १४
अर्चायां संनिधौ विष्णुर्नेतरेषु कदाचन
तत्तस्माद्भारते वर्षे मुनिभिस्त्रिदशैरपि १५
सेवितः सततं देवि तपोयज्ञक्रियादिभिः
भारतेऽस्मिन्महावर्षे नित्यं संनिहितो हरिः १६
ऐंद्रद्युम्ने तथा कौर्मे सिंहाद्रौ करवीरके
काश्यां प्रयागे सौम्ये च शालग्रामाचले तथा १७
द्वारवत्यां नैमिषे च तथा बदरिकाश्रमे
कृतशौचे हरेत्पापं पौंडरीके च दंडके १८
माथुरे वेङ्कटाद्रौ च श्वेताद्रौ गरुडाचले
कांच्यामनंतशयने श्रींरगे वासवाचले १९
नारायणाचले सौम्ये वाराहे वामनाश्रमे
एवमाद्याः स्वयं व्यक्ताः सर्वकामफलप्रदाः २०
स्वयमेव हि सान्निध्यं यस्मिन्याति जनार्दनः
तस्मिन्नेव स्वयं व्यंक्तं वदंति मुनयः शुभाः २१
महाभागवतश्रेष्ठो विधिना स्थाप्य केशवम्
मंत्रेण कुर्यात्सांनिध्यं स्थापनं तद्विशिष्यते २२
तस्मिन्संपूजयेद्देवं ग्रामेषु च गृहेषु च
शालग्रामशिलायां तु गृहार्चा सद्भिरिष्यते २३
अर्चनं मंत्रपठनं यागयोगो महात्मनः
नामसंकीर्तनं सेवा तच्चिह्नैरंकनं तथा २४
तदीयाराधनं च स्यान्नवधा भिद्यते शुभे
तत्तत्कर्मविधानं च विप्रस्य सततं स्मृतम् २५
महाभागवतः श्रेष्ठो ब्राह्मणो वै गुरुर्नृणाम्
सर्वेषामेवलोकानामसौ पूज्यो यथा हरिः २६
तापादिपंच संस्कारि नवेज्याकर्मकारकः
अर्थपंचकविद्विप्रो महाभागवतः स्मृतः २७
तत्तत्कर्मविधानेज्या क्षत्त्रियस्य विधीयते
तच्चिह्नैरंकने सेवा तदीयानां च पूजनम् २८
मंत्रवर्णस्य जपनं नामसंकीर्तनं हरेः
वंदनं च विशां प्रोक्तं षट्कर्मेज्याविधानतः २९
नामसंकीर्तनं सेवा पूजनं वंदनं तथा
अर्चनं च तदीयानां पंचेज्या शूद्रजन्मनः ३०
साधारणेन सर्वेषां मानसेज्या नृणां प्रिये
स्वाधिकारानुरूपं च कार्या चेज्या जगत्पतेः ३१
अनन्यदेवताभक्तैरनन्यफलसाधकैः
वेदविद्ब्रह्मतत्त्वज्ञैर्वीतरागैर्मुमुक्षुभिः ३२
गुरुभक्तिसमायुक्तैः सुप्रसन्नैः सुसाधुभिः
ब्राह्मणैरितरैश्चापि पूजनीयो हरिः सदा ३३
यथोचिता च वर्णस्य कार्या इज्या हरेर्नृणाम्
वर्णाश्रमानुरूपं च कर्त्तव्यं वैष्णवैः शुभैः ३४
श्रुतिस्मृत्युदितं सम्यङ्नित्यमत्र समाचरेत्
श्रुतिस्मृत्युक्तकर्माणि नातिक्रामेत बुद्धिमान् ३५
श्रुतिस्मृत्युक्तमाचारं यो न सेवेत वैष्णवः
स च पाखंडमापन्नो रौरवे नरके वसेत् ३६
तस्माद्वर्णानुरूपां वै कुर्यादिज्यां जगत्पतेः
तस्मात्स्मृत्युक्तमाचारं कुर्याद्वै मानवः सदा ३७
साधारणा हि सर्वेषां मानसेज्या शुभे नृणाम्
स्वाधिकारं निरीक्ष्यैव कर्म कुर्यादतंद्रितः ३८
शमोदमस्तपः शौचं सत्यमामिषवर्जनम्
