पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २५५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २५४ पद्मपुराणम्
अध्यायः २५५
वेदव्यासः

दिलीप उवाच-
कथितं भवता ब्रह्मन्सर्वधर्ममशेषतः ।
सामान्यं च विशिष्टं च स्वरूपं परजीवयोः १।
स्वर्गापवर्गौ कथितौ साधनं च तयोरपि ।
धन्योऽस्म्यहं द्विजश्रेष्ठ त्वत्प्रसादात्सदागुरो २।
एकमन्यं द्विजश्रेष्ठ पृच्छामि त्वां कुतूहलात् ।
कथयस्व यथातथ्यमपि वात्सल्यगौरवात् ३।
महाभागवतश्रेष्ठो रुद्रस्त्रिपुरहंतकः ।
कस्माद्विगर्हितं रूपं प्राप्तवान्सह भार्य्यया ४।
योनिलिंगस्वरूपं च कथं स्यात्सुमहात्मनः ।
पंचवक्त्रश्चतुर्बाहुः शूलपाणिस्त्रिलोचनः ५।
कथं विगर्हितं रूपं प्राप्तवान्द्विजपुंगव ।
एवं सर्वं समाचक्ष्व मित्रावरुणनंदन ६।
वसिष्ठ उवाच-
शृणु राजन्प्रवक्ष्यामि यन्मां पृच्छसि गौरवात् ।
विशुद्धहृदये पुंसां बुद्धिः श्रेयसि जायते ७।
स्वायंभुवो मनुः पूर्वं मंदरे पर्वतोत्तमे ।
जगाम मुनिभिः सार्द्धं दीर्घसत्रमनुत्तमम् ८।
तस्मिन्समागताः सर्वे मुनयः शंसितव्रताः ।
नानाशास्त्रविदः श्रेष्ठा बालसूर्य्यानलप्रभाः ९।
सर्ववेदविदो विप्राः सर्वधर्मपरायणाः ।
वर्तमाने महासत्रे मुनयः क्षीणकल्मषाः १०।
अन्वेष्टुंदेवतातत्वंमिथः प्रोचुस्तपोधनाः ।
विप्राणां वेदविदुषां कः पूज्यो देवता वरः ११।
ब्रह्मविष्णुमहेशानां कः स्तुतो मुक्तिदो नृणाम् ।
कस्यपादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम् १२।
कोऽव्ययः परमं धाम परमात्मा सनातनः ।
कस्य प्रसादं तीर्थं च पितॄणां तृप्तिदं भवेत् १३।
तेषां समुपविष्टानां इति वादो महानभूत् ।
रुद्रमेकमिति प्रोचुः केचिदत्र महर्षयः १४।
ब्रह्मैव पूज्य इत्यन्ये वदंति मुनिसत्तमाः ।
सूर्य एवात्मनां पूज्य इत्यन्ये प्राहुरुत्तमाः १५।
योऽसो सर्वगतः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः ।
अव्ययः पुंडरीकाक्षो वासुदेवः परात्परः १६।
अनादिनिधनो विष्णुः स एव परमेश्वरः ।
संपूज्यो देवताश्रेष्ठ इत्यन्ये चोचिरे द्विजाः १७।
तेषां विवदतां तत्र मनुः स्वायंभुवोऽब्रवीत् ।
शुद्धसत्वमयो योऽसौ कल्याणगुणवान्प्रभुः १८।
पुंडरीकेक्षणः श्रीमाञ्छ्रीपतिः पुरुषोत्तमः ।
विप्राणां वेदविदुषां एक एवार्चितः प्रभुः १९।
विप्राणां नेतरे पूज्या रजस्तमविमिश्रिताः ।
इति तस्य वचः श्रुत्वा सर्व एव महर्षयः ।
