पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५१ पद्मपुराणम्
अध्यायः १५२
वेदव्यासः
अध्यायः १५३ →

महादेव उवाच
तीर्थानां प्रवरं तीर्थं साभ्रमत्यास्तटे स्थितम्
बालाप इति विख्यातं भुक्तिमुक्तिप्रदायकम् १
तपस्विधारितं तीर्थं विबुधानां समाश्रयम्
तत्र कन्या तपस्तेपे परमं सुदृढव्रता २
कन्या कण्वमुनेः साध्वी रूपेणाप्रतिमा भुवि
बाला बालावती नाम कुमारी ब्रह्मचारिणी ३
व्रतं चचार सावित्र्या नियमैर्बहुभिर्युता
भर्ता मे भास्करो भूयादिति निश्चित्य भामिनि ४
समास्तस्य समाक्रांता दश साभ्रमतीतटे
चरंत्या नियमांस्तांस्तान्भक्त्या परमदुश्चरान् ५
तस्यास्तु तेन व्रतेन तपसा व्रतचर्यया
भक्त्या च भगवान्प्रीतः परया भक्तिसंपदा ६
आजगामाश्रमपदं देवदेवो दिवाकरः
आस्थाय रूपं विप्रर्षेः प्रविष्टस्तु महामनाः ७
सा तं दृष्ट्वोग्रतपसा वरिष्ठं ब्रह्मवित्तमम्
वानप्रस्थविधानेन पूजयामास तं द्विजम् ८
उवाच रविभक्ता सा कल्याणी तं तपोधनम्
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो ९
सर्वं तुभ्यं यथाशक्ति दास्यामि स्वतनुं विना
सूर्यभक्तास्मि ते पाणिं दास्यामि न कथंचन १०
व्रतैश्च नियमैश्चापि तपोभिश्च तपोधन
सूर्यस्तोषयितव्यो मे देवस्त्रिभुवनेश्वरः ११
इत्युक्तवत्यां तस्यां तु स्मयन्निव निरीक्ष्य ताम्
उवाच नियमस्थां तां सांत्वयन्निव भास्करः १२
उग्रं चरसि कल्याणि तपः परमदुष्करम्
यदर्थं च समारंभस्तव बाले तथैव तत् १३
तपसा लभ्यते सर्वं सर्वं तपसि तिष्ठति
देवत्वं प्राप्यते भद्रे तपसा मोक्ष एव च १४
इमानि पंच सुभगे बदराणि प्रतीच्छ मे
दत्त्वा स बदराण्यस्यै पचेत्युक्त्वा रविर्ययौ १५
अपृष्ट्वा तां तु कल्याणीं ब्रह्मरूपी विहाय ताम्
स्थितोऽसौ नातिदूरेण इंद्रग्रामे महायशाः १६
स्थित्वा जिज्ञासया भावं तस्याश्च ब्राह्मणो रविः
बदराणामुपवनं कारयामास भास्करः १७
ततः सा प्रयता बाला प्रांजलिर्विगतश्रमा
पाकाय बदराणां सा पावकं समधिश्रयत् १८
अपचत्परमा देवि बदराणि महाप्रभा
तस्याः पचंत्याः सुमहान्कालोऽगाच्च सुरेश्वरि १९
भस्मपुंजो महान्जातो दिनं च क्षयमन्वगात्
हुताशनेन दग्धस्तु महान्वै काष्ठसंचयः २०
पादौ प्रक्षाल्य सा पश्चात्पावके चारुदर्शने
ददाह बदरार्थं च ब्राह्मणप्रियकाम्यया २१
दग्ध्वा दग्ध्वा पुनः पादौ उपर्या धार्यतेऽनघे
अथास्याः कर्म तद्दृष्ट्वा प्रीतो देवो दिवाकरः २२
ततः संदर्शयामास कन्यायै रूपमात्मनः
उवाच परमप्रीतस्तां कन्यां सुदृढव्रताम् २३
सूर्य उवाच
प्रीतोऽस्मि बाले भक्त्या ते तपसा व्रतचर्यया
यस्मादभिमतः कामो बाले संपद्यतां तव २४
अस्मिंस्तीर्थे तपोयुक्ता मद्गृहे त्वं निवत्स्यसि
इदं च तीर्थप्रवरं तव नाम्ना च लक्षितम् २५
बालाप इति विख्यातं साभ्रमत्यास्तटे स्थितम्
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिस्तु स्तुतं पुरा २६
बालातीर्थे नरः स्नात्वा त्रिरात्रमुषितः शुचिः
रक्तादित्यमुखं दृष्ट्वा सूर्यस्योदयनं प्रति २७
सूर्यलोकमवाप्नोति नात्र कार्या विचारणा
सूर्यवारेऽथ संक्रांतौ सप्तम्यां तु विशेषतः २८
विषुवत्ययने चापि चंद्रसूर्यग्रहेऽपि च
स्नात्वा संतर्पयेद्देवान्पितॄनथ पितामहान् २९
गुडधेनुं ततो दद्याद्ब्राह्मणेभ्यो गुडोदनम्
करवीरैर्जपापुष्पै रक्तादित्यप्रपूजनम् ३०
ये कुर्वंति नरास्ते वै सूर्यलोके वसंति वै
रक्तां धेनुं नरो दद्यादेकं चैव धुरंधरम् ३१
स यज्ञफलमाप्नोति न नरो निरयं व्रजेत्
व्याधितो मुच्यते रोगात्बद्धो मुच्येत बंधनात्
तीर्थेऽस्मिन्पिंडदानेन तृप्तिं यांति पितामहाः ३२
महादेव उवाच
तथान्यदपि माहात्म्यं तीर्थस्यास्य तपोधने
श्रूयतां यत्पुरावृत्तं व्यासेन कथितं महत् ३३
पुरात्र महिषो वृद्धो जरया जर्जरीकृतः
अशक्तो भारमुद्वोढुं सार्थवाहस्तमत्यजत् ३४
स निदाघे जलं पातुं जगाम च महानदीम्
दैवात्पंके निमग्नोऽसौ ततो मृत्युवशं गतः ३५
प्लवितास्थिर्जले पुण्ये तीर्थस्यास्य प्रभावतः
कान्यकुब्जेश्वरसुतो राजा जातिस्मरोऽभवत् ३६
संस्मृत्य च स्ववृत्तांतं प्रभावं तीर्थजं महत्
आगत्य तज्जले स्नात्वा ददौ दानान्यनेकशः ३७
स तत्र स्थापयामास देवदेवं महेश्वरम्
अत्र तीर्थे नरः स्नात्वा संपूज्य महिषेश्वरम् ३८
रक्तादित्यमुखं दृष्ट्वा सर्वपापैः प्रमुच्यते
साभ्रमत्युदकं यत्र पूर्वतः पश्चिमं व्रजेत् ३९
प्रयागादपि तत्पुण्यं सर्वकामप्रदं महत्
दत्तं द्विजेंद्रेषु हुतं यदग्नौ श्राद्धं कृतं जाप्यमिहाक्षयं स्यात् ४०
गोभूतिलाः कांचनवस्त्रधान्यं शय्यासनं वाहनछत्रदानम्
यं यं वांछयते कामं तं तं प्राप्नोति मानवः ४१
श्रीमहेशप्रसादाच्च तीर्थस्यास्य प्रभावतः
बालापेंद्रं इदं तीर्थं पुण्यपापहरं सदा ४२
यं दृष्ट्वा मुनयः सर्वे वीतरागाः सदैव तु
यत्र माहिषनामेति श्वेताख्यं पुण्यदं महत् ४३
यत्र स्नात्वा तु देवेशि पुनर्जन्म न विद्यते
गोदावर्यां कृते स्नाने यत्फलं लभते नरः ४४
तत्फलं लभते देवि अत्र तीर्थे न संशयः ४५
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे बालापेंद्रं तीर्थंनामद्विपंचाशदधिकशततमोऽध्यायः १५२