अस्तेयमेवाहिंसा च सर्वेषां धर्मसाधनम् ३९
तस्माद्वर्णानुरूपेण पूजयेन्मधुसूदनम्
रात्रावंते समुत्थाय उपस्पृश्य यथाविधि ४०
नमस्कृत्य गुरून्स्वस्य संस्मरेदच्युतं हृदि
सहस्रनामभिर्भक्त्या कीर्तयेद्वाग्यतः शुचिः ४१
बहिर्ग्रामात्समुसृज्य मूलमंत्रं यथाविधि
शौचं कृत्वा यथान्यायमाचम्य प्रयतः शुचिः ४२
दंतधावनपूर्वं तु स्नानं कुर्याद्यथाविधि
आदाय तुलसीमूलमृदं तत्पत्रसंयुताम् ४३
मूलमंत्रेणाभिमंत्र्य गायत्र्या च शुभानने
मंत्रेणैवानुलिप्तांगः स्नायात्कृत्वाघमर्षणम् ४४
हरिपादोद्भवां गंगां तत्रावाह्य सुनिर्मले
निमज्ज्याशु जपेत्सूक्तमघमर्षणमुत्तमम् ४५
आचम्य मार्जनं कुर्यात्पौरुषोक्तक्रमादथ
पश्चादाशु निमज्ज्याथ मूलमंत्रं जपेद्बुधः ४६
अष्टाविंशतिवारं वा शतमष्टोत्तरं च वा
प्रार्थयेदभिमंत्र्याथ जलमंत्रेण वैष्णवः ४७
आचम्य तर्पयेद्देवान्नृषींश्चैव पितॄंस्तथा
निपीड्य वस्त्रमाचम्य धौतवस्त्रेण वेष्टितः ४८
विमलां मृत्तिकां रम्यामादाय द्विजसत्तमः
मंत्रेणैवाभिमंत्र्याथ ललाटादिषु वैष्णवः ४९
धारयेदूर्द्ध्वपुंड्रानि यथासंख्यमतंद्रितः
उपास्य विधिवत्संध्यां सावित्रीं च जपेद्बुधः ५० 6.253.50
संयतात्मा गृहं गत्वा पादौ प्रक्षाल्य वाग्यतः
आचम्यैकाग्रमनसा पूजामंडपमाविशेत् ५१
रम्ये शुभ्रतरे पीठे पुष्पोपचय शोभिते
तस्मिन्निवेश्य देवं तं लक्ष्मीनारायणं प्रभुम् ५२
पूजयेद्विधिना सम्यग्गंधपुष्पाक्षतादिभिः
स्थापने वा स्वयं व्यक्ते गृहार्चायां विधानतः ५३
श्रौतस्मार्तागमोक्तानामर्चनं विधिना द्विजः
कुर्याद्भक्त्या यथार्हं च विष्णोः प्रयतमानसः ५४
यथोपदिष्टं गुरुणा तथा कुर्वीत वैष्णवः
श्रौतं वैखानसं प्रोक्तं वासिष्ठं स्मार्तमुच्यते ५५
पंचरात्रविधानं च दिव्यागममितीरितम्
क्रियालोपं न कर्त्तव्यं विष्णोराराधनं परम् ५६
आवाहनासनार्घ्याद्यैर्गंधपुष्पाक्षतादिभिः
धूपैर्दीपैश्च नैवेद्यैस्तांबूलाद्यैर्नमस्कृतैः ५७
कुर्यादाराधनं विष्णोर्यथाशक्त्या मुदान्वितः
प्रत्यृचं पुरुषसूक्तेन मूलमंत्रेण वैष्णवः ५८
मंत्रद्वयेन कुर्वीत षोडशैरुपचारकैः
भूयः प्रत्युपचारेषु दद्यात्पुष्पाञ्जलिं ततः ५९
आवाहयेज्जगन्नाथं मुद्रया चैव वैष्णवः
आसनं तु यथा दद्यात्पुष्पकेण च मुद्रया ६०
दीपार्घ्याचमनं स्नानं पात्रस्थैर्विमलैर्जलैः
मंगलद्रव्यसंयुक्तैस्तुलसीदलमिश्रितैः ६१
दद्यात्प्रत्युपचारं तु मूलमंत्रद्वयेन च
सुवासितेन तैलेन कुर्यादभ्यंजनं ततः ६२
कस्तूर्याचंदेनेनापि कुर्यादुद्वर्त्तनादिकम्