भृगुं तपोनिधिं विप्रं प्रोचुः प्रांजलयस्तथा २०।
ऋषय ऊचुः-
अस्माकं संशयं छेत्तुं त्वं समर्थोऽसि सुव्रत ।
ब्रह्मविष्णुमहेशानामंतिकं व्रज सुव्रत २१।
गत्वा तेषां समीपं तु तथा दृष्ट्वा तु विग्रहान् ।
शुद्धसत्वगुणं तेषां यस्मिन्संविद्यते मुने २२।
स एव पूज्यो विप्राणां नेतरस्तु कदाचन ।
शुद्धसत्वमयः साक्षाद्ब्रह्मण्यः स भविष्यति २३।
तीर्थप्रसादवाँल्लोके विप्राणां स भविष्यति ।
देवतानां पितॄणां च तस्योच्छिष्टं सुपावनम् २४।
तस्माद्याहि मुनिश्रेष्ठ विबुधानां निवासनम् ।
क्षिप्रं कुरु मुनिश्रेष्ठ सर्वलोकहितं प्रभो २५।
एवमुक्तस्ततस्तूर्णं कैलासं मुनिसत्तमः ।
जगाम वामदेवेन यत्रास्ते वृषभध्वजः २६।
गृहद्वारमुपागम्य शंकरस्य महात्मनः ।
शूलहस्तं महारौद्रं नंदिं द्दष्ट्वाब्रवीद्दिवजः २७।
संप्राप्तोऽहं भृगुर्विप्रो हरं द्रष्टुं सुरोत्तमम् ।
निवेदयस्व मां शीघ्रं शंकराय महात्मने २८।
तस्य तद्वचनं श्रुत्वा नंदी सर्वगणेश्वरः ।
उवाच परुषं वाक्यं महर्षिममितौजसम् २९।
असांनिध्यं प्रभोस्तस्य देव्या क्रीडति शंकरः ।
निवर्त्तस्व मुनिश्रेष्ठ यदि जीवितुमिच्छसि ३०।
एवं निराकृतस्तेन तत्रातिष्ठन्महातपाः ।
बहूनि दिवसान्यस्मिन्गृहद्वारि महेशितुः ३१।
नारीसंगममत्तोऽसौ यस्मान्मामवमन्यते ।
योनिलिंगस्वरूपं वै तस्मात्तस्य भविष्यति ३२।
ब्राह्मणं मावजानाति तमसा समुपागतः ।
अब्रह्मण्यत्वमापन्नो ह्यपूज्योऽसौ द्विजन्मनाम् ३३।
तस्मादन्नं जलं पुष्पं तस्मै दत्तं हविस्तथा ।
निर्माल्यमस्य तत्सर्वं भविष्यति न संशयः ३४।
एवं शप्त्वा महातेजाः शंकरं लोकपूजितम् ।
उवाच गणमत्युग्रं नंदिं शूलधरं नृप ३५।
रुद्र भक्ताश्च ये लोके भस्मलिंगास्थिधारिणः ।
ते पाखंडत्वमापन्ना वेदबाह्या भवंतु वै ३६।
एवं शप्त्वा मुनिस्तत्र रुद्रं त्रिपुरहंतकम् ।
जगाम ब्रह्मलोकं वै सर्वलोकनमस्कृतम् ३७।
तत्र दैवैः सहासीनं ब्रह्माणं परमेष्ठिनम् ।
दृष्ट्वा प्रांजलिना देवं प्रणनाम महामतिः ३८।
प्रणम्य पुरतस्तस्य तूष्णीमास महातपाः ।
तं दृष्ट्वा मुनिशार्दूलं रजोगुण समावृतः ३९।
नार्चयामास धाताऽसौ महर्षिं समुपागतम् ।
प्रत्युत्थानं प्रियं वाक्यं न कृतं तस्य वेधसा ४०।
ऐश्वर्येणैव महता तस्थौ तत्रांबुजासनः ।
तं दृष्ट्वा रजसोद्रिक्तं महर्षिः पंकजासनम् ४१।
व्याजहार महातेजा वाक्यं लोकपितामहः ।
रजसा महतोद्रिक्तो यस्मान्मामवमन्यसे ४२।
तस्मात्त्वं सर्वलोकानामपूज्यत्वं समाप्नुहि ।
