पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०१४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०१३ पद्मपुराणम्
अध्यायः ०१४
वेदव्यासः
अध्यायः ०१५ →

युधिष्ठिर उवाच-
इति मायामहेशेन मोहिता गिरिजा यदा ।
अतः किं समभूद्ब्रह्मन्तन्ममाख्यातुमर्हसि १।
नारद उवाच-
क्षीराब्धौ तु शयानस्य चुक्षोभ हृदयं हरेः ।
अकस्मादेव राजेंद्र नयनेऽश्रुपरिप्लुते २।
दृष्ट्वा तन्महदुत्पातलक्षणं भगवांस्ततः ।
उत्थाय शेषपर्यंकान्मां च वायुं विलोक्य च ३।
किं कार्यमिति गोविंदस्तन्नागारिमथास्मरत् ।
स चाग्रे स्मृतिमात्रेण तस्थौ बद्धांजलिः प्रभो ४।
विनतानंदनं दृष्ट्वा पुरतः प्राह केशवः ।
सुपर्ण तत्र गच्छ त्वं यत्र युद्धं प्रवर्तते ५।
हतो जालंधरो वीरो हरो वा तेन मोहितः ।
दृष्ट्वा तं शीघ्रमागत्य कथयस्व ममाखिलम् ६।
जालंधरेशयोर्युद्धं द्रष्टुं शक्तस्त्वमेव हि ।
कोऽन्यो महाहवे तस्मिन्ज्ञात्वा याति शरीरवान् ७।
कदाचिद्दुर्गमं तत्र युद्धं शस्त्रास्त्रवृष्टिभिः ।
अथ त्वं बाणसंचारं गत्वापि हितविग्रहः ८।
संदृष्ट्वा पार्वतीवृत्तिं शीघ्रमायातुमर्हसि ।
दैत्यमायानिरासार्थं विचिंत्य भगवांस्त्वरन् ९।
गुटिकां सर्वसिद्धां च गरुडाय ददौ हरिः ।
अनया न भ्रमो वीर तथेत्युक्त्वा मुखेक्षिपत् १०।
एवं संप्रेरितः पत्री हरिं कृत्वा प्रदक्षिणम् ।
निश्चक्राम खमाविश्य जगामाद्भुतवेगवान् ११।
तत्र गत्वा रणं घोरं दैत्यसंघैः स दुःसहम् ।
दृष्टवानखिलेनासौ न किंचिज्ज्ञातवान्किल १२।
तस्मादुत्पत्य वेगेन गतोऽसौ मानसोत्तरम् ।
शैलं तुंगतरं दुर्गमगम्यं मरुतामपि १३।
विलोकयन्न ददृशे गौरीस्थानं पतंगराट् ।
तत्रागत्य भुजंगारिर्ध्वनिं संश्रुतवान्किल १४।
गत्वा समीपे ददृशे मायापशुपतिं ततः ।
गरुडो गुटिकां क्षिप्य मुखेन भ्रममाप सः १५।
ज्ञात्वा बुद्ध्वाथ दैत्योऽयमिति नायं वृषध्वजः ।
हा कष्टमिति चोक्त्वा च रुदन्नागत्य चार्णवम् १६।
कथयामास वृत्तांतं पुरतः कैटभद्विषः ।
देव जालंधरेणायं हरो देवो विडंबितः १७।
उमा प्रतारिता तेन पापेन छद्मरूपिणा ।
सुरस्त्वं यदि गोविंद समरं प्रतियाह्यतः १८।
मायायुद्धं तु देवेश कुरु जालंधरं प्रति ।
तस्य राज्ञी मया दृष्टा पीठे जालंधरे शुभे १९।
प्रासादभूम्यां क्रीडंती वाद्यगीतादिवर्त्तनैः ।
सा सुंदरतरा गौर्या रंभोर्वश्योः शतादपि २०।
नेदानीं मानुषे लोके न पातालेषु तत्समा ।
भार्या तेन समा वेश्या नारीणां का कथा हरे २१।
यस्तां स्पृशति देहेन सकृतार्थः पुमान्भवेत् ।
तव श्यालकपत्नी च हर त्वं तां रम प्रियाम् ।
शंकरस्योपकारं च कुरु चैवात्मनः सुखम् २२।
नारद उवाच-
श्रुत्वा तार्क्ष्यस्य वचनं तं निर्भर्त्स्य रमाप्रियः ।
सम्यग्व्यवस्य चोपायं विससर्ज द्रुतं द्विजम् २३।
श्रियंपतार्य्य संछाद्य मंचके पीतवाससा ।
निर्गतोऽन्येन रूपेण योगि मायाबलेन च २४।
वृंदारिकानुरागेण मोहितो मधुसूदनः ।
दृष्ट्वा हरिं तु गच्छंतं प्रतिछन्नं युधिष्ठिर २५।
शेषोप्यन्यतमेनासौ रूपेणागत्य केशवम् ।
जगाद भक्त्या त्वं तिष्ठ ममानुज्ञातुमर्हसि २६।
किं करोमि क्व गच्छामि ब्रूहि कार्यं जनार्दन ।
सदा तव मुखं दृष्ट्वा भोक्ष्यामीति भवेत्सुखम् २७।
श्रीभगवानुवाच-
जालंधरस्त्रियं रम्यां हरिष्ये हरकारणात् ।
पार्वत्याश्चोपकाराय संछाद्य स्वात्मनस्तनुम् २८।
एहि यामो वयं बंधो कांतारं दुरतिक्रमम् ।
वृंदाकर्षणसिद्ध्यर्थमित्युक्त्वा तौ वनं गतौ २९।
ततो विष्णुश्च शेषश्च जटावल्कलधारिणौ ।
आश्रमं चक्रतुः पुण्यं सर्वकामफलप्रदम् ३०।
तयोः शिष्याः प्रशिष्याश्च बभूवुः कामरूपिणः ।
सिंहव्याघ्रवराहाश्च ऋक्षवानरमर्कटाः ३१।
अथ तस्मिन्वने वृंदां मंत्रेणाकर्षयद्धरिः ।
तस्या हृदयसंतापं चकार मधुसूदनः ३२।
एतस्मिन्नंतरे राज्ञी तापमुग्रमुपागता ।
चामरांश्चालयामास दिव्यस्त्रीकरचालितान् ३३।
प्रियस्यागमनं तन्वीं चिंतयंती मुहुर्मुहुः ।
चंदनागुरुलिप्तांगी मूर्च्छां याति हि सत्वरम् ३४।
तुर्ययामे विभावर्याश्चतुर्दश्यां नृपांगना ।
स्वप्नं ददर्श भयदं वैधव्यभयसूचकम् ३५।
जालंधरशिरः शुष्कं मर्दितं पांडुभस्मना ।
गृध्रेण कृष्टनयनं छिन्नकर्णाग्रनासिकम् ३६।
मुक्तकेशी करालास्या कृष्णवर्णारुणांबरा ।
चखाद काली रक्तास्या हस्ते विधृतखर्परा ३७।
ईदृशं ददृशे स्वप्नं तथात्मानं विडंबितम् ।
दैत्यक्षयगुणोपेतं सा ददर्श नृपांगना ३८।
ततः प्रबुद्धाऽसुरराजपत्नी गीतेन वाद्येन च मागधानाम् ।
गेयप्रबंधैः स्तवनैर्व चोभिर्वं शस्तवैः किंपुरुषप्रपाठितैः ३९।
ततस्तान्सकलान्श्रांतान्धनं दत्वा प्रसादजम् ।
निवार्य विप्रानाहूय स्वप्नं दृष्टं न्यवेदयत् ।
तं स्वप्नं ब्राह्मणाः श्रुत्वा तामूचुः शास्त्रपारगाः ४०।
द्विजा ऊचुः -
देवि दुःस्वप्नमत्युग्रमचिंत्यं भयदायकम् ।
देहि दानं द्विजातिभ्यो ह्यचिंत्य भयनाशकम् ४१।
धेनुर्वासांसि रत्नानि गजांश्चाभरणानि च ।
ब्राह्मणाः परिसंतुष्टाः सिषिचुस्तां नृपस्त्रियम् ४२।
अभिषिक्तापि सा वृंदा ज्वरेण परितप्यते ।
विसृज्य विप्रप्रवरान्प्रासादमगमत्तदा ४३।
तत्र स्थितापि स्वपुरं ददृशे दीप्तमंगला ।
ततः स्वकर्मणा राजन्नाकृष्टा हरिणा तु सा ४४।
न शशाक गृहे स्थातुं ततो राज्ञी वनं ययौ ।
रथमश्वतरीयुक्तं स्मरदूतीसखीवहम् ४५।
समारुह्य क्षणात्तन्वी प्राप्ता सौभाग्यकाननम् ।
नानावृक्षसमायुक्तं नानापक्षिगणान्वितम् ४६।
पुष्पप्रस्रवणोपेतं स्वर्गनारीविभूषितम् ।
मंदानिलप्रवेशोऽस्ति यत्र नान्यस्य कस्यचित् ४७।
वनं वृंदारिका दृष्ट्वा सस्मार पतिमात्मनः ।
कथं जालंधरं वीरं द्रक्ष्यामि प्राप्तमग्रतः ४८।
सा तत्र न सुखं लेभे विवेशान्यतमं वनम् ।
सखीरथसमायुक्ता विष्णुमायाविमोहिता ४९।
ततो विलोकयामास विपिनं तरुसंकुलम् ।
उरुपाषाणसंरुद्धं कुरंगाक्षी भयावहम् 6.14.५०।
सिंहव्याघ्रभयाकीर्णंशृगालव्यालसेवितम् ।
द्रुमैः स्पृशच्छिखाकाशैर्गुहासु ध्वांतपूरितम् ५१।
वनं विलोक्य सा भीमं चकिता चपलेक्षणा ।
स्मरदूतीं सखीं वृंदा जगाद रथवाहिनीम् ।
रथं प्रेषय मे शीघ्रं स्मरदूति गृहं प्रति ५२।
स्मरदूतिरुवाच-
नाहं जानामि दिग्भागं न यामि क्व रथं सखि ।
श्रांता अश्व्यः प्रवर्तंते मार्गश्चात्र न विद्यते ५३।
प्रेरितो दैवकेनापि स्यंदनो यातु यत्र च ।
अत्र कोपि च मांसादो भक्षयिष्यति नान्यथा ५४।
इत्युक्ता सा द्रुततरा रथं शीघ्रमवाहयत् ।
स रथो वेगतः प्राप्तो यत्र सिद्धा मुदान्विताः ५५।
तत्र सिद्धाश्च दृश्यंते काननं च भयावहम् ।
न यत्र प्रबलो वायुर्न शब्दः पक्षिणामपि ५६।
न च तेजः प्रकाशोऽस्ति न जलं प्रदिशो दिशः ।
तत्र प्राप्तरथस्यापि लक्षणेऽभूद्विपर्ययः ५७।
अश्वतर्यो न हेषंते न च शब्दश्च नेमिजः ।
न चलंति पताकास्ता घंटिका न क्वणंति च ५८।
न स्वनंति महाघंटा ध्वजस्तंभे निवेशिताः ।
विलोक्यैवंविधं प्राह तत्र वृंदा सखीं प्रति ५९।
स्मरदूति क्व यास्यामो व्याघ्रसिंहभयं वनम् ।
न गृहे न सुखं राज्ये मम जातं वने सखि ६०।
स्मरदूतिरुवाच-
शृणुष्व देवि पश्य त्वं पुरः शैलोऽतिदारुणः ।
दृष्ट्वाग्रतो न गच्छंति तुरंग्यो भयविह्वलाः ६१।
तस्यास्तद्वचनं श्रुत्वा संत्रस्ता सा नृपांगना ।
दृष्ट्वा हारं स्वकंठस्थं स्यंदनाच्छीघ्रमुत्थिता ६२।
एतस्मिन्नंतरे प्राप्तो राक्षसो भीषणाकृतिः ।
त्रिपादः पंचहस्तश्च सप्तनेत्रोऽतिदारुणः ६३।
पिंगलो व्याघ्रकर्णश्च सिंहस्कंधस्तथाननः ।
विहंगेशसमाः केशा लंबंते रुधिरारुणाः ६४।
तं दृष्ट्वा पद्मकोशांगी सहसा सभयाभवत् ।
नेत्रे कराभ्यामाच्छाद्य चकंपे कदलीव सा ६५।
प्रतिहारी प्रतोदं तु त्यक्त्वा राज्ञीमभाषत ।
भीतां मां त्राहि देवि त्वमयं धावति भक्षितुम् ६६।
एतस्मिन्नंतरे प्राप्तो राक्षसो रथसंनिधौ ।
रथमुत्क्षिप्य हस्तेन भ्रामयंश्चाश्विनीयुतम् ६७।
सा राज्ञी पतिता भूमौ मृगी व्याघ्रभयादिव ।
स्मरदूती तरोर्मूले छिन्नाशोकलता यथा ६८।
ततस्ताश्चाश्विनीः सर्वाः भक्षयामास राक्षसः ।
तेन राज्ञी धृता हस्ते सिंहेनैणवधूरिव ६९।
तामुवाच ततो रक्षः प्राणैस्ते कारणं यदि ।
तव भर्ता हतः संख्ये हरेणेति श्रुतं मया ७०।
मामासाद्याद्य भर्तारं चिरंजीवाकुतोभया ।
पिबाथ वारुणीं स्वाद्वीं महामांससमन्विताम् ।
शृण्वंतीति वचो राज्ञी गतसत्वा इवाभवत् ७१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे जालंधरोपाख्याने श्रीमन्माधवमायाकथनंनाम चतुर्दशोऽध्यायः १४।