सुगंधवासितैस्तोयैः स्नाप्य मंत्रयुतैः शुभैः ६३
वस्त्रैराभरणैर्दिव्यैरलंकृत्य यथाविधि
मधुपर्कं ततो दद्याद्गंधं दद्यात्सुवासितम् ६४
सुरभीणि सुपुष्पाणि भक्त्या सम्यङ्निवेदयेत्
धूपं दशांगमष्टांगं दीपं च सुमनोहरम् ६५
नैवेद्यं विविधं दद्यात्पायसापूपमिश्रितम्
कर्पूरं तु सतांबूलं भक्त्या चैव निवेदयेत् ६६
दीपैर्नीराजनं कृत्वा पुष्पमालां समर्चयेत्
परिणीय प्रणम्याथ स्तुत्वा स्तोत्रैरनुत्तमैः ६७
गरुडाङ्के शाययित्वा मङ्गलार्घ्यं निवेदयेत्
संकीर्त्य नामभिः पुण्यैः पश्चाद्धोमं समाचरेत् ६८
हरेर्नैवैद्यशेषेण जहुयाद्वह्निमंडले
प्रत्यृचं पौरुषं सूक्तं श्रीसूक्तं मंगलाह्वयम् ६९
होतव्यमाज्यसंमिश्रं हविषा वैदिकानले
प्रोक्तेन मंत्ररत्नेन जुहुयाद्भक्तिसंयुतम् ७०
अष्टोत्तरशतवारमष्टाविंशतिमेव च
यज्ञरूपं महाविष्णुं ध्यायन्वै जुहुयाद्धविः ७१
शुद्धजांबूनदनिभं शंखचक्रगदाधरम्
समस्तवेदवेदांतसांगोपांगयुतं प्रभुम् ७२
देव्या श्रिया समासीनं ध्यात्वा होमं समाचरेत्
एकैकामाहुतिं पश्चान्नामभिर्जुहुयाद्धविः ७३
नित्यान्भक्तान्समुदिदश्य महाभागवतोत्तमः
भूलीला विमलाद्याश्च शक्तयः प्रथमं क्रमात् ७४
अनंतं विहगेंद्रादि देवतास्तदनंतरम्
वासुदेवादयः पश्चात्तथा शक्त्यादि देवताः ७५
मूर्त्तयः केशवाद्याश्च तथा संकर्षणादयः
मत्स्यकूर्मादयश्चैव तथा चक्रादिहेतयः ७६
कुमुदादयश्च त्रिदशास्तथा चंद्रादिदेवताः
इंद्रादिलोकपालाश्च तथा धर्मादिदेवताः ७७
होतव्याः क्रमशस्तस्मिन्संपूज्याश्च विशेषतः
एतद्वैकुंठहोमं तु महाभागवतोत्तमः ७८
नित्यार्चनविधौ नित्यं कुर्वीत सुसमाहितः
गृहार्चने गृहद्वारि पंचयज्ञविधानतः ७९
दत्त्वा बलिविधानेन पश्चादाचमनं चरेत्
उपविश्यासने शुभ्रे कृष्णाजिनकुशोत्तरे ८०
मंत्रयोगे प्रकुर्वीत भोगार्थं सुखमात्मनः
सम्यक्पद्मासनासीनो भूतशुद्धिं समाचरेत् ८१
प्राणायामत्रयं कुर्यान्मन्त्रेण विजितेंद्रियः
उदङ्मुखं ततः कृत्वा हृत्पङ्कजमनुत्तमम् ८२
विकासं तस्य कुर्वीत विज्ञानरविणा हृदि
तत्कर्णिकायां वह्न्यर्कशशिबिंबान्यनुक्रमात् ८३
त्रयं त्रयीमये तस्मिंश्चिंतयेद्वैष्णवोत्तमः
नानारत्नमयं पीठं तेषामुपरि चिंतयेत् ८४
तस्मिन्हृत्पद्ममूलांते बालार्कसदृशद्युतिम्
अष्टैश्वर्यदलं पद्मं मंत्राक्षरमयं चरेत् ८५
तस्मिन्देव्या समासीनं कोटिशीतांशुसंनिभम्
चतुर्भुजं सुंदरांगं शंखचक्रगदाधरम् ८६
पद्मपत्रविशालाक्षं सर्वलक्षणलक्षितम्
श्रीवत्सकौस्तुभोरस्कं पीतवस्त्रधरं प्रभुम् ८७
