पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ००४
← अध्यायः ००३ | पद्मपुराणम् अध्यायः ००४ वेदव्यासः |
अध्यायः ००५ → |
पद्मपुराणम्/खण्डः ६ |
---|
नारद उवाच-
क्रमेण वर्द्धमानोऽसौ बाल्यभावे स बालकः ।
निपत्य मारुतोत्संगे सागरं प्रति धावति १।
आनीय चक्रे स च पंजरस्थान्क्रीडापरः केसरिणां किशोरान् ।
सिंहादिनेभादिनि युद्धमेवं युधोपयोगीव तदीय वीर्यम् २।
तस्मादाकाशमुत्पत्य खेचरान्पातयेद्भुवि ।
गर्जितैर्भीषयामास स्वर्गं हि सह सागरम् ३।
समुद्रांतर्गतं सर्वं सत्वजातं तु पार्थिव ।
ग्रस्तं सिंधुसुतेनेति तद्भयाच्छन्नतां गतम् ४।
दृष्ट्वा निःसत्वकं तोयं तद्भयाद्वडवानलः ।
निजदेशं परित्यज्य प्रविवेश हिमालयम् ५।
स बालत्वं परित्यज्य क्रमेणार्णवनंदनः ।
ततो नवं वयः प्राप्य विक्रमेणाक्रमद्दिवम् ६।
एकदा पितरं प्राह समुद्रं सिंधुनंदनः ।
मन्निवासोचितं स्थानं देहि तातातिविस्तृतम् ७।
संबुद्ध्य वचनं सूनोः स जगाद महार्णवः ।
पुत्र दास्याम्यहं राज्यं तव वा भुवि दुर्ल्लभम् ८।
अनंतरं दैत्यगुरुः समुद्रं भार्गवो गतः ।
तमागतं विलोक्याब्धिर्विधिना समपूजयत् ९।
अथ नदिपतिदत्ते प्राप्तसौंदर्यनिर्यन्मणिमहसि स तस्मिन्नासने सन्निविष्टः ।
रुचिररुचि सुमेरोः सुंदरे शृंगभागे कमलजइव कांतिं किंचिदुच्चैर्जहार १०।
कृतांजलिपुटो भूत्वा व्याजहारार्णवः कविम् ।
दिष्ट्या तवात्रागमनं वद किं करवाण्यहम् ११।
तदा दैत्यकुलाचार्यः प्राह तं सागरं कविः ।
किं तेन जातु जातेन मातुर्यौवनहारिणा १२।
प्ररोहति नयः स्वस्य वंशस्याग्रे ध्वजो यथा ।
तवात्मजो विक्रमेण त्रैलोक्यं भोक्ष्यति ध्रुवम् १३।
जंबूद्वीपे महापीठं योगिनीगणसेवितम् ।
आप्लावितं त्वयेदानीं मुंच जालंधरालयम् १४।
तत्र राज्यं प्रयच्छास्मै तनयाय महार्णव ।
अजेयश्चाप्यवध्यश्च तत्रस्थोऽयं भविष्यति १५।
एवमुक्तोऽर्णवः प्रीत्या भार्गवेणाथ लीलया ।
अपासर्पत्सुतप्रीत्यै जले स्थलमदर्शयत् १६।
शतयोजनविस्तीर्णमायतं च शतत्रयम् ।
देशं जालंधरं पुण्यं तस्य नाम्नैव विश्रुतम् १७।
दैत्यवर्यं समाहूय मयं प्रोवाच सागरः ।
पुरं जालंधरे पीठे कुरु जालंधराय वै १८।
अंभोधिनैवमुक्तस्तु चक्रे रत्नमयं पुरम् ।
प्राकारगोपुरद्वारं सोपानगृहभूमिकम् १९।
यत्रेंद्रनीलसंबद्धप्रासादतल संस्थिताः ।
मेनिरे जलदोद्योगं तांडवस्थाः शिखंडिनः २०।
यत्र प्रवालमाणिक्य भवनोत्था मरीचयः ।
सेव्यंते शकुनैश्चूतरुचिरांकुरशंकया २१।
यत्र कांचनहर्म्येषु त्विषो वह्निषु कातराः ।
विलोक्य प्रपलायंते दावशंकाः शिखंडिनः २२।
यत्र स्फटिकशालोत्थ प्रभासं मिश्रिता दिशः ।
विभांति मंदरोद्भ्रांताः सफेनार्णवसंनिभाः २३।
यत्र मोहं स्वहर्म्येषु विभातालोकसंस्थिताः ।
चक्रिरे ललनाः पूर्णसांध्यचंद्रोपमाननाः २४।
यत्रेन्द्र नीप कादंब पवनोद्यानमोदिताः ।
चित्तं विशंत्यो नारीणां चक्रिरे मोहनज्वरम् २५।
यत्र लेख्यगतं नॄणां विलोक्य सुरतं जनः ।
संयाति द्विगुणं नूनं निजकांतारतोद्यमः २६।
यत्र वातायनोद्धूत धूपधूमस्य लेखयः ।
नभो बभूव तद्गंगाकालिंदीसंगमोपमम् २७।
यत्रानेकगृहोद्भूत प्रभया सकलं नभः ।
विभातींद्रायुधाकीर्णं शरन्मेघ इवोन्नतः २८।
यत्रानिशं भ्रमभ्रांताः सूर्यवाहाः प्रपीडिताः ।
विश्रामं यांति मध्याह्ने प्रासादशिरसि स्थिताः २९।
यत्रकुत्रच हर्म्येषु बिभ्रत्यो मालतीस्रजः ।
रात्रौ संभूतनक्षत्रा इव रेजुर्वरांगनाः ३०।
यत्र हाटकहिंदोल शृंखलाघर्षणोद्भवः ।
चकार सुंदरीं शब्दः स्फुटं मेरुभुवोभुवम् ३१।
साकं सरिद्भिः पुत्रस्योशनसा सह सागरः ।
तत्राभिषेकमकरोद्वादित्रैर्निज गर्जितैः ३२।
याः स्कंदस्य जगाद तारकजये देवः स्वयंभूः स्वयं स्वः साम्राज्यमहोत्सवेऽपि च शचीकांतस्य वाचस्पतिः ।
ताभिश्चित्रविंरिंचि वक्त्रसरसी हंसीभिराशास्महे वाणीभिर्वसुधाविवाहसमये मंत्रोत्सवैर्मंगलम् ३३।
महापद्मसहस्रं तु सैन्यमात्मोदरोद्भवम् ।
जालंधराय पुत्राय ददौ भीमं महोदधिः ३४।
जालंधराय शुक्रोऽपि प्रीत्या विद्यां निजां ददौ ।
मृतसंजीवनीं नाम्ना मायां रुद्रविमोहिनीम् ३५।
शस्त्रास्त्रविद्या अन्याश्च विधिना अब्धिसूनवे ।
यदन्यत्सकलं तस्मै व्याख्यातं कविना तदा ३६।
ततो जालंधरं पुत्रमभिषिच्यार्णवो ययौ ।
स्वस्थानं दिव्यदेहेन नदीभिः परिवारितः ३७।
दृष्ट्वा जालंधरो दिव्यपुरं गोपुरमंडितम् ।
व्यचरत्सह शुक्रेण द्विजसंघैः सुपूजितः ३८।
एतस्मिन्नंतरे दैत्याः पातालस्था महाबलाः ।
प्राप्ता जालंधरं सर्वे कालनेमिपुरोगमाः ३९।
ततो महाबला वीरा बलं क्षीरोदसंनिभम् ।
तस्य शुंभासुरं दैत्यं सेनापतिमकल्पयन् ४०।
बलं स्ववशगं कृत्वा कृत्वा भुवि स्थिरं जलम् ।
जालंधरस्तदा राज्यं पितृदत्तं चकार सः ४१।
अत्रांतरेऽप्सराः काचित्स्वर्णेत्यासीत्पुरा दिवि ।
तस्याः क्रौंचप्रसादेन वृंदानाम सुताभवत् ४२।
धात्रा विभवसंयुक्तं सौंदर्यं यत्कृतं पृथक् ।
तत्तदेकगतं द्रष्टुं वृंदागात्रं विनिर्मितम् ४३।
तां वृंदामतिचार्वंगीं प्रमदां जनमोहिनीम् ।
स्वर्णा जालंधरस्यार्थे ददौ शुक्राय याचते ४४।
शुक्र उवाच-।
कंदर्पस्य जगन्नेत्र शस्त्रेणाश्चर्यकारिणा ।
रूपेणानेन रंभोरु दीर्घायुः सुखिनी भव ४५।
निर्माय स्वयमेव विस्मितमनाः सौंदर्यसारेण यं।
स्वव्यापारपरिश्रमस्य कलशं वेधाः समारोपयत् ।
कंदर्पं पुरुषं स्त्रियो विदधते यस्मिन्न दृष्टे सति द्रष्टव्यावधि।
रूपमाप्नुहि पतिं तं दीर्घनेत्रं भटम् ४६।
उपयेमे विवाहेन गांधर्वेणार्णवात्मजः ।
वृंदां तौ दंपती जातौ जनानंदकरौ नृप ४७।
चंचलत्वं परित्यक्तं तया जालंधरोऽपि हि ।
वृत्तेन वृद्धकार्येण चकमे न परस्त्रियम् ४८।
कदाचित्स सभासीनो दृष्ट्वा राहुं शिरोहृतम्।
कस्मात्कायार्द्धशेषोऽयं इति पप्रच्छ भार्गवम् ४९।
स तस्य कथयामास पूर्ववृत्तांतमादितः ।
यथा निर्मथितो देवैः क्षीरोदोऽमृतकारणात् 6.4.५०।
तच्छ्रुत्वा विस्मितो वाक्यं प्राह जालंधरोऽसुरः ।
प्रसादसुमुखो राहुं कामरूपो भवाधुना ५१।
इति शुक्रस्य मंत्रेण सिंधुसूनुः प्रतापवान् ।
पितृव्यं संस्मरन्वीर विग्रहं त्वकरोत्सुरैः ५२।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे नारद युधिष्ठिरसंवादे जालंधरोपाख्याने वृंदाविवाहो जालंधराभिषेकोनाम चतुर्थोऽध्यायः ४।