पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १७७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७६ पद्मपुराणम्
अध्यायः १७७
वेदव्यासः
अध्यायः १७८ →

श्रीभगवानुवाच
जनस्थाने जडो नाम द्विजन्मा कौशिकान्वयी
हित्वा जात्युचितं धर्मं वणिग्वृत्त्यां मनो दधे १
व्यसनी परदारेषु दीव्यन्नक्षैः पिबन्मधु
मृगया निरतो नित्यं कालमेवं निनाय सः २
क्षीणे वित्ते ततो रात्रौ चौर्यामारब्धवांस्ततः
प्रतिपेदे धनं तेन यज्वनां यष्टुमर्थिनाम् ३
स दूरमगमत्तेन वाणिज्यायोत्तरां दिशम्
कस्तूरिमगुरुं कृष्णं चामरांश्चंद्रिकोज्ज्वलान् ४
गृहीत्वा वृत्य चानिन्ये पंचषादध्वयोजनात्
अथापरस्मिन्नहनि प्रियादर्शनदोहनि ५
दूरमध्वानमुल्लंघ्य रवावस्तमिते सति
ध्वांते प्रसर्पति स्वैरं दिशो दश तरोस्तले ६
गतो वशं सदस्यूनां निजघ्ने तैश्च सत्वरम्
धर्मलोपादसौ जज्ञे घोरश्चोग्रतरो ग्रहः ७
पिपासितो बुभुक्षार्तो लेलिहानश्च सृक्किणी
उर्ध्वकेशोऽतिजंघालुः पृष्टलग्नोदरो महत् ८
अस्थिमात्रशरीरोऽभूद्दुर्वृत्तनयनो भृशम्
अत्रांतरे सुतस्तस्य धर्मात्मा वेदकोविदः ९
पर्यपालयदत्यर्थं दिदृक्षुस्तं तदागमत्
नित्यमन्वेषयन्वार्त्तां पांथेभ्यो नोपलब्धवान् १०
ततः कदाचिदायाते सहायिनि च मानवे
तस्माद्विदितवृत्तांतः शुशोच पितरं बहु ११
ततो विमृश्य मेधावी चिकीर्षुः पारलौकिकम्
वाराणसीं ससंभारः स गंतुमुपचक्रमे १२
मार्गे निवासान्सप्ताष्टौ नीत्वा तस्य तरोस्तले
संध्यां प्रचक्रमे कर्तुं यत्रास्य निहतः पिता १३
तत्राध्यायं स गीतानां तृतीयं संजजाप ह
ततो घोरस्वरस्तत्र व्योममध्ये परामृशत् १४
ददर्श घोरमाकाशात्पतंतं पितरं ततः
विस्मयेन भयेनापि विकलीकृतचेतनः १५
तेजसा भूयसा व्याप्तमालुलोके पुरोऽम्बरे
किंकिणीकोटिसंकीर्णं तेजसा व्याप्तदिङ्मुखम् १६
विमानमग्रतोऽपश्यद्दिव्यमध्यग्रचेतनः
तत्रापश्यत्समारूढं दिव्याभिः स्त्रीभिरावृतम् १७
संस्तूयमानं मुनिभिः पितरं पीतवाससम्
प्रणतस्तं समालोक्य युयुजे तेन चाशिषा १८
ततोऽपृच्छदिदं वृत्तं स च तस्मै न्यवेदयत्
दुस्त्यजात्कर्मणो वत्स वपुषो पुण्यकारणात् १९
मोचितोऽस्मि त्वया दैवादध्यायं जपतांतिके
तन्निवर्त्तस्व जपतः सांप्रतं त्वामुपस्थितम् २०
वाराणसीं यदर्थं यत्तदनुष्ठितमात्मनः
श्रीभगवानुवाच
एवमुक्तः स च प्राह पितरं दीप्ततेजसम् २१
सुत उवाच
हितं ममानुशाधि त्वं कार्यमन्यन्मयानु किम्
श्रीभगवानुवाच
ततः प्राह पिता पुत्रं कार्यमेतत्त्वयानघ २२
यन्मयाचरितं कर्म भ्रात्रा मम तु तत्कृतम्
स यातो नरकं घोरं तं मोचयितुमर्हसि २३
अन्ये मदन्वये ये वै निरयं प्रतिपेदिरे
ते च मोचयितव्यास्ते इति मेऽस्ति मनोरथः २४
इत्येवमुक्तः पुत्रस्तं पुनः प्राह कृतांजलि
कर्मणा केन तान्सर्वान्मोचयामि तदादिश २५
एवं निवेदितो वाक्यं पिता सुतमुवाच ह
पितोवाच
येनाहं मोचितो वत्स तदनुष्ठातुमर्हसि २६
अनुष्ठाय तदुत्पन्नं तेभ्यः पुण्यं समुत्सृज
ततोऽहमिव ते सर्वे पूर्वे संत्यज्य यातनाम् २७
गमिष्यंत्यचिरेणैव तद्विष्णोः परमं पदम्
स संदिष्टोवदत्पुत्रो यद्येवं तात नारकान् २८
सर्वानपि विमोक्ष्यामि यदि ते रोचते वचः
एवमस्तु शिवं भूयादुपपन्नं महत्प्रियम् २९
इत्यादिश्य पिता पुत्रं ययौ विष्णोः परं पदम्
सोऽपि तस्मात्परावृत्त्य जनस्थानं प्रपद्य च ३०
सुंदरस्य पुरः शौरेश्चालये कालमभ्यगात्
स कुर्वाणोःसमादीनि पित्रा च यदुदीरितम् ३१
उत्ससर्ज कृतं पुण्यं मोचयिष्यन्स नारकान्
अत्रांतरे पदे विष्णोर्यातनापदमीयुषः ३२
नारकान्मोचयिष्यंतः किंकरा यममभ्ययुः
तेन ते पूजिताः सर्वे सत्क्रियाभिरनेकधा ३३
कुशलं परिपृष्टास्ते सर्वतः सुखमूचिरे
एमं सत्कृत्य मेधावी पितृलोक महेश्वरः ३४
हेतुमागमने पृच्छत्ते च तस्मै न्यवेदयन्
विद्धि कीनाशनाथ त्वं शेषपर्यंकशायिना ३५
शौरिणा प्रहितानस्मान्समादेष्टुं त्वदंतिके
अस्मन्मुखेन देवस्त्वां कुशलं परिपृच्छति ३६
नारकान्प्राणिनः सर्वान्विमोक्तुं च नियच्छति
इत्याकर्ण्य समादिष्टं विष्णोरमिततेजसः ३७
न तेन मूर्ध्ना संभाव्य दध्यौ किंचन चेतसा
विमुक्तान्निरयात्सर्वांस्तान्विलोक्य मदोत्कटान् ३८
स तैरनुगतः सर्वैर्विष्णोरायतनं ततः
ययौ स वरयानेन यत्रास्ते दुग्धवारिधिः ३९
तदंत उदितानेकसूर्यकोटिसमप्रभम्
इंदीवरदलश्याममालुलोक जगद्गुरुम् ४०
शय्याफणिफणारत्नमरीच्यामिश्रतेजसम्
विलोक्यमानमानंदनिर्भरं प्रीतमानसम् ४१
भावानुगैर्दृगालीकैः श्रिया प्रेम्णेक्षितं मुहुः
योगिभिः परितो जुष्टं ध्याननिष्पंदतारकैः ४२
स्तूयमानं महेंद्रेण पराजेतुं विरोधिनः
आम्नायवचसामंते ब्रह्मणो निःसृतैर्मुखात् ४३
मूर्तिमद्भिर्वचोभिश्च गीयमानं गुणोत्करम्
संप्रीतं चाप्युदासीनमपि सर्वासु योनिषु ४४
योगसंचितपुण्यानां यौगपद्येन जंतुषु
विलोकमानमात्मानमखिलं सचराचरम् ४५
आमोद्यन्नमालोकैरात्मानं दीप्तिपूरितैः
आबिभ्राणं वपुर्व्यापि द्योतितं भोगिनस्विषा ४६
इंदीवरदलश्यामं ज्योत्स्नयेव नभस्तलम्
विलोक्य तं स तुष्टाव धिया बहुलयानतः ४७
यम उवाच
नमः समस्तनिर्माणनिर्मलीभूतचेतसे
वद नोद्गीर्णवेदाय विश्वरूपाय वेधसे ४८
बलवेगसुदुर्द्धर्ष दानवेंद्र मदद्रुहे
नमः स्थितौ च सत्वाय विश्वाधाराय विष्णवे ४९
नमः पातकसंघात जिष्णवेऽखिलदेहिनाम्
ईषदुन्मीलल्लालाटनेत्राग्निप्रभवार्चिषे 6.177.५०
त्वं हि सर्वस्य लोकस्य गुरुरात्मा महेश्वरः
विसृज्य वैष्णवान्सर्वानतस्त्वमनुकंपसे ५१
व्यापयन्नखिलं लोकं मायया परिबृंहितम्
न तया परिभूतोऽसि न च तत्प्रभवैर्गुणैः ५२
अंतरावर्तमानोऽपि न ताभ्यामभिभूयसे
दृशा विषयवर्तिन्या निग्रहीतमना अपि ५३
तया फलाभिगामिन्या आत्मन्येवाभिलीयसे
न तवास्ति महिम्नोंतो यथा निरवधिः स्वयम् ५४
मौनमेवात्रयुक्तं मे विषयोऽसि कथं गिराम्
इति स्तुत्वा ततो वाक्यमिदमाह कृतांजलि ५५
विनियोगादमी युक्ता देहिनो निर्गुणा मया
समादिश यदन्यन्मे कार्यमस्ति जगद्गुरो ५६
इति विज्ञापितस्तेन तमाह मधुसूदनः
मेघगंभीरया वाचा सिंचन्निव सुधारसैः ५७
पापादुद्धार्य ते लोको मया समयवर्तिना
त्वयि विन्यस्तभारोऽहं नानुशोचामि देहिनः ५८
तदाचर निजं कर्म प्रयाहि स्वं निकेतनम्
श्रीभगवानुवाच
इत्युक्त्वांतर्दधे देवः सोऽपि स्वपुरमाययौ ५९
सोऽपि स्वजातिजान्सर्वान्निरयस्थाननेकशः
उद्धृत्य वरयानेन विष्णुलोकं ययौ स्वयम् ६०
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये सप्तसप्तत्यधिकशततमोऽध्यायः १७७

भगवद्गीतायाः तृतीयोध्यायः[सम्पाद्यताम्]