विचित्राभरणैर्युक्तं दिव्यमंडनमंडितम्
दिव्यचंदनलिप्तांगं दिव्यपुष्पोपशोभितम् ८८
तुलसीकोमलदलवनमालाविभूषितम्
बालार्ककोटिसदृशं कांत्या देव्या श्रिया सह ८९
सर्वलक्षणलक्षण्या समाश्लिष्टतनुः शिवम्
एवं ध्यात्वा जपेन्मंत्रं समाहितमनाः शुचिः ९०
सहस्रं शतवारं वा यथाशक्त्याऽथवापि च
मनसैवार्चनं कृत्वा विरमेत्तत्र भक्तितः ९१
तदीयानर्च्चयेद्भक्त्या तस्मिन्काले समागतान्
तर्पयित्वान्नपानाद्यैरनुव्रज्य विसर्जयेत् ९२
अर्च्चयित्वा पितॄन्देवांस्तर्पयेच्च विधानतः
संपूज्यातिथिभृत्यांश्च भुंजीयातां च दम्पती ९३
यक्षराक्षस भूतानामर्चनं वर्जयेत्सदा
यो मोहात्कुरुते विप्रः स चांडालो भवेद्ध्रुवम् ९४
यक्षाणां च पिशाचानां मद्यमांसभुजां तथा
दिवौकसां तु भजनं सुरापानसमं स्मृतम् ९५
ब्रह्मराक्षसवेतालयक्षभूतार्चनं नृणाम्
कुंभीपाकमहाघोर नरकप्राप्तिसाधनम् ९६
कोटिजन्मकृतं पुण्यं यज्ञदानक्रियादिकम्
सद्यः सर्वं लयं याति यक्षभूतादिपूजनात् ९७
स्त्रियो वा पुरुषो वापि यक्षभूतादिकार्च्चनात्
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ९८
क्रिमिर्भूत्वाथ विष्ठायां पितृभिः सह मज्जति
यक्षाणां च पिशाचानां तामसानां दिवौकसाम् ९९
निवेदितान्नं योऽश्नाति पूयशोणितभुग्भवेत्
यक्षान्भूतगणांश्चान्यान्क्रूरान्वै ब्रह्मराक्षसान् १०० 6.253.100
उद्दिश्य भुङ्क्ते यो विप्रः सद्यश्चाण्डाल एव सः
या नारी पूजयेद्यक्षान्पिशाचोरगराक्षसान् १०१
सा याति नरकं घोरं कालसूत्रमधोमुखी
पितृभिः सह कल्पांतमुषित्वा तत्र दारुणे १०२
लिहन्मूत्रपुरीषं वै कृच्छ्रात्सूचिमुखैस्तथा
कृमिभिर्भक्षमाणांगो यावदाभूतसंप्लवम् १०३
पश्चाद्भूमौ दशाहेषु जायते शतसंख्यया
तस्माद्यक्षादिकानां च देवानामर्च्चनं त्यजेत् १०४
स्वतंत्रपूजनं यत्र वैदिकानामपि त्यजेत्
अर्च्चयित्वा जगद्वंद्यं देवं नारायणं हरिम् १०५
तदावरणसंस्थानं देवस्य परितोऽर्च्चयेत्
हरेर्भुक्तावशेषेण बलिं तेभ्यो विनिःक्षिपेत् १०६
होमं चैव प्रकुर्वीत तच्छेषेणैव वैष्णवः
हरेर्निवेदितुं सम्यग्देवेभ्यो जुहुयाद्धविः १०७
पितृभ्यश्चापि तद्दद्यात्सर्वमानंत्यमाप्नुयात्
प्राणिनां पीडनं यत्तद्विदुषां निरयाय वै १०८
अदत्तं चैव यत्किंचित्परस्वं गृह्यते नरैः
स्तेयं तद्विद्धि गिरिजे नरकस्यैव कारणम् १०९
लशुनं मद्यपानादि मूलकं गृंजनं तथा
तिलपिष्टं शिग्रु बिल्वं तथा कोशातकीं तथा ११०
अलाबुं चैव वार्ताकं बीजालद्यं कवचानि च
