पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १८३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १८२ पद्मपुराणम्
अध्यायः १८३
वेदव्यासः
अध्यायः १८४ →

[१]श्रीमहादेव उवाच।
अतः परं प्रवक्ष्यामि नवमाध्यायमादरात् ।
संशृणुष्व स्थिरीभूय तुहिनाचल कन्यके १।
अस्ति [२]माहिष्मतीनाम नगरी नर्मदातटे ।
तत्रासीन्माधवो नाम द्विजन्मा स शिवो द्विजः २।
वेदवेदांगतत्वज्ञः कालेकालेऽतिथिप्रियः ।
अर्जयित्वा बहुधनं विद्ययैव विशुद्धधीः ३।
महांतमध्वरं कर्तुं समारेभे कदाचन ।
आलंभनार्थमानीतश्छागः पूजितविग्रहः ४।
वाचमूचे हसन्नुच्चैर्जगद्विस्मयकारकः ।
किमेतैर्बहुभिर्यागैर्विधिवद्विहितैरपि ५।
विनश्वरफलैर्जन्म जरामरणहेतुभिः ।
एतावत्यपि मे विप्र दशेयं दृश्यतामिति ६।
छागस्यैवं वचोतीव कुतूहलपरं जनाः ।
निशम्य विस्मयं याताः कृतमंडपवासिनः ७।
ततो बद्धांजलिपुटो द्विजातिस्तिमितेक्षणः ।
प्रणम्य श्रद्दधानस्तमपृच्छच्छागमादरात् ८।
द्विज उवाच।
किं जातीयः किमात्मा त्वं किं वृत्तमिति मे वद ।
केन वा कर्मणा वासीच्छागत्वमिति कारणम् ९।
छाग उवाच।
आसं पुरा द्विजातीनामन्वये चातिनिर्मले ।
आहर्ता क्रतुसंघानां वेदविद्याविशारदः १०।
एकदा मम गेहिन्या पुत्ररोगप्रशांतये ।
छागः प्रयाचितो मत्तः चंडिकाभक्तिनम्रया ११।
ततो निहन्यमानस्य चंडिकामंडपस्थले ।
छागस्य जननी मां तु शशाप ब्रह्मवादिनी १२।
अशास्त्रीयाध्वना पाप मत्सुतं यज्जिघांससि ।
द्विजात्यधमतेन त्वमजा योनिमवाप्स्यसि १३।
ततोऽहं प्रेत्यकालेन छागोऽभूवं द्विजोत्तम ।
निस्तीर्य चानेकविधा योनिसंतापयातनाः १४।
विप्र उवाच।
जातिस्मरत्वमप्यस्ति पशुयोनिमुपेयुषः ।
त्वदीयजन्मशुश्रूषा कुतूहलरसोन्मुखम् १५।
छाग उवाच।
मनः सर्वान्द्विजानेतानपि तत्कथयाखिलम् ।
कदाचिन्मर्कटो भूवमाहितुंडिकशिक्षया १६।
क्रीडद्भिर्वीक्षितो डिंभैर्नृत्यन्प्रतिगृहांगणे ।
उदारानात्मनो दारान्विलोक्य तनयानपि १७।
क्रियापराङ्मुखो जातस्त्यक्तनर्तनसंभ्रमः ।
ततो वर्तुलदंडैश्च दुःसहैराहितुंडिकः १८।
मामुच्चैस्ताडयांचक्रे रुषा लोहितलोचनः ।
ततोऽहं मूर्च्छितोऽभूवं क्षरत्क्षतजसंततिः १९।
आजिघ्रन्नन्नमुदकमगमं कालधर्मताम् ।
ततोऽहमासीच्छुनकः परिभ्राम्यन्गृहे गृहे २०।
कुक्षिं भरिरहं मार्गे त्यक्तोच्छिष्टान्नभक्षकः ।
कदाचिदाविशं स्वांतरात्मवेश्ममहानसम् २१।
