पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११५ पद्मपुराणम्
अध्यायः ११६
वेदव्यासः
अध्यायः ११७ →

ऋषय ऊचुः
अस्पृश्यत्वे कथं जातः सूत बोधितरुस्त्वयम्
स्पृश्यत्वं च कथं प्राप्तस्तथा च शनिवासरे
एतद्विस्तरतः सर्वं वक्तुमर्हति नो भवान् १
सूत उवाच
समुद्रमथनाद्यानि रत्नान्यापुः सुरेश्वराः
श्रियं च कौस्तुभं तेषां विष्णवे प्रददुः सुराः २
यावदंगीचकारासौ लक्ष्मीं भार्यार्थमात्मनः
तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् ३
लक्ष्मीरुवाच
असंस्कृत्य कथं ज्येष्ठां त्वं कनिष्ठां प्रणीयसे
तस्मान्ममाग्रजामेतामलक्ष्मीं मधुसूदन ४
विवाह्य नय मां पश्चादेष धर्मः सनातनः ५
सूत उवाच
इति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः
उद्दालकाय मुनये सुदीर्घतपसे तदा ६
आत्मवाक्यानुरोधेन तामलक्ष्मीं ददौ किल
स्थूलास्यां शुभ्रदशनां राजतीं बिभ्रतीं तनुम् ७
विततां रक्तनयनां रूक्षपिंगशिरोरुहाम्
समुनिर्विष्णुवाक्यात्तामंगीकृत्य स्वमाश्रमम् ८
वेदध्वनिसमायुक्तमानयामास धर्मवित्
होमधूमसुगंधाढ्यं विद्याघोषविनादितम् ९
आश्रमं तं समालोक्य व्यथिता साब्रवीदिदम्
ज्येष्ठोवाच
न हि वासोऽनुरूपोऽयं वेदध्वनियुतो मम
नात्रागमिष्ये भो ब्रह्मन्नयस्वान्यत्र मा चिरम् १०
उद्दालक उवाच
कथं नायासि किंवात्र वर्त्तते संमतं तव
तव योग्या च वसतिः का भवेच्च वदस्व तत् ११
ज्येष्ठोवाच
वेदध्वनिर्भवेद्यस्मिन्नतिथीनां च पूजनम्
यज्ञदानादिकं वापि नैव तत्र वसाम्यहम् १२
परस्परानुरागेण दांपत्यं यत्र वर्तते
पितृदेवार्चनं यत्र नैव तत्र वसाम्यहम् १३
दुरोदररता यत्र परद्रव्यापहारिणः
परदाररताश्चापि तत्र स्थाने रतिर्मम १४
गोवधो मद्यपानं च यत्र संजायतेनिशम्
ब्रह्महत्यादिपापानि तस्मिन्स्थाने रतिर्मम
वृद्धसज्जनविप्राणां यत्र स्यादपमाननम्
निष्ठुरं भाषणं यत्र तत्र नित्यं वसाम्यहम् १५
सूत उवाच
इति तद्वचनं श्रुत्वा विषण्णवदनोऽभवत्
उद्दालकमुनिर्विष्णोर्वाक्यं स्मृत्वा न चोचिवान् १६
सोऽगच्छद्यत्र तत्रास्य पूजामालोक्य साब्रवीत्
नायामीति ततः सोऽपि भ्रमादत्यातुरोऽभवत्
उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह १७
उद्दालक उवाच
अश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मि स्थीयतां क्षणम्
आवासस्थानमालोक्य यावदायाम्यहं पुनः १८
सूत उवाच
इति तत्र स संस्थाप्य जगामोद्दालकस्तदा
प्रतीक्षंती चिरं तत्र यदा तन्न ददर्श सा १९
तदा रुरोद करुणं भर्तृत्यागेन दुःखिता
तत्रस्थां रुदतीलक्ष्मीर्वैकुंठभुवनेऽशृणोत् २०
तदा विज्ञापयामास विष्णुमुद्विग्नमानसा २१
लक्ष्मीरुवाच
स्वामिन्मद्भगिनी ज्येष्ठा भर्तृत्यागेन दुःखिता
तामाश्वासयितुं याहि कृपालो यद्यहं प्रिया २२
सूत उवाच
लक्ष्म्या सह ततो विष्णुस्तत्रागच्छत्कृपान्वितः
आश्वासयदलक्ष्मीं तामिदं वचनमब्रवीत् २३
श्रीविष्णुरुवाच
अश्वत्थवृक्षमासाद्य सदाऽलक्ष्मि स्थिरा भव
ममांशसंभवो ह्येष आवासस्ते मया कृतः २४
प्रत्यहं येऽर्चयिष्यंति त्वां ज्येष्ठां गृहधर्मिणः
तेष्वियं श्रीः कनिष्ठा ते भगिनी निश्चलास्तु वै २५
सूत उवाच
इत्यूर्जस्य च माहात्म्यं ये शृण्वंति पठंति च
तेषां विष्णुपुरे वासो भवेदाभूतसंप्लवम् २६
रोगापहं पातकनाशकृत्परं सुबुद्धिदं पुत्रधनादिसाधनम्
मुक्तेर्निदानं न हि कार्तिकाद्वै विष्णुप्रियादन्यदिहास्ति भूतले २७
विष्णुप्रियं सकलकल्मषनाशनं च सत्पुत्रपौत्रधनधान्यसमृद्धिकारि
ऊर्जव्रतं सनियमं कुरुते मनुष्यः किं तस्य तीर्थपरिशीलनसेवया च २८
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे अलक्ष्म्युपाख्यानंनाम षोडशाधिकशततमोऽध्यायः११६