एवमन्यान्यभक्ष्याणि शास्त्रदृष्टानि वै नरः १११
खादन्नरकमाप्नोति विचित्रमशिवं तथा
अवैष्णवानां यच्चान्नं पतितानां तथैव च ११२
अनर्पितं तथा विष्णोः श्वमांससदृशं भवेत्
यक्षराक्षसभूतान्नं सुरा मद्यं च गृञ्जनम् ११३
योऽश्नाति निरयं याति पूयशोणितभोजनम्
एतैः संस्थापनस्पर्शसहवासादिभिर्नरः ११४
तेपियान्त्येव निरयं विण्मूत्रकृमिभोजनम्
पतितानां च संसर्गात्पाखंडानां तथैव च ११५
सर्वयज्ञस्यभोक्तारं पुराणं पुरुषोत्तमम्
ज्ञात्वा सर्वं प्रकुर्वीत नित्यनैमित्तिकाः क्रियाः ११६
यक्षराक्षसभूताश्च कूष्माण्डगण भैरवाः
नार्च्चनीयाः सदा देवि स्वर्गलोकमभीप्सुभिः ११७
यक्षराक्षसभूतानामर्च्चनं वर्जयेद्द्विजः
पैशाचत्वमवाप्नोति कल्पकोटिशतत्रयम् ११८
तस्माद्राक्षसभूतानामर्चनं प्रतिषिध्यते
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ११९
रौरवं नरकं याति यक्षभूतगणार्चनात्
शंखचक्रादिभिश्चिह्नैरन्यैः प्रियतमैर्हरेः १२०
रहितः सर्वधर्मेभ्यः प्रच्युतो नरकं व्रजेत्
अगम्यागमनाद्धिंसा परद्रव्यापहारणात् १२१
अभक्ष्यभक्षणात्सद्यो नरकं समवाप्नुयात्
यस्तु पाणिगृहीतां च हित्वाऽन्यां यो स्त्रियं व्रजेत् १२२
अगम्यागमनं तद्धि सद्यो नरककारकम्
पतितानां च संसर्गात्पाखंडानां तथैव च १२३
विकर्मस्थानां च तथा यात्येव निरयं नरः
संसर्गिणां च संसर्गं तत्संसर्गमपि त्यजेत् १२४
वैष्णवः कुलमेकं तु वर्जयेत्पापसंयुतम्
एकांती संत्यजेद्ग्रामं महापातकमिश्रितम् १२५
तथैव परमेकान्ती तद्देशमपि वर्जयेत्
स्वकर्म्मज्ञानभक्त्यादि साधनं वैष्णवं स्मृतम् १२६
हरेराज्ञानुरूपेण कर्मज्ञानादि यश्चरेत्
स एकांती भवेद्विप्रो वासुदेवपरायणः १२७
अकृत्यं वैष्णवः पापबुद्ध्या सम्यक्परित्यजेत्
एकांती संत्यजेच्छास्त्रं दूषणान्मनसापि च १२८
तथैव परमैकांती हेयबुद्ध्या परित्यजेत्
नित्यं नैमित्तिकं काम्यं कृत्यं तु त्रिविधं स्मृतम् १२९
ज्ञानं तथैवलोकेऽस्मिन्मुनिभिः संप्रकीर्तितम्
कृत्याकृत्यविवेकं च परलोकस्य चिंतनम् १३०
तत्प्राप्तिसाधनं विष्णोः स्वरूपज्ञानमेव च
भक्तियुक्तो भवेद्भक्तो नवधा सा प्रकीर्तिता १३१
सुदर्शनोर्द्ध्वपुंड्रादि तच्चिह्नैरंकनं शुभम्
सद्गुरोमंत्रपठनमर्चनं विधिना हरेः १३२
स्मरणं कीर्तनं विष्णोः सेवा च परमात्मनः
प्रणामस्तस्य पुरतस्तदीयानां च पूजनम् १३३
प्रसादतीर्थसेवा च भक्तिर्नवविधा स्मृता
यस्मात्प्रपद्यते देवं शरणं वैष्णवो हरिम् १३४
प्रपत्तिः सा तु विज्ञेया त्रिविधा संप्रकीर्तिता