एवं शप्त्वा महात्मानं ब्रह्माणं लोकपूजितम् ४३।
जगाम सहसा विप्रो भगवन्मंदिरं भृगुः ।
प्रविश्य वैष्णवं लोकं क्षीराब्धेरुत्तरे तटे ४४।
तत्रस्थितैर्महाभागैः पूज्यमानो यथार्हतः ।
तत्रानिवार्य्यमाणस्तु प्रविष्टोंतःपुरं द्विजः ४५।
प्रविश्य तस्मिन्विमले विमाने रविसन्निभे ।
शयानं नागपर्यंके ददर्श कमलापतिम् ४६।
लक्ष्मीकरसरोजाभ्यां मृज्यमानपदद्वयम् ।
तं दृष्ट्वा मुनिशार्दूलो भृगुः कोपसमन्वितः ४७।
सव्यं पादं प्रचिक्षेप विष्णोर्वक्षसि शोभने ।
तूर्णमुत्थाय भगवान्धन्योस्मीति वदन्मुदा ४८।
हस्ताभ्यां चरणं तस्य पीडयामास हर्षितः ।
शनैर्मृदित्वा तत्पादं मधुरं वाक्यमब्रवीत् ४९।
धन्योस्म्यद्यैव विप्रर्षे कृतकृत्योस्मि सर्वदा ।
त्वत्पादस्पर्शनाद्देहे मंगलं मे भविष्यति ५० 6.255.50।
समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।
अपारसंसारसमुद्र सेतवः पुनंतु मां ब्राह्मणपादपांसवः ५१।
विप्रपादरजो यस्य देहे तिष्ठति सर्वदा ।
गंगादिसर्वतीर्थानि तस्य तिष्ठंत्यसंशयम् ५२।
इत्युक्त्वा सहसोत्थाय देव्या सार्द्धं जनार्दनः ।
भक्त्या समर्चयामास दिव्यस्रक्चंदनादिभिः ५३।
तं दृष्ट्वा मुनिशार्दूलो हर्षपूर्णोऽश्रुलोचनः ।
उत्थायासनमुख्यात्तं प्रणनाम दयानिधिम् ।
कृतांजलिपुटोभूत्वा हर्षात्प्राह महातपाः ५४।
श्रीभृगुरुवाच-
अहोरूपमहोशांतिरहोज्ञानमहो दया ।
अहो सुनिर्मला क्षांतिरहो सत्वगुणं हरेः ५५।
नैसर्गिकं शुभं सत्वं तथैव गुणवारिधेः ।
नान्येषां विद्यते किंचित्सर्वेषां त्रिदिवौकसाम् ५६।
ब्रह्मण्यश्च शरण्यश्च त्वमेव पुरुषोत्तमः ।
ब्राह्मणानां त्वमेवेशो नान्यः पूज्यः सुरः क्वचित् ५७।
येऽर्चयंति सुरानन्यांस्त्वां विना पुरुषोत्तम ।
ते पाखंडत्वमापन्नाः सर्वलोकविगर्हिताः ५८।
विप्राणां वेदविदुषां त्वमेवेज्यो जनार्दनः ।
नान्यः कश्चित्सुराणां तु पूजनीयः कदाचन ५९।
अनर्च्याब्रह्मरुद्राद्या रजस्तमोविमिश्रिताः ।
त्वं शुद्धसत्वगुणवान्पूजनीयोऽग्रजन्मनाम् ६०।
त्वत्पादसलिलं सेव्यं पितॄणां च दिवौकसाम् ।
सर्वेषां भूसुराणां च मुक्तिदं कल्मषापहम् ६१।
त्वद्भुक्तोच्छिष्टशेषं वै पितॄणां च दिवौकसाम् ।
भूसुराणां च सेव्यं स्यान्नान्येषां तु कदाचन ६२।
इतरेषां तु देवानामन्नं पुष्पं जलं तथा ।
अस्पृश्यं तु भवेत्सर्वं निर्माल्यं सुरयासमम् ६३।
तस्माद्वै ब्राह्मणो नित्यं पूजयित्वा सनातनम् ।
त्वत्तीर्थं भुक्तमन्नं च भजेतैवानिशं बुधः ६४।
नान्यं देवं तु वीक्षेत ब्राह्मणो न च पूजयेत् ।
नान्यप्रसादं भुंजीत नान्यदायतनं विशेत् ६५।
न ददातीह यो विप्रः पितॄणां श्राद्धकर्मणि ।
त्वद्भुक्तमन्नं तीर्थं च तत्सर्वं निष्फलं भवेत् ६६।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
पतंति पितरस्तस्य नरके पूयशोणिते ६७।
निवेदितं तव विभो यो जुहोति ददाति वा ।
देवतानां पितॄणां च तृप्तिरानंत्यमश्नुते ६८।
तस्मात्त्वमेव विप्राणां पूज्यो नान्योस्ति कश्चन ।
मोहाद्यः पूजयेदन्यान्स पाखंडी भविष्यति ६९।
त्वं हि नारायणः श्रीमान्वासुदेवः सनातनः ।
विष्णुः सर्वगतो नित्यः परमात्मा महेश्वरः ७०।
त्वमेव सेव्यो विप्राणां ब्रह्मण्यः शुद्धसत्ववान् ।
पूज्यत्वाद्ब्राह्मणानां वै शुद्धसत्वगुणादपि ७१।
सर्वेषामेव देवानां ब्राह्मणत्वमवाप्नुहि ।
त्वामेव हि सदा विप्रा भजंति पुरुषोत्तमम् ७२।
ब्राह्मणास्ते बभूवुस्तु नान्यास्तत्र न संशयः ।
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ७३।
ब्रह्मण्यः पुंडरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ।
ब्रह्मण्यो भगवान्कृष्णो वासुदेवोऽच्युतो हरिः ७४।
ब्रह्मण्यो नारसिंहः स्यात्तथा नारायणोऽव्ययः ।
ब्रह्मण्यः श्रीधरः श्रीशो गोविंदो वामनस्तथा ७५।
ब्रह्मण्यो यज्ञवाराहः केशवः पुरुषोत्तमः ।
ब्रह्मण्यो राघवः श्रीमान्रामो राजीवलोचनः ७६।
ब्रह्मण्यः पद्मनाभः स्यात्तथा दामोदरः प्रभुः ।
ब्रह्मण्यो माधवो यज्ञस्तथा त्रिविक्रमः प्रभुः ७७।
ब्रह्मण्यश्च हृषीकेशः पीतवासा जनार्दनः ।
नमो ब्रह्मण्यदेवाय वासुदेवाय शार्ङ्गिणे ७८।
नारायणाय श्रीशाय पुंडरीकेक्षणाय च ।
नमो ब्रह्मण्यदेवाय वासुदेवाय विष्णवे ७९।
कल्याणगुणपूर्णाय नमस्ते परमात्मने ।
नमो ब्रह्मण्यदेवाय सर्वदेवस्वरूपिणे ८०।
वाराहवपुषे नित्यं त्रयीनाथाय ते नमः ।
नमो ब्रह्मण्यदेवाय नागपर्य्यंकशायिने ८१।
राजीवदलनेत्राय राघवाय नमो नमः ।
मायया मोहिताः सर्वे देवाश्च ऋषयस्तव ८२।
न जानंति महात्मानं सर्वलोकेश्वरं प्रभो ।
त्वां न जानंति भगवन्सर्ववेदविदोऽपि हि ८३।
नामरूपगुणैः श्रीश चारित्रैरपि दुष्कृतैः ।
परत्वसूचकं सत्वं तव वेदितुमीश्वरः ८४।
महर्षिभिः प्रेषितोऽहमागतोस्मि तवांतिकम् ।
तव शीलगुणाञ्ज्ञातुं चरणं मम केशव ८५।
दत्तं वक्षसि गोविंद तत्क्षंतव्यं कृपानिधे ।
एवमुक्त्वा भृगुर्देवं प्रणम्य च मुहुर्मुहुः ८६।
दिव्यैर्महर्षिभिस्तत्र पूज्यमानो महात्मभिः ।
पुनर्जगाम हृष्टात्मा यज्ञभूमिं शुभाह्वयाम् ८७।
समागतं महात्मानं तत्र दृष्ट्वा महर्षयः ।
प्रत्युत्थाय नमस्कृत्वा पूजां चक्रुर्विधानतः ८८।
तेषां विज्ञापयामास तत्सर्वं मुनिपुंगवः ।
रजस्तमगुणोद्रिक्तो विधीशानौ सुरोत्तमौ ८९।
शप्तौ मया न पूज्यौ तौ विप्राणामृषिसत्तमाः ।
अब्रह्मण्यत्वमापन्नो गर्हितं रूपमास्थितः ९०।
शप्तः कैलासशिखरे शंकरस्तमसावृतः ।
शुद्धसत्वमयो विष्णुः कल्याणगुणसागरः ९१।
नारायणः परं ब्रह्म विप्राणां दैवतं हरिः ।
ब्रह्मण्यः श्रीपतिर्विष्णुर्वासुदेवो जनार्दनः ९२।
ब्रह्मण्यः पुंडरीकाक्षो गोविंदो हरिरच्युतः ।
स एव पूज्यो विप्राणां नेतरः पुरुषर्षभाः ९३।
मोहाद्यः पूजयेदन्यं स पाखंडी भविष्यति ।
स्मरणादेव कृष्णस्य विमुक्तिः पापिनामपि ९४।
तस्य पादोदकं सेव्यं भुक्तोच्छिष्टं च पावनम् ।
स्वर्गापवर्गदं नॄणां ब्राह्मणानां विशेषतः ९५।
विष्णोर्निवेदितं नित्यं देवेभ्यो जुहुयाद्धविः ।
पितृभ्यश्चैव तद्दद्यात्सर्वमानंत्यमश्नुते ९६।
यो न दद्याद्धरेर्भुक्तं पितॄणां श्राद्धकर्मणि ।
अश्नंति पितरस्तस्य विण्मूत्रं सततं द्विजाः ९७।
तस्माद्विष्णोः प्रसादो वै सेवितव्यो द्विजन्मनाम् ।
इतरेषां तु देवानां निर्माल्यं गर्हितं भवेत् ९८।
सकृदेव हि योश्नाति ब्राह्मणो ज्ञानदुर्बलः ।
निर्माल्यं शंकरादीनां स चांडालो भवेद्ध्रुवम् ९९।
कल्पकोटिसहस्राणि पच्यते नरकाग्निना ।
निर्माल्यं भो द्विजश्रेष्ठा रुद्रादीनां दिवौकसाम् १०० 6.255.100।
रक्षोयक्षपिशाचान्नं मद्यमांससमं स्मृतम् ।
तद्ब्राह्मणैर्न भोक्तव्यं देवानां भुंजितं हविः १०१।
तस्मादन्यं परित्यज्य विष्णुमेव सनातनम् ।
पूजयध्वं द्विजश्रेष्ठा यावज्जीवमतंद्रिताः १०२।
तद्विष्णोः परमं धाममन्यंतो गतसंशयाः ।
तापादिपंचसंस्कारैरन्विष्टाः शुभचेतसः १०३।
अप्राकृतं हरिं सम्यगर्चयध्वं द्विजर्षभाः ।
चक्रांकितभुजा विप्रा भवंत्यप्राकृताः शुभाः १०४।
चक्रलांछनहीनास्तु प्राकृतास्तामसा स्मृताः ।
तस्मात्प्राकृतसंसर्ग पापौघ दहनं हरेः १०५।
प्रतप्तं बिभृयाच्चक्रं शंखं च भुजमूलयोः ।
उर्द्ध्वपुंड्राणि चांगेषु धृत्वा शास्त्रोक्तमार्गतः १०६।
अर्चयेन्मंत्ररत्नेन विधिना पुरुषोत्तमम् ।
तस्य प्रसादसेवां च कुर्य्यान्नित्यमतंद्रितः १०७।
तस्यावरणपूजायां त्रिदशानर्चयेत्सदा ।
