पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५० पद्मपुराणम्
अध्यायः १५१
वेदव्यासः
अध्यायः १५२ →

महादेव उवाच
अस्मात्तीर्थात्परं तीर्थं इंद्रग्राममिति स्मृतम्
यत्र स्नात्वा पुरा शक्रो विमुक्तो घोरकिल्बिषात् १
पार्वत्युवाच
केनेह कर्मणा शक्रः प्राप्तवान्घोरकिल्बिषम्
विपाप्मा च कथं सोऽभूदिति विस्तरतो वद २
महादेव उवाच
इंद्रः सुरेश्वरः पूर्वं नमुचिश्चासुरेश्वरः
अशस्त्रवधमन्योऽन्य समयं तौ प्रचक्रतुः ३
अथेंद्रस्तु नभोवाणीनिर्देशान्नमुचिं तदा
जघान फेनमादाय ब्रह्महत्या तदाऽभवत् ४
पप्रच्छ च गुरुं शक्रः पापनिर्नाशकारणम्
बृहस्पतेरथादेशात्साभ्रामत्युत्तरे तटे ५
अस्मिन्स्थाने समागत्य स्थानं चक्रे सुरेश्वरः
तस्येह स्नानमात्रेण गतपापस्य तत्क्षणात् ६
पूर्णेंदुधवलाकांतिः शरीरे समजायत
धवलेश्वरमीशानं स्थापयामास वृत्रहा ७
इंद्र नाम्ना च तल्लिंगं विश्रुतं पृथिवीतले
पूर्णिमास्यां तथा दर्शे संक्रांतौ ग्रहणे तथा ८
श्राद्धे कृते पितॄणां तु तृप्तिर्द्वादशवार्षिकी
धवलेश्वरमासाद्य यः कुर्याद्विप्रभोजनम् ९
एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत्
हिरण्यभूमिवासांसि दातव्यानि स्वशक्तितः १०
शुक्ला गौ ब्राह्मणे देया सवत्सा च पयस्विनी
अत्रागत्य तु यो विप्रो रुद्रजाप्यादिकं चरेत् ११
तत्कृतं कोटिगुणितं श्रीमहेशप्रसादतः
अत्र तीर्थे नरो यस्तु उपवासादिकं चरेत् १२
स एव सर्वकामाढ्यो भवत्येव न संशयः
बिल्वपत्रं समानीय यः पूजयति तं प्रभुम् १३
धर्ममर्थं च कामं च लभते मानवो भुवि
सोमवारे विशेषेण ये गच्छंति नरोत्तमाः १४
तेषां रोगं तथा दोषं शमयेद्धवलेश्वरः
रवौ वाऽथ विशेषेण अर्चनं कुरुते यदा १५
तेषां महिमा तु भो देवि न ज्ञातः कर्हिचिन्मया
दूर्वया चार्कपुष्पैर्वा कल्हारैः कमलैर्दलैः १६
पूजनं कुर्वते येऽत्र ते नराः पुण्यभागिनः
श्वेतार्कपुष्पमानीय धवलेशं प्रपूज्य तु १७
वांच्छितं लभते नित्यं धवलेशप्रसादतः
कृते वै नीलकंठस्तु सर्वेषां शंकरः सदा १८
त्रेतायुगे स विख्यातो हरो वै भगवान्प्रभुः
द्वापरे शर्वसंज्ञस्तु कलौ वै धवलेश्वरः १९
अत्रार्थे यत्पुरावृत्तं तच्छृणुष्व सुरेश्वरि
नंदिर्नाम पुरा वैश्य इंद्रग्रामे समावसत् २०
शिवध्यानपरो भूत्वा शिवपूजां चकार सः
नित्यं तपोवनस्थं हि लिंगं धवलसंज्ञकम् २१
उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः
नंदी लिंगार्चनरतो बभूवातिशयेन हि २२
यथाशास्त्रेण विधिना पुष्पार्चनपरोऽभवत्
एकदा मृगयालुब्धः किरातो भूतहिंसकः २३
पापी पापसमाचारश्चरन्साभ्रमती तटे
अनेक श्वापदाकीर्णे हन्यमानो मृगान्शरैः २४
एवं विचरमाणोऽसौ किरातो भूतहिंसकः