तामसी राजसी चैव सात्विकी त्रिविधा स्मृता १३५
सापि त्रिधाकृता सिद्धिः सामान्या सर्वदेहिनाम्
एतच्चतुष्टयं देवि हेयं संत्यज्य वैष्णवः १३६
उपायभूतं ब्रह्मैवमवलंबेत वैष्णवम्
उपायभावात्संत्यज्य कर्मज्ञानादिकं नरः १३७
कुर्वीत भगवत्प्रीत्यै महाभागवतोत्तमः
त्रिकालमर्चयेद्विष्णुं भक्त्या वै पुरुषोत्तमम् १३८
नैमित्तिके विशेषेण पूजयेद्विधिना शुभे
प्रत्यहं कार्तिके मासि जातीपुष्पैः समर्चयेत् १३९
दद्यादखंडं दीपं च नियतात्मा दृढव्रतः
ब्राह्मणान्भोजयित्वांते हरिसायुज्यमाप्नुयात् १४०
धनुष्युषसि देवेशं मासमेकं निरंतरम्
अर्चयेदुत्पलैर्देवि करवीरैः सितासितैः १४१
धूपदीपैश्च नैवेद्यैर्यथाशक्त्या निवेदयेत्
समाप्तौ भोजयेद्विप्रान्महाभागवतोत्तमान् १४२
अश्वमेधसहस्रस्य फलमाप्नोत्यसंशयम्
तपो मास्युदिते भानौ स्नात्वा नद्यां विशेषतः १४३
अर्च्चयेन्माधवं पुष्पैरुत्पलैश्च शुभानने
पायसं सघृतं दिव्यं भक्त्या तत्र निवेदयेत् १४४
स्नात्वा संपूजयेद्विष्णुं मासमेकं निरंतरम्
शर्करांबुयुतं नित्यमुद्यानं विनिवेदयेत् १४५
वैष्णवान्पूजयेद्भक्त्या मासान्ते शुभदर्शने
मधुमासि तथा नित्यं बकुलैश्चंपकैरपि १४६
पूजयेज्जगतामीशं गुडान्नं च निवेदयेत्
मासांते वैष्णवान्विप्रान्भोजयेत्सुसमाहितः १४७
सहस्रवार्षिकीं पूजां प्रतिनित्यमवाप्नुयात्
माधवे पूजयेद्देवं शतपत्रैर्महोत्पलैः १४८
पूजयित्वा विधानेन दध्यन्नं फलसंयुतम्
गुडोदकं च भक्त्या वै तस्मिन्देवि निवेदयेत् १४९
लक्ष्म्या युक्तो जगन्नाथः प्रीतो भवति पार्वति
शुक्रे तु शुक्लकमलैः पाटलैः कुमुदोत्पलैः १५० 6.253.150
अर्चयित्वा हृषीकेशमन्नं चूतफलैर्युतम्
निवेदयित्वा भक्त्या वै गवांकोटिप्रदो भवेत् १५१
वैष्णवान्भोजयित्वाथ सर्वमानंत्यमाप्नुयात्
आषाढे देवदेवेशं लक्ष्मीभर्तारमच्युतम् १५२
श्रीपुष्पैरर्चयेन्नित्यं पायसान्नं निवेदयेत्
मासान्ते भोजयेद्विप्रान्महाभागवतोत्तमान् १५३
षष्टिवर्षसहस्रस्य पूजां प्राप्नोत्यसंशयः
नभोमास्यर्चयेद्विष्णुं पुन्नागैः केतकीदलैः १५४
अर्चयित्वाच्युतं भक्त्या न भूयो जन्मभाग्भवेत्
दद्यादपूपान्भक्त्याथ शर्कराघृतमिश्रितान् १५५
ब्राह्मणान्भोजयेत्तद्वत्सर्वमानंत्यमाप्नुयात्
नभस्येऽप्यर्चयेदीशं कुंदैः कुरबकैरपि १५६
क्षीरान्नं गुडसंमिश्रं भक्त्या तत्र निवेदयेत्
गवांकोटिप्रदानस्य प्रत्यहं फलमाप्नुयात् १५७
नीलोत्पलैरिषे मासि पूजयेन्मधुसूदनम्
भक्त्या निवेदयेत्तस्मिन्क्षीरमापूपमिश्रितम् १५८