तमेव सर्वयज्ञानां भोक्तारं परमेश्वरम् १०८।
ज्ञात्वा वै जुहुयाद्दद्याज्जपेद्वै सततं द्विजाः १०९।
वसिष्ठ उवाच-
एवमुक्तास्तु ते सर्वे ऋषयः क्षीणकल्मषाः ।
नमस्कृत्य भृगुं सम्यगूचुः प्रांजलयस्तदा ११०।
ऋषय ऊचुः ।
भगवन्संशयछेत्ता त्वमेव द्विजसत्तम ।
त्वं वै लोकगतिर्ब्रह्मंस्त्वमेव परमा गतिः १११।
त्वमेव परमोधर्मस्त्वमेव परमं तपः ।
त्वत्प्रसादाद्वयं विप्र भविष्यामो हि नान्यथा ११२।
वसिष्ठ उवाच-
एवं स्तुत्वा भृगुं विप्रं सर्व एव महर्षयः ।
तस्मात्संप्राप्तमंत्रा वै पूजयामासुरच्युतम् ११३।
एतत्ते सर्वमाख्यातं प्रसंगात्पार्थिवोत्तम ।
रामस्य हस्तकमलस्पर्शनाद्वै नृपोत्तम ११४।
भविष्यत्यमलं तच्च रूपं लोकविगर्हितम् ।
राघवः सर्वदेवानां पावनः पुरुषोत्तमः ११५।
स्पृष्टा दृष्टाश्च तेनैव विमलाः शंकरादयः ।
सर्वेषामपि देवानां पिता माता जनार्दनः ११६।
त्राता च सर्वलोकानां वात्सल्यगुणसागरः ।
तमेव शरणं गच्छ यदीच्छेत्परमं पदम् ११७।
एतत्ते सर्वमाख्यातं पुराणं वेदसंमितम् ।
ब्रह्मणा कथितं राजन्मनु स्वायंभुवोंतरे ११८।
विष्णुभक्तिविनीतस्य शुद्धसत्वस्य नान्यथा ।
तस्य संश्रावयेन्नित्यं विमुक्ता सा हरेः कथा ११९।
शंखचक्रोर्द्ध्वपुंड्रादि विहितो वाचकः पुमान् ।
तन्मुखाच्छ्रूयतां नित्यं पुत्री भवसि नान्यथा १२०।
यस्त्विदं श्रावयेन्नित्यं पठेद्वा सुसमाहितः ।
अनन्यभक्तिः श्रीशस्य जायते तस्य सर्वदा १२१।
विद्यार्थी लभते विद्यां धर्मार्थी धर्ममाप्नुयात् ।
मोक्षार्थी लभते मोक्षं कामार्थी लभते सुखम् १२२।
द्वादश्यां श्रवणार्के च संक्रांतौ ग्रहणे तथा ।
अमावस्यां पौर्णमास्यां पठेद्भक्तिसमन्वितः १२३।
श्लोकार्द्धं श्लोकपादं वा पठेद्यस्तु समाहितः ।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यसंशयः १२४।
इत्येतत्कथितं गुह्यं पुराणं संहितात्मकम् ।
अर्चयस्व हृषीकेशं यदीच्छसि परमं पदम् १२५।
सूत उवाच-
एवमुक्तो वसिष्ठेन गुरुणा नृपसत्तमः ।
प्रणम्य च गुरुं राजा पूजयित्वा यथार्हतः १२६।
तस्मात्संप्राप्तमंत्रोऽसौ विधिना द्विजसत्तमात् ।
अर्चयित्वा हृषीकेशं यावज्जीवमतंद्रितः ।
काले हरिपदं प्राप योगिगम्यं सनातनम् १२७।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां वैयासिक्यामुत्तरखंडे भृगुपरीक्षाकथनंनाम पंचपंचाशदधिकद्विशततमोऽध्यायः २५५।
इति श्रीपाद्मे महापुराणे षष्ठमुत्तरखण्डं समाप्तम् ।