पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०२६ पद्मपुराणम्
अध्यायः ०२७
वेदव्यासः
अध्यायः ०२८ →

महादेव उवाच-
पानीयदानं परमं दानानामुत्तमं सदा
तस्माद्वापीश्च कूपांश्च तडागानि च कारयेत् १
अर्द्धं पापं संहरंति पुरुषस्य विकर्मणः
कूपाः प्रवृत्तपानीयाः सुप्रवृत्तस्य नित्यशः २
स च तारयते वंशं यस्य खात जलाशये
गावः पिबंति विप्राश्च साधवश्च नराः सदा ३
निदाघकाले पानीयं यस्य तिष्ठति नारद
दुर्गे विषमकृच्छ्रे च न कदाचिदवाप्यते ४
तडागानां च वक्ष्यामि कृतानां ये गुणाः स्मृताः
त्रिषु लोकेषु सर्वत्र पूजितो यस्तडागवान् ५
अथवा मित्रसदनं मित्रमैत्रीविवर्द्धनम्
कीर्तिसंजननं श्रेष्ठं तडागस्योपलक्षयेत् ६
धर्म्यस्यार्थस्य कामस्य फलमाहुर्मनीषिणः
तडागं सुकृतं देशे क्षेत्रमध्ये महाश्रयम् ७
चतुर्विधानां भूतानां तडागस्योपलक्षयेत्
तडागानि च सर्वाणि दिशंति श्रेयमुत्तमम् ८
देवामनुष्यागंधर्वाः पितरो नाग राक्षसाः
स्थावराणि च भूतानि संश्रयंति जलाशयम् ९
वर्षाऋतौ तडागे तु सलिलं यत्र तिष्ठति
अग्निहोत्रफलं तस्य जायते नात्र संशयः १०
हेमंते शिशिरे चैव सलिलं यस्य तिष्ठति
गोसहस्रफलं तस्य लभते नात्र संशयः ११
वसंतेऽपि तथा ग्रीष्मे सलिलं तिष्ठते यदि
अतिरात्राश्वमेधाभ्यां फलमाहुर्मनीषिणः १२
अथैतेषां तु वृक्षाणां रोपणे च गुणाञ्छृणु
अतीतानागतौ चोभौ पितृवंशौ महाऋषे १३
तारयेद्वृक्षरोपी च तस्माद्वृक्षांस्तु रोपयेत्
पुत्रपौत्रा भवंत्येते पादपा नात्र संशयः १४
परलोकं गतः सोऽपि लोकानाप्नोति चाक्षयान्
पुष्पैः सुरगणान्सर्वान्पत्रैश्चापि तथा पितॄन् १५
छायया चातिथीन्सर्वान्पूजयंति महीरुहाः
किन्नरोरगरक्षांसि देवगंधर्वमानवाः १६
तथा ऋषिगणाश्चैव संश्रयंति महीरुहान्
पुष्पिताः फलवंतश्च तर्पयंतीह मानवान् १७
इहलोके परे चैव पुत्रास्ते धर्मतः स्मृताः
तडागवृक्षरोपाश्च इष्टयज्ञाश्च ये द्विजाः १८
एते स्वर्गान्नहीयंते ये चान्ये सत्यवादिनः
सत्यमेव परं ब्रह्म सत्यमेव परं तपः १९
सत्यमेव परो यज्ञः सत्यमेव परं श्रुतम्
सत्यं देवेषु जागर्ति सत्यं च परमं पदम् २०
तपो यज्ञाश्च पुण्यं च तथा देवर्षिपूजनम्
आद्यो विधिश्च विद्या च सर्वं सत्ये प्रतिष्ठितम् २१
सत्यं यज्ञस्तथा दानं मंत्रा देवी सरस्वती
व्रतचर्या तथा सत्यमोङ्कारः सत्यमेव च २२
सत्येन वायुरभ्येति सत्येन तपते रविः
सत्येन चाग्निर्दहति स्वर्गः सत्येन तिष्ठति २३
पूजनं सर्वदेवानां सर्वतीर्थावगाहनम्
सत्यं च वदते लोके सर्वमाप्नोत्यसंशयः २४
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
सर्वेषां सर्वयज्ञानां सत्यमेव विशिष्यते २५
सत्येन देवाः प्रीयंते पितरो ऋषयस्तथा
सत्यमाहुः परं धर्मं सत्यमाहुः परं पदम् २६
सत्यमाहुः परं ब्रह्म तस्मात्सत्यं वदामि ते
मुनयः सत्यनिरताः तपस्तप्त्वा सुदुष्करम् २७
सत्यधर्मरताः सिद्धास्ततः स्वर्गमितो गताः
अप्सरोगणसंघुष्टैर्विमानैः परितो वृताः २८
वक्तव्यं च सदा सत्यं न सत्याद्विद्यते परम्
अगाधे विपुले सिद्धे सत्तीर्थे च शुचौ हृदि २९
स्नातव्यं मनसा युक्तैः स्नानं तत्परमं स्मृतम्
आत्मार्थे वा परार्थे वा पुत्रार्थे वापि मानवाः