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
वैष्णवं लोकमाप्नोति मुदितः स्वजनैर्वृतः १५९
ऊर्जे मासि तथा देवि कोमलैस्तुलसीदलैः
पूजयित्वाच्युतं भक्त्या तत्सायुज्यमवाप्नुयात् १६०
क्षीराज्यशर्करोपेतमन्नं वै पायसं तथा
अपूपं च क्रमेणैव भक्त्या सम्यङ्निवेदयेत् १६१
अमायां मंदवारे च वैष्णवर्क्षे तथैव च
रविसंक्रमे व्यतीपाते ग्रहणं चंद्र सूर्ययोः १६२
विशेषेणार्चयेद्विष्णुं यथाशक्त्या वरानने
गुरोरुत्क्रांतदिवसे जन्मर्क्षेषु तथा हरेः १६३
इष्टिं च वैष्णवीं कुर्याच्छक्त्या वै द्विजसत्तमः
दद्यात्पुष्पांजलिं तत्र प्रत्यर्चं वेदसंमितम् १६४
पारणं चापि कुर्वीत चरुणा पायसेन वा
वैष्णवान्भोजयेद्विप्राञ्छक्त्या दद्याच्च दक्षिणाम् १६५
कुलकोटिं समुधृत्य वैष्णवं पदमाप्नुयात्
सर्ववेदैरशक्तश्चेद्यष्टुं भागवतोत्तमम् १६६
वैष्णवैरनुवाकैर्वा सप्तरात्रं निरंतरम्
पुष्पांजलिसहस्रं तु होमं च प्रत्यहं चरेत् १६७
प्रीतये वा भगवतः प्रतिश्लोकं यजेदबुधः
अथवा मंत्ररत्नं हि सप्तरात्रं निरंतरम् १६८
अष्टोत्तरसहस्रं तु जुहुयाद्धविषा यजेत्
विशेषेणार्चयेद्विद्वान्महाभागवतोत्तमान् १६९
अंते चावभृथं कुर्याद्यथाविभवसारतः
वैष्णवैरनुवाकैश्च कुर्यादवभृथं द्विजः १७०
अत्र स्नात्वा विधानेन यथाशक्त्या द्विजोत्तमः
शुभे पात्रांतरे रम्ये पादौ प्रक्षाल्य भक्तितः १७१
अर्चयेद्गंधपुष्पाद्यैर्वस्त्रैराभरणादिभिः
तांबूलेन फलैर्वापि यथाशक्त्या समर्चयेत् १७२
भोजयित्वान्नपानाद्यैः प्रणम्य च पुनःपुनः
आसीमांतमनुव्रज्य नमस्कृत्य विसर्जितम् १७३
पुनः प्रणम्य भक्त्याथ शनैस्तत्र निवर्त्तितः
गृहं प्रविश्य देवेशं पूजयेत्प्रयतात्मवान् १७४
एवमभ्यर्चयेद्विष्णुं यावज्जीवमतंद्रितः
तदीयांश्च विशेषेण पूजयेत्सर्वदा शुभे १७५
आराधनानां सर्वेषां विष्णोराराधनं परम्
तस्मात्परतरं देवि तदीयानां समर्चनम् १७६
अर्चयित्वापि गोविंदं तदीयान्नार्चयेत्पुनः
न स भागवतो ज्ञेयः केवलं दांभिकः स्मृतः १७७
पुमांस्तस्मात्प्रयत्नेन वैष्णवान्पूजयेत्सदा
सर्वं तरति दुःखौघं महाभागवतार्चनात् १७८
एवमुक्तं मया देवि विष्णोराराधनं परम्
नित्यनैमित्तिकं चैव तदीयानां च पूजनम् १७९
पौरुषं तस्य याथात्म्यं फलसाधनमेव च
तस्यावसथदेहं च कर्माद्यपि चतुष्टयम्
तव प्रोक्तं मया देवि किमन्यच्छ्रोतुमिच्छसि १८०
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे विष्णुपूजाविधानवैष्णवाचारकथनंनाम त्रिपंचाशदधिकद्विशततमोऽध्यायः २५३