पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०२८
← अध्यायः ०२७ | पद्मपुराणम् अध्यायः ०२८ वेदव्यासः |
अध्यायः ०२९ → |
महादेव उवाच-
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।
पुराणं परमं पुण्यं सर्वपापहरं शुभम् १।
कुमारेण च लोकानां नमस्कृत्य पितामहम् ।
प्रोक्तं चेदं ममाख्यानं देवर्षे ब्रह्मसूनुना २।
सनत्कुमार उवाच-
गतोऽहं धर्मराजानं द्रष्टुं संपूजितो मुदा ।
श्रुतिभिः परया भक्त्या तेनोक्तोऽस्मि सुखासने ३।
मया तत्रोपविष्टेन दृष्टं किंचिन्महाद्भुतम् ।
कांचनेन विमानेन वैडूर्यकृतवेदिना ४।
मणिमुक्तविचित्रेण किंकिणीजालशोभिना ।
आगतं पुरुषं तत्र आसनाद्देवसत्तम ५।
ससंभ्रमं समुत्थाय दृष्ट्वा धर्मः स्वयं विभुः ।
गृहीत्वा दक्षिणे पाणौ पूजितोऽर्घेण वै ततः ६।
शिरस्याघ्राय देवेशः पुरः स्थाप्य ततः परम् ।
पूजयित्वा तु तं धर्म इदं वाक्यमुवाच ह ७।
सुस्वागतं धर्मदर्शिन्प्रीतोऽस्मि दर्शनात्तव ।
समीपे मम तिष्ठस्व किंचिज्ज्ञानं वदस्व मे ८।
पुनर्यास्यसि तत्स्थानं यत्र ब्रह्मा व्यवस्थितः ।
इत्युक्ते च ततश्चान्यो विमानवरमास्थितः ९।
आगतः पुरुषो देवो यत्र तिष्ठति धर्मराट् ।
स पूजितो विमानस्थः प्रश्रयावनतेन च १०।
सामपूर्वं तथोक्त्वा तु यथापूर्वं नरः स्वयम् ।
किमनेन कृतं कर्म यस्य तुष्टो भवान्भृशम् ११।
अत्र मे कौतुकं जातं कृता हि स्वयमेव तु ।
यदस्य भवता पूजा सविस्मयमनंतरम् १२।
तथैवास्य कृता पूजा द्वितीयस्य नरस्य तु ।
मेनेऽहं शुभकर्माणौ विमानं वरसत्तमौ १३।
यस्त्वमाभ्यां स्वयं पूजां कुरुषे धर्मकारणात् ।
ब्रह्माविष्णुशिवाद्यैस्तु पूज्यसे त्वं सदानिशम् १४।
यस्येदृक्परमं पुण्यं किमेतौ कर्म चक्रतुः ।
कथ्यतां मम सर्वज्ञ फलं दिव्यमवापतुः १५।
तच्छ्रुत्वा स तु मां प्राह शृणु कर्मानयोः कृतम् ।
यत्कृत्वार्हमिहायातौ तच्छृणुष्व महामते १६।
धर्म उवाच-
वैदिशं नाम नगरं पृथिव्यामस्ति विश्रुतम् ।
तत्राभूत्पृथिवीपालो धरापाल इति श्रुतः १७।
कस्मिन्काले पुरा देवी शशाप स्वगणं क्रुधा ।
मदृतेन परा नारी भर्त्तुर्यन्मे निवेशिता १८।
तस्माद्द्वादशवर्षाणि जंबुकस्त्वं भविष्यसि ।
इत्युक्तः स च बभ्राम जंबुको मेदिनीतलम् १९।
वेतसी वेत्रवत्योस्तु संगमे लोकविश्रुते ।
शापांतो भविता पुत्र इत्युक्तं गिरिकन्यया २०।
तत्र चानशनं कृत्वा क्षेत्रे प्राणांस्ततोऽत्यजत् ।
दिव्यरूपवपुर्भूत्वा जगाम विष्णुसन्निधौ २१।
तत्राश्चर्यं महद्दृष्ट्वा धरापालो महीपतिः ।
विष्णोरायतनं कृत्वा क्षेत्रे प्राणंस्ततोऽत्यजत् २२।
दिव्यरूपवपुर्भूत्वा स्थापयामास तं प्रभुम् ।
तस्मिन्पुरे नरान्सर्वा सन्नियोज्यास्य वीक्षणे २३।
शुभमायतनं विष्णोस्तस्मिन्ग्रामे सदा जनैः ।
पूर्णं तु ब्राह्मणादीनां पूजयित्वा कदंबकम् २४।
इतिहासपुराणज्ञं वाचकं तु विशेषतः ।
पूजयित्वा द्विजश्रेष्ठं विद्याश्रेष्ठं महामतिः २५।
पुस्तकं चापि संपूज्य गंधपुष्पादिभिः क्रमात् ।
ततस्तमाह राजासौ वाचकं विनयान्वितः २६।
एतदायतनं विष्णोः कारितं च तवाग्रतः ।
चातुर्वर्ण्यमिदं चापि श्रोतुकामं कदंबकम् २७।
तिष्ठतीह द्विजश्रेष्ठ कुरु पुस्तकवाचनम् ।
यावत्संवत्सरं विप्र गृह्य वृत्तिं त्वनुत्तमाम् २८।
स्वर्णनिष्कशतं चात्र ततो दास्ये तथापरम् ।
पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोऽथ महमात्मनः २९।
एवं प्रवर्तितं तत्र पुण्यं पुस्तकवाचनम् ।
वर्षसंगतमात्रे तु तथा च मुनिसत्तम ३०।
अथायुषः क्षयाच्चायं कालधर्ममुपेयिवान् ।
मया चास्य विमानं हि विष्णुना प्रेरितं दिवः ३१।
इत्येषा कर्मणां व्युष्टिः पुण्यमाख्यानसंज्ञकम् ।
श्रुतं पाद्मं महत्पुण्यं पवित्रं पापनाशनम् ३२।
गंधपुष्पोपहारैस्तु न तुष्टिर्जायते तथा ।
देवानामिह सर्वेषां पुराणश्रवणाद्यथा ३३।
स्वर्णरत्नादिवस्तूनां वस्त्राणां चापि कृत्स्नशः ।
ग्रामाणां नगराणां च दानात्तुष्टिर्भवेन्नहि ३४।
यथा स्याद्धर्मश्रवणात्प्रीतिः सर्वदिवौकसाम् ।
इतिहासपुराणानां श्रवणे मुनिसत्तम ३५।
तथा स्यान्मे महाप्रीतिः साध्ये सर्वार्थकामिके ।
कन्यादाने महाप्रीतिर्मम स्यान्मुनिसत्तम ३६।
न तथा रोचते सा च यथा पुस्तकवाचनात् ।
अथ किं बहुनोक्तेन नान्यत्प्रीतिकरं मम ३७।
पुण्याख्यानमृते विप्र गुह्यमेतत्प्रकीर्तितम् ।
यश्चायमपरो विप्र इहायातो नरोत्तमः ३८।
संगत्यानुगतश्चायं धर्मश्रवणमुत्तमम् ।
श्रुत्वा भक्तिरभूदस्य श्रद्धया परमात्मनः ३९।
कृत्वा प्रदक्षिणं तस्य वाचकस्य महात्मनः ।
एष विप्रो मुनिश्रेष्ठ ददौ स्वर्णस्य माषकम् ४०।
नान्यद्दानं कदा चक्रे लोभाविष्टेन चेतसा ।
पात्रदानात्फलप्राप्तिस्त्वस्य जाता न संशयः ४१।
इत्येतत्कथितं कर्म आभ्यां चैव महामुने ४२।
महादेव उवाच-
एतत्पुण्यस्य माहात्म्यं ये शृण्वंति मनीषिणः ।
न तेषां दुर्गतिः कच्चिज्जन्मजन्मनि जायते ४३।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे उमापतिनारदसंवादे शास्त्रव्याख्यामहिमानामाष्टाविंशोऽध्यायः २८।