अनृतं ये न भाषंते ते नराः स्वर्गगामिनः ३०
वेदा यज्ञास्तथा मंत्राः संति विप्रेषु नित्यशः
न भांत्युज्झित सत्येषु तस्मात्सत्यं समाचरेत् ३१
नारद उवाच-
तपसां मे फलं ब्रूहि पुनरेव विशेषतः
सर्वेषां चैव वर्णानां ब्राह्मणानां तपोबलम् ३२
प्रवक्ष्यामि तपोध्यानं सर्वकामार्थसाधकम्
सुदुश्चरं द्विजातीनां तन्मे निगदतः शृणु ३३
तपो हि परमं प्रोक्तं तपसा विंदते फलम्
तपोरतो हि यो नित्यं मोदते सह दैवतैः ३४
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः
तपसा मोक्षमाप्नोति तपसा विंदते महत् ३५
ज्ञानविज्ञानसंपत्तिः सौभाग्यं रूपमेव च
तपसा लभते सर्वं मनसा यद्यदिच्छति ३६
नातप्ततपसो यांति ब्रह्मलोकं कदाचन
यत्कार्यं किंचिदास्थाय पुरुषस्तप्यते तपः ३७
तत्सर्वं समवाप्नोति परत्रेह च मानवः
सुरापः परदारी च ब्रह्महा गुरुतल्पगः
तपसा तरते सर्वं सर्वतश्च विमुच्यते ३८
अपि सर्वेश्वरः स्थाणुर्विष्णुश्चैव सनातनः
ब्रह्मा हुताशनः शक्रो ये चान्ये तपसान्विताः ३९
षडशीतिसहस्राणि मुनीनामूर्द्ध्वरेतसाम्
तपसा दिवि मोदंते समेता दैवतैः सह ४०
तपसा प्राप्यते राज्यं शक्रः सर्वे पुरा सुराः
तपसा पालयन्सर्वानहन्यहनि वृत्तिदाः ४१
सूर्याचंद्रमसौ देवौ सर्वलोकहिते रतौ
तपसैव प्रकाशंते नक्षत्राणि ग्रहास्तथा ४२
सर्वं च तपसाभ्येति सर्वं च सुखमश्नुते
तपस्तपति योऽरण्ये वनमूलफलाशनः ४३
योऽधीते श्रुतिमेवादौ समं स्यात्तपसा मुने
श्रुतेरध्यापनात्पुण्यं यदाप्नोति द्विजोत्तमः ४४
तदध्यायस्य जप्याच्च द्विगुणं फलमश्नुते
जगद्यथा निरालोकं जायते शशिभास्करौ ४५
विना तथा पुराणं हि ध्येयमस्मान्महामुने
तप्यमानस्तपो ज्ञानं यो धारयति शास्त्रतः ४६
संबोधयति लोकं च तस्मात्पूज्यतमो गुरुः
सर्वेषां चैव पात्राणां श्रेष्ठपात्रं पुराणवित् ४७
पतनात्त्रायते यस्मात्तस्मात्पात्रमुदाहृतम्
धनं धान्यं हिरण्यं वा वासांसि विविधानि च ४८
ये यच्छंति सुपात्राय ते यांति च परां गतिम्
गाश्चैव महिषीर्वापि गजानश्वांश्च शोभनान् ४९
यः प्रयच्छति मुख्याय तत्पुण्यस्य फलं शृणु
अक्षयं सर्वलोकानां सोऽश्वमेधफलं लभेत् 6.27.५०
महीं ददाति यस्तस्मै कृष्टां फलवतीं शुभाम्
स तारयति वै वंशान्दशपूर्वान्दशापरान् ५१
विमानेन च दिव्येन विष्णुलोकं स गच्छति
न यज्ञैस्तुष्टिमायांति देवाः प्रोक्षणकैरपि ५२
बलिभिः पुष्पपूजाभिर्यथा पुस्तकवाचनैः
विष्णोरायतने यस्तु कारयेद्धर्मपुस्तकम् ५३
देव्याः शंभोर्गणेशस्य अर्कस्य च तथा पुनः
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ५४
इतिहासपुराणाभ्यां पुण्यं पुस्तकवाचनम्
सर्वान्कामानवाप्नोति सूर्यलोकं भिनत्ति सः ५५
सूर्यलोकं च भित्त्वासौ ब्रह्मलोकं स गच्छति
स्थित्वा कल्पशतान्यत्र राजा भवति भूतले ५६
अश्वमेधसहस्रस्य यत्फलं समुदाहृतम्
तत्फलं समवाप्नोति देवाग्रे यो जयं पठेत् ५७
तस्मात्सर्वप्रयत्नेन कार्यं पुस्तकवाचनम्
इतिहासपुराणाभ्यां विष्णोरायतने शुभम्
नान्यत्प्रीतिकरं विष्णोस्तथान्येषां दिवौकसाम् ५८
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे वृक्षप्रपासरोवरतपोऽध्ययन
धर्मव्याख्यान माहात्म्यंनाम सप्तविंशोऽध्यायः २७