बुभुक्षितो भक्षयितुं स्थाली स्थापितमोदनम् ।
जिघ्रन्भूमितलं पश्यन्दिशो दश शनैर्भयात् २२।
शंकमानो जनरवात्पार्श्वे च विलिहन्निव ।
ततः कदाचिदागत्य वीक्षितस्तनुजैर्निजैः २३।
जायया च जरत्याहं ताडितो लकुटादिभिः ।
ततो भग्नकटिर्यातो बहुशोणितमुद्वहन् २४।
निर्जगाम बहिर्गेहात्कथंचिन्मूर्च्छयाकुलः ।
अंगेषु पूतिगंधेषु क्रिमिगर्भेषु कालतः २५।
ततः कदश्वतां प्राप्तः शौंडिकस्य च वेश्मनि ।
अश्वोभवमहं विद्वन्मृतः कालक्रमादिह २६।
कदाचिच्चत्वरे तेन समानीतो जनाकुले ।
विक्रयाय जरालीढ पतयालुरदावलि २७।
जायया द्वारकायात्रां कर्तुमुद्यतयासकृत् ।
मौल्येनाल्पीयसा क्रेतुं तुरंगं चेष्टमानया २८।
जगृहेहं तया दाम्ना अल्पेन वसुना जरन् ।
गंतुं चारभतद्वित्रैः पुत्रैरारुह्य मां समम् २९।
शनैः शनै सरस्तीरे मग्नोऽहं गाढकर्दमे ।
तत्राहं कुटिलग्रीवश्चापतन्कर्दमान्तरे ३०।
ताड्यमानो मुहुः पुत्रैः लकुटोपलपाणिभिः ।
उत्थाप्यमानो बहुधा प्राणान्मोचितवानहम् ३१।
ततो निश्चित्य मां तत्र मृतं भग्नोद्यमाः सुताः ।
आक्रुश्य मातरं दीनां प्रावृत्य निर्ययुर्गृहम् ३२।
ततः संप्रेत्य बहुना कालेन छागतां गतः ।
निस्तीर्णानेकहीनोच्च योनिसंतापयातनः ३३।
द्विज उवाच।
किमनेन महाछाग दुःखजातेन नित्यशः ।
यथावदंजसा मह्यं सुखमात्यंतिकं भवेत् ३४।
छाग उवाच।
आश्चर्यं कथयिष्यामि पुनरन्यदपि द्विज ।
स्वस्थमापृच्छमानस्य तवास्ति यदि कौतुकम् ३५।
अस्ति नाम्ना [३]कुरुक्षेत्रं नगरं मोक्षदायकम् ।
सूर्यवंशोऽभवत्तत्र चंद्रशर्मा महीपतिः ३६।
सूर्योपरागसमये श्रद्धया परयान्वितः ।
दानं स कालपुरुषं[४] दातुं समुपचक्रमे ३७।
समाहूय द्विजन्मानं वेदवेदांगपारगम् ।
स्नातुं पुण्योदकैः पुण्यैर्ययौ सार्द्धं पुरोधसा ३८।
अथोच्चैः कालपुरुषो वाचमूचे हसन्निव ।
अन्येनैव प्रगृह्णंति क्षेत्रे चाण्वपि किंचन ३९।
सूर्योपरागसमये कुरुक्षेत्राभिधे स्थले ।
दानं च कालपुरुषं जिघृक्षसि कथं द्विज ४०।
ज्ञात्वापि निश्चितं सर्वमेतत्पातककारकम् ।
प्रवर्तसे कथं कर्तुं धनलोभान्धया धिया ४१।
इत्थमाकर्ण्य तद्वाक्यं जगद्विस्मयकारकम् ।
किमनेन महादानभयेनेत्यवदद्द्विजः ४२।
एवंविध महादान पातकागाधवारिधिम् ।
जानामि तरितुं सम्यगुपायमहमेव हि ४३।
ततः स्नात्वा महीपालः परिधाय च वाससी ।
शुचिः प्रसन्नहृदयः सितमाल्यानुलेपनः ४४।
अवलंब्य करांभोजं पार्श्ववर्तिपुरोधसः ।
समाययौ सेव्यमानः स तत्कालोचितैर्जनैः ४५।
समागत्य च भूपालः संप्रादात्कालपूरुषम् ।
यथोचितेन विधिना तस्मै भक्त्या द्विजन्मने ४६।
निर्भिद्य कालपुरुषहृदयं निर्दयोदयः ।
पापात्मा निर्ययौ कश्चिच्चांडालो रक्तलोचनः ४७।
किंच प्रापितकालस्य परनिंदारसोत्सवे ।
निंदा चांडालिका देहपार्श्वमागाद्द्विजन्मनः ४८।
एतच्चांडालयुगलं निर्गत्यारुणलोचनम् ।
ततः संचरितं चक्रे प्रसह्यांगे द्विजन्मनः ४९।
गीतानां नवमाध्यायं जपन्नेव हृदिस्थितः ।
कंपमानं द्विजं किंचित्तूष्णीं पश्यति भूपतौ 6.183.५०।
अंतर्निद्राणगोविंदं कंपमानमिवांबुधिम् ।
मरुदांदोलनैर्विद्वान्द्विजन्मा पापसंश्रयम् ५१।
ततो गीताक्षरोद्भूतैर्वैष्णवैः परिपीडितम् ।
पलायमानं चांडालयुगलं निष्फलोद्यमम् ५२।
तन्निश्चक्राम वेगेन द्विजातेः पार्श्ववर्ति यत् ।
शरीरे वर्त्तमानं च परनिंदारसोत्सवे ५३।
इत्थं कलितवृत्तांतः प्रत्यक्षं क्षितिवल्लभः ।
पर्यपृच्छद्द्विजन्मानं विस्मयस्मेरलोचनः ५४।
कथमापदियं घोरा निस्तीर्णा महती त्वया ।
कं मंत्रं जपता विप्र कं वासं स्मरतासुरम् ५५।
कः पुमान्का च सा योषित्कथमेतावुपस्थितौ ।
कथं च शांतिमापन्नावित्युदीरय मे द्विज ५६।
द्विज उवाच।
चांडालमूर्तिमासाद्य मूर्तिकिल्बिषमुल्बणम् ।
योषिन्मूर्त्तिमयीं निंदाद्वयमेतदवैम्यहम् ५७।
गीताया नवमाध्यायमंत्रमाला मया स्मृता ।
तन्माहात्म्यमिदं सर्वं त्वमवेहि महीपते ५८।
गीताया नवमाध्यायं जपामि प्रत्यहं नृप ।
निस्तीर्णाश्चापदस्तेन कुप्रतिग्रहसंभवाः ५९।
अभ्यस्य नवामाध्यायं राजा तस्माद्द्विजन्मनः ।
तावुभावपि लेभाते परां निर्वृतिमुत्तमाम् ६०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे गीतामाहात्म्ये त्र्यशीत्यधिकशततमोऽध्यायः १८३।

भगवद्गीता नवमोध्यायः[सम्पाद्यताम्]

  1. [यूट्यूब उपरि हिन्दीरूपान्तरणम्]
  2. [| महिष उपरि टिप्पणी]
  3. [| कुरु उपरि टिप्पणी], गया चैव कुरुक्षेत्रं तीर्थं कनखलं तथा ॥ विमलं चाट्टहासं च माहेन्द्रं भीमसंज्ञकम् ॥ गुह्याद्गुह्यतरं ह्येतत्प्रोक्तं वाय्वष्टकं तव ॥ - स्कन्दपु. [| ७.१.१०.१०], तु. यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् । तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥भगवद्गीता [| ९- ६]॥
  4. द्र. [| काल एवं कालपुरुष उपरि टिप्पणी]