यदृच्छयागतस्तत्र यत्र लिंगं सुपूजितम् २५
धवलेश्वरविख्यातं अनेकाश्चर्यमंडितम्
दृष्टं सुपूजितं लिंगं नानापुष्पैः फलैस्तथा २६
एवं लिंगं समालिंग्य गतः साभ्रमतीतटे
तत्र पीत्वा पयः सोऽथ मुखं गंडूषपूरितम् २७
कृत्वा चैकेनहस्तेन मृगमांसं समुद्वहन्
करेणैकेन पूजार्थं बिल्वपत्राणि वै दधत् २८
शीघ्रमागत्य लिंगांते पदा पूजां समाहनत्
पुष्पाणि तानि सर्वाणि विधूतानि इतस्ततः २९
स्नापनं तस्य लिंगस्य कृतं गंडूषवारिणा
करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयत् ३०
द्वितीयेन करेणैव मृगमांसं समर्पयत्
दंडप्रणामसंयुक्तः संकल्पं मनसाऽकरोत् ३१
अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः
त्वं मे स्वामी च भक्तोऽहं अद्यप्रभृति शंकर ३२
एवं नियमवान्भूत्वा किरातो गृहमागमत्
तथा प्रभातसमये देवायतनमागतः ३३
नंदी ददर्श तं सर्वं किरातेन च यत्कृतम्
अव्यवस्थं च तं दृंष्ट्वा अमेध्यं शिवसन्निधौ ३४
विधूतानि च सर्वाणि हिंसकेन दुरात्मना
चिंतायुक्तोभवन्नंदी जातं किं चित्रमद्य मे ३५
कथितानि च विघ्नानि शिवपूजारतस्य हि
उपस्थितानि तान्येव मम भाग्यविपर्ययात् ३६
एवं विमृश्य सुचिरं प्रक्षाल्य शिवमंदिरम्
यथागतेन मार्गेण नंदी स्वगृहमागमत् ३७
ततो नंदिनमालक्ष्य पुरोधा गतमानसम्
अब्रवीद्वचनं तं तु कस्मात्त्वं गतमानसः ३८
पुरोहितं प्रति तदा नंदी वचनमब्रवीत्
अद्य दृष्टं मया विप्र अमेध्यं शिवसन्निधौ ३९
केनेदं कारितं तत्र न जानामीह किंचन
ततः पुरोधा वचनं नंदिनं चाब्रवीत्तथा ४०
येन विस्खलितं तत्र पुष्पादीनां प्रपूजनम्
सोऽपि मूढो न संदेहः कार्याकार्येषु मंदधीः ४१
तस्माच्चिंता न कर्तव्या त्वया पुनरपि प्रभो
प्रभाते च मया सार्द्धं गम्यतां तच्छिवालयम् ४२
निरीक्षणार्थं दुष्टस्य तस्य दंडंकरोम्यहम्
एतच्छ्रुत्वा तु वचनं नंदी तस्य पुरोधसः ४३
आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा
तस्यां रात्र्यां व्यतीतायां आहूय च पुरोधसम् ४४
गतः शिवालयं नंदी समंतेन महात्मना
प्रक्षाल्य पूजनं कृत्वा नानारत्नपरिच्छदम् ४५
पंचोपचारसंयुक्तं कृत्वा वै ब्राह्मणैः सह
एवं यामद्वयं जातं स्तूयमानस्य नंदिनः ४६
आयातोऽसौ महाकालस्तथारूपो महाबलः
कालरूपो महारौद्रो धनुष्पाणिः प्रतापवान् ४७
तं दृष्ट्वा भयसंत्रस्तो नंदी तत्र न्यलीयत
पुरोधाश्चैव सहसा भयभीतस्तदाभवत् ४८
किरातेन कृतं तत्र यथापूर्वमविस्खलन्
तां पूजां स पदाहृत्य बिल्वपत्रं समर्पयत् ४९
नैवेद्येन पलेनैव किरातः शिवमार्चयत्
दंडवत्पतितो भूमौ उत्थाय स्वगृहं गतः 6.151.५०
तं दृष्ट्वा महदाश्चर्यं चिंतयामास वै चिरम्
पुरोधसा तदा नंदी सह व्याकुलचेतसा ५१
तेन पृष्टास्तदा विप्राः कथ्यतां च यथातथम्
संप्रधार्य ततः सर्वे मिलित्वा धर्मशास्त्रतः ५२
ऊचुः सर्वे तदा विप्रा नंदिनं जातशंकितम्
ईशविघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि ५३
तस्मादानय लिंगं त्वं स्वगृहे वैश्यसत्तम
तथेति मत्वाऽसौ नंदी शिवस्योत्पाटनं महत् ५४
कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यथाविधि
सुवर्णपीठिकां कृत्वा नवरंभासुशोभिताम् ५५
उपाहारैरनेकैश्च पूजयामास वै तदा
अथापरेद्युरायातः किरातः शिवमंदिरम् ५६
यावद्विलोकयामास लिंगमैशं न दृष्टवान्
मौनं विहाय सहसा साक्रोशमिदमब्रवीत् ५७
हे शंभो क्व गतोऽसि त्वं दर्शयात्मानमद्य वै
यदि नो दर्शनं हेयं त्यक्ष्याम्यद्य कलेवरम् ५८
हे शंभो हे जगन्नाथ त्रिपुरांतक शंकर
हेरुद्र हे महादेव दर्शयात्मानमात्मना ५९
एवं साक्षेपमधुरैर्वाक्यैः क्षिप्त्वा सदाशिवम्
किरातोऽसौ क्षुरिकया धीरो वै जठरं स्वकम् ६०
बिभेद्याशु ततो बाहुमासाद्योच्चै रुषाब्रवीत्
हे शंभो दर्शयात्मानं कुतो मां त्यज्य यास्यसि ६१
इति क्षिप्त्वा ततोंत्राणि मांसमुद्धृत्य सर्वतः
तस्मिन्गर्ते करेणैव किरातः सहसाक्षिपत् ६२
स्वच्छं च हृदयं कृत्वा साभ्रमत्यां निमज्जतु
तथैव जलमानीय बिल्वपत्रं त्वरान्वितः ६३
पूजयित्वा यथान्यायं दंडवत्पतितो भुवि
यदा ध्यानस्थितस्तत्र किरातः शिवसन्निधौ ६४
प्रादुर्भूतस्तदा रुद्रः प्रमथैः परिवारितः
कर्पूरगौरो द्युतिमान्कपर्दी चंद्रशेखरः ६५
तं गृहीत्वा करे रुद्रः उवाच परिसांत्वयन्
भो भो वीर महाप्राज्ञ मद्भक्तोऽसि महामते ६६
वरं वृणीष्व भो भक्त यत्ते मनसि वर्त्तते
एवमुक्तः स रुद्रेण महाकालो मुदान्वितः ६७
पपात दंडवद्भूमौ भक्त्या परमया युतः
ततो रुद्रं बभाषेदं न वरं प्रार्थयाम्यहम् ६८
अहं दासोऽस्मि ते रुद्र त्वं मे स्वामी न संशयः
एतत्श्लाघ्यतमं लोके देहि जन्मनि जन्मनि ६९
त्वं माता च पिता त्वं च त्वं बंधुश्च सखा च मे
त्वं गुरुस्त्वं महामंत्रो मंत्रैर्वेद्योऽसि सर्वदा ७०
निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः
ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च ७१
तदा डमरुनादेन नादितं भुवनत्रयम्
भेरीभांकारशब्देन शंखानां निनदेन च ७२
तदा दुंदुभयो नेदुः पटहाश्च सहस्रशः
नंदी तं नादमाकर्ण्य विस्मयात्त्वरितो ययौ ७३
तपोवनं यत्र शिवः स्थितः प्रमथसंवृतः
किरातो हि तथा दृष्टो नंदिना च तदा भृशम् ७४
उवाच प्रसृतो वाक्यं स नंदी विस्मयान्वितः
किरातं स्तोतुकामोऽसौ परमेन समाधिना ७५
इहानीतस्त्वया शंभुस्त्वं भक्तोऽसि परंतपः
त्वद्भक्तोऽहमिह प्राप्तो मां निवेदय शंकरे ७६
तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्वितः
नंदिनं च करे गृह्य शंकरं समुपागतः ७७
प्रहस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत्
ब्रूहि कोऽसौ त्वयानीतो गणानामिह सन्निधौ ७८
किरात उवाच
त्वद्भक्तोऽसौ तदा देव तव पूजारतो ह्यसौ
प्रत्यहं रत्नमाणिक्यपुष्पैश्चौच्चावचैरिह ७९
जीवितेन धनेनापि पूजितोऽसि न संशयः
तस्माच्चानीहि भो स्वामिन्नंदिनं भक्तवत्सल ८०
महादेव उवाच
जानाम्यहं महाभाग नंदिनं वैश्यवर्त्तनम्
त्वं मे भक्तः सखा चेति महाकाल महामते ८१
उपाधिरहिता ये च ये निष्कपटमानसाः
ते प्रियास्ते च मे भक्तास्ते विशिष्टा नरोत्तमाः
तावुभौ स्वीकृतौ तेन पार्षदत्वेन शंभुना ८२
ततो विमानानि बहुनि तत्र समागतान्येव महाप्रभाणि
किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण ८३
कैलासलोकमापन्नौ विमानैर्वेगवत्तरैः
सारूप्यमेव संप्राप्तो ईश्वरस्य महात्मनः ८४
नीराजितौ गिरिजया पुत्रवत्तौ गणावुभौ ८५
उवाचेदं ततो देवी प्रहस्य गजगामिनी
यथा त्वं हि महादेव तथा चेतौ न संशयः ८६
सारूप्येण च गत्या च हास्यभावैः सुपूजितैः
देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च ८७
सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतः
ऊचतुस्त्वरया युक्तौ गणौ रुद्रस्य पश्यतः ८८
उभावप्यनुकंप्यौ च भवता हि त्रिलोचन
तव द्वारिस्थितौ नित्यं भवावस्ते नमो नमः ८९
तयोर्भावं स भगवान्विदित्वा प्रहसन्भवः
उवाच परया भक्त्या भवतोरस्तु वांछितम् ९०
ततः प्रभृति द्वावेतौ द्वारपालौ बभूवतुः
शिवद्वारि स्थितौ देवि मध्याह्ने शिवदर्शिनौ ९१
एको नंदी महाकालो द्वावेतौ शिववल्लभौ
ये पापिनोप्यधर्मिष्ठा अंधा मूकाश्च पंगवाः ९२
कुलहीना दुरात्मानः श्वपचाद्या हि मानवाः
यादृशास्तादृशाश्चान्ये आराध्य धवलेश्वरम् ९३
गतास्तेऽपि गमिष्यंति नात्र कार्या विचराणा
अत्र स्नानं च दानं च सांनिध्यं शंकरस्य च ९४
साभ्रमत्यां कृतस्नाना धवलेश्वरपूजकाः
ते रुद्रलोकं गच्छंति नात्र कार्या विचारणा ९५
अत्र स्नानं च दानं च ये कुर्वंति नरोत्तमाः
धर्मार्थकामभोगाश्च भुक्त्वा यांति हरालयम् ९६
चंद्र सर्योपरागे च पितुः सांवत्सरे दिने
यत्फलं लभते मर्त्यस्तत्फलं प्राप्नुयाद्ध्रुवम् ९७
स्वर्गात्कामदुघा देवि नित्यमायाति सर्वथा
आगत्य तं शिवं देवं समभ्यर्च्य यथा तथा ९८
सा गच्छति सुरश्रेष्ठे स्वर्गं प्रति न संशयः
तेन दुग्धाभियोगेन लिंगं तद्धवलीकृतम् ९९
धवलेश्वरं नाम ततः संजातं भुवि सर्वदा
जंतवोऽत्र सदा देवि म्रियंते कालनोदिताः
ते ते शिवपदं यांति यावच्चंद्रदिवाकरौ 6.151.१००
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे धवलेश्वरमाहात्म्यंनामैकपंचाशदधिकशततमोऽध्यायः १५१