पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १२०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ११९ पद्मपुराणम्
अध्यायः १२०
वेदव्यासः
अध्यायः १२१ →

सूत उवाच।
इति वाक्यं समाकर्ण्य पुनः पप्रच्छ पावकिः ।
शालग्रामार्चनं भूयस्तच्छृणुध्वं तपोधनाः १।
कार्तिकेय उवाच।
भगवन्योगिनां श्रेष्ठ सर्वेधर्माः श्रुता मया ।
शालग्रामार्चनं ब्रूहि विस्तरेण मम प्रभो २।
ईश्वर उवाच।
साधुसाधु महाप्राज्ञ यन्मां हि परिपृच्छसि ।
तदहं संप्रवक्ष्यामि श्रूयतां मम वत्सल ३।
शालग्रामशिलायां तु त्रैलोक्यं सचराचरम् ।
महाशय महासेन नित्यं तिष्ठति संहितम् ४।
दृष्टं प्रणमितं येन स्नापितं पूजितं तथा ।
यज्ञकोटिगुणं पुण्यं गवां कोटिफलं लभेत् ५।
छिन्नस्तेन तथा वत्स गर्भवासः सुदारुणः ।
पीतं येन सदा विष्णोः शालग्रामशिलाजलम् ६।
कामासक्तोऽपि यो नित्यं भक्तिभावविवर्जितः ।
शालग्रामशिला पुत्र पूजयित्वाच्युतो भवेत् ७।
शालग्रामशिला बिंबं हत्वा कोटिविनाशनम् ।
स्मृतं संकीर्तितं ध्यातं पूजितं च नमस्कृतम् ८।
शालग्रामशिलां दृष्ट्वा यांति पापान्यनेकशः ।
सिंