पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १७८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १७७ पद्मपुराणम्
अध्यायः १७८
वेदव्यासः
अध्यायः १७९ →

[१]श्रीभगवानुवाच।
चतुर्थस्यापि माहात्म्यमाख्यास्याम्यधुना शृणु ।
बदरीत्वं समुत्सृज्य येन कन्ये दिवं गते १।
श्रीरुवाच।
कथं कन्ये दिवं याते बदरीत्वं विसृज्य वै ।
ते कचास्तां पुरा देव कथं प्राप्ते तु मुख्यताम् २।
एतद्वेदितुमिच्छामि नाथ वक्तुं त्वमर्हसि ।
न तु तृप्यामि शृण्वंती परमां च कथामिमाम् ३।
श्रीभगवानुवाच।
अस्ति भागीरथी तीरे नाम्ना वाराणसी पुरी ।
भरतो[२] नाम युक्तात्मा तत्र विश्वेश्वरालये ४।
नित्यमात्मरतस्तुर्यं जपत्यध्यायमादरात् ।
तदभ्यासाददुष्टात्मा न द्वंद्वैरभिभूयते ५।
काले कदाचन क्रीडन्ययौ स नगराद्बहिः ।
उपांत्यवर्तिनो देवान्दिदृक्षुः स तपोधनः ६।
विशश्राम तयोर्मूले बदर्योर्न्यपतत्फले ।
उपधाय तयोरेकामन्यामालंब्य चांघ्रिणा ७।
तपस्विनि ततो याते बदर्योश्च तथार्द्वयम् ।
शुष्कं निष्पत्रशाखं च दिवसैः पंचषैरभूत् ८।
गृहे क्वचन विप्राणां जज्ञाते कन्यके ततः ।
वर्द्धमानं तयोर्युग्मं सप्तभिः परिवत्सरैः ९।
विहृत्य दूरदेशेभ्यो यतिमायांत मैक्ष्यत ।
गृहीत्वा चरणौ तस्य वचः सूनृतमब्रवीत् १०।
त्वत्प्रसादादेव मुने मोचितं द्वंद्वमावयोः ।
उत्सृज्य बदरीभावं मानुष्यं प्रतिपद्यते ११।
एवमुक्तो मुनिस्ताभ्यां विस्मृतः प्रत्युवाच सः ।
कदा वत्से युवां केन हेतुना मोचिते मया १२।
युवयोर्बदरीत्वे च हेतुं ब्रूतां न वेद्म्यहम् ।
ऊचतुः कन्यके तस्मै बादर्ये हेतुमात्मनः १३।
आदौ विमोचने तस्माद्दुस्त्यजादपि कारणम् ।
अस्ति गोदावरी तीरे तीर्थं पुण्यप्रदं नृणाम् १४।
च्छिन्नपापमिति ख्यातं परां कोटिमवापयत् ।
तत्र सत्यतपा नाम तपस्तेपे सुदारुणम् १५।
ग्रीष्मे महति दीप्तानां मध्यगो जातवेदसाम् ।
वर्षासु जलधाराभिर्नित्यमासिक्तमूर्द्धजः १६।
शिशिरे च वसन्नप्सु बिभ्रत्कंटकितां तनुम् ।
विशुद्धः सततं काले तपस्तप्त्वा स संयमी १७।
आत्मन्येव मतिं चक्रे परां प्राप्य सुनिर्वृतिम् ।
सदा फलानि बिभ्रत्सु सांद्रच्छायेषु शाखिषु १८।
निर्मत्सरेषु सत्वेषु बध्वा प्रीतिपरामपि ।
तपःफलानुसंधाने वैदुष्येनोपपादितम् १९।
ब्रह्माप्येनं स्वयं पृच्छन्नुपतस्थे तमन्वहम् ।
तेन संकोचहीनत्वाद्ब्रह्यण्यनुगतेन्वहम् २०।
तद्ध्यानानुगतव्यक्ति ववृधे तस्य तत्तपः ।
विमुक्तकल्पं मन्वानः समृद्धादात्मनः पदात् २१।
अंतरायशतं चक्रे ततो भीतः पुरंदरः ।
आहूयाप्सरसां मध्यादावां तुल्यं समादिशत् २२।
कुरुतं तत्तपोविघ्नमनेनाचरितं युवाम् ।
यो मां पदादवष्टभ्य स्वराज्यं भोक्तुमिच्छति २३।
इति संदेशमापन्ने पुरस्ताच्च बिडौजसः ।
गोदावरीमगच्छावः स मुनिर्यत्र वर्तते २४।
मृदंगैर्मंदगंभीरैर्वेणुभिः कलवादिभिः ।
कलं गीतं समारब्धं तन्वंगीभिः समन्वितम् २५।
उद्वहंत्यौ पृथुश्रोणीं घनपीनपयोधरे ।
स्मयस्मेरमुखांभोजे किंचिदाकुंचितालके २६।
मणिकुंडलदृष्टांसे पुंडरीकोज्ज्वलेक्षणे ।
तनुमध्ये सुवृत्तोरु वहंत्यौ च समे पदे २७।
आनर्तां यो वनस्यार्थे स्वरताललयानुगाम् ।
दर्शयंत्यौ स्वतः कृत्स्नां गतिं भावानुगामिनीम् २८।
मृदूपक्रममुत्पन्नं मंदं मंदं विवर्द्धनम् ।
गर्जयामास दिक्चक्रं तत्तयोर्नृत्यमानयोः २९।
ततोंगहारवेगेन वायुर्वासः सुशीतलः ।
ईषदुच्छ्वसिते चैले दर्शयंत्यौ पयोधरौ ३०।
उद्वर्धयंती कंदर्प्पमुल्बणा गतिरावयोः ।
कोपमुत्पादयामासु मुने रविकृतात्मनः ३१।
ततः शापं ददौ कोपाज्जलमुत्सृज्य पाणिना ।
बदरीत्वं प्रपद्येथां जाह्नवी रोधसीति नौ ३२।
आवाभ्यां पारतंत्र्येण यद्दुश्चरितमास्थितम् ।
तत्क्षमस्व विनम्राभ्यां मुनिः पश्चात्प्रसादितः ३३।
ततः शापविमोक्षं नौ कल्पयामास पुण्यधीः ।
भरतागमनांतोयमिति सत्यतया मुनिः ३४।
मर्त्येषु जन्मलाभश्च स्मृतिश्चातीतजन्मनाम् ।
आवयोरंतिकं गत्वा बदरीभूतयोस्ततः ३५।
स्मरता तुर्यमध्यायं भवता निष्कृतिः कृता ।
तत्तावत्प्रणमावस्त्वां शापादेव न केवलात ३६।
घोरादेव तु संसारात्त्वयैतेन विमोचिते ।
श्रीभगवानुवाच।
एवमुक्तो मुनिस्ताभ्यामतिप्रीतमनास्ततः ३७।
पूजितस्ते समामंत्र्य यथागतमसौ ययौ ।
कन्ये चतुर्थमध्यायं जपेतां नित्यमादरात् ३८।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे गीतामाहात्म्ये अष्टसप्तत्यधिकशततमोऽध्यायः १७८।

भगवद्गीतायाः चतुर्थोध्यायः(ज्ञानकर्मसंन्यासयोग)[सम्पाद्यताम्]

  1. हिन्दी रूपान्तरणम्
  2. द्र. ब्रह्मौदनोपरि टिप्पणी, भरतोपरि टिप्पणी, भरतस्य आध्यात्मिकस्वरूपम्, भरतोपरि पौराणिकसंदर्भाः