पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १८२
← अध्यायः १८१ | पद्मपुराणम् अध्यायः १८२ वेदव्यासः |
अध्यायः १८३ → |
[१]शिव उवाच।
अष्टमाध्यायमाहात्म्यं शृणु वक्ष्यामि पार्वति ।
यस्य श्रवणमात्रेण परां मुदमवाप्स्यसि १।
आमर्दकं पुरं नाम्ना विश्रुतं दक्षिणापथि ।
द्विजन्मा [२]भावशर्मेति तत्रासीद्गणिकापतिः २।
खादन्मांसं पिबन्मद्यं चोरयन्साधुसंपदः ।
रममाणः परस्त्रीभिराखेटक कुतूहली ३।
अत्यवाहयदत्युग्रो गरीयांसं मनोरथम् ।
सुहृदां विटगोष्ठ्यां च तालीफलसुधारसम् ४।
निपीय कंठपर्यंतमजीर्णेनातिपीडितः ।
मृतः कालेन पापात्मा जातस्तालीतरुर्महान् ५।
तस्यच्छायामुपाश्रित्य निबिडामतिशीतलाम् ।
अभूतां दंपती कौचिद्ब्रह्मराक्षसतां गतौ ६।
देव्युवाच।
किं जातीयौ किमात्मानौ किंवृत्तावित्युदीरय ।
कर्मणा केन वा देव ब्रह्मराक्षसता तयोः ७।
शिव उवाच।
वेदवेदांगतत्वज्ञः सर्वशास्त्रार्थकोविदः ।
सदाचारोऽभवत्कश्चिद्दिवजो नाम कुशीवलः ८।
जाया च तस्य कुमति नामधेया दुराशया ।
स सभार्यो महादानान्याददानोऽतिलोभवान् ९।
महिषीं कालपुरुषं हयादीननुवासरम् ।
अप्रयच्छन्द्विजातिभ्यो दानलब्धां वराटिकाम् १०।
कालेन दंपती प्रेतौ ब्रह्मराक्षसरूपिणौ ।
पर्यटंतौ महीमेतां क्षुत्तृषाकुलविग्रहौ ११।
विशश्रमतुरागत्य मूलं तालीतरोस्ततः ।
कथमेतन्महादुःखमावयोरपगच्छति १२।
कथं वा जायते मुक्तिर्ब्रह्मराक्षसयोनितः ।
इति पृष्टो गृहिण्याऽसौ ब्राह्मणः समभाषत १३।
ब्रह्मविद्योपदेशेन विनाध्यात्मविचारणात् ।
विनाकर्मविधिज्ञानात्कथं मुच्येत संकटात् १४।
भार्योवाच।
किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
एतावदुक्ते तत्पत्न्या यदाश्चर्यमभूच्छृणु १५।
अष्टमाध्यायश्लोकार्द्धश्रवणात्स तरुस्तदा ।
विहाय तालीरूपं तद्बभूव द्विजसत्तमः १६।
सद्योज्ञानविधूतात्मा विमुक्तः पापकंचुकात् ।
तन्माहात्म्याद्विनिर्मुक्तौ दंपती तौ बभूवतुः १७।
एतावदेव मुक्तं च दैवान्निर्गत्य तन्मुखात् ।
ततोंतरिक्षादायांतं क्वणत्किंकिणिकं शुभम् १८।
दिवि दिव्यांगनावक्त्रचंद्रमंडलमंडितम् ।
अप्सरोवदनांभोज भ्राम्यद्भ्रमरसंकुलम् १९।
निर्मथ्यमानदुग्धाब्धि वेलाडिंडिरपांडुरैः ।
गंगातरंगसुभगैश्चामरैरुपशोभितम् २०।
गायद्गंधर्वसुभगं नृत्यत्सुरवधूशतम् ।
दिव्यं विमानमारूढौ दंपती जग्मतुर्दिवम् २१।
अत्रत्यं वृत्तमखिलमेतद्विस्मयकारकम् ।
ततो लिलेख मेधावी श्लोकार्द्धमिदमादरात् २२।
ययौ वाराणसीं नाम नगरीं मुक्तिदायिनीम् ।
आराधयितुमन्विच्छन्देवदेवं जनार्दनम् २३।
स तत्र कर्तुमारेभे तपः परमुदारधीः ।
अत्रांतरे जगन्नाथो देवदेवो जनार्दनः २४।
पृष्टो दुग्धाब्धिसुतया संयोज्य करसंपुटम् ।
निद्रापथं विहायैव स्थीयते कथ्यतामिति २५।
श्रीभगवानुवाच।
काश्यां भागीरथी तीरे तपस्यतितरां द्विजः ।
भावशर्माति मेधावी मद्भक्तिरसपूरितः २६।
जपन्गीताष्टमाध्यायश्लोकार्द्धं नियतेंद्रियः ।
संतुष्टवानहं देवि तदीयतपसा भृशम् २७।
चिरं विचारयन्नेव तत्तपः सदृशं फलम् ।
दातुमुत्कंठितमना वर्तेयं सांप्रतं प्रिये २८।
पार्वत्युवाच।
हरिः प्रसन्नभूतोऽपि चिंतां प्राप यदि प्रभो ।
भावशर्मा हरेर्भक्तः प्राप्तः किं तत्फलं पुनः २९।
श्रीमहादेव उवाच।
ततः प्रसादमासाद्य प्रसन्नस्य मुरद्विषः ।
सुखमात्यंतिकं प्राप भावशर्मा द्विजोत्तमः ।
लेभिरे पदवीं सर्वे तदीया अपि वंशजाः ३०।
तत्कर्मवशतो ये वै संप्राप्ता यातनां पुरा ।
एतदेवाष्टमाध्यायमाहात्म्यं किंचिदेव ते ३१।
कथितं मृगशावाक्षि द्रष्टव्यं तु सदैव च ३२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सा० उत्तरखंडे गीतामाहात्म्ये द्व्यशीत्यधिकशततमोऽध्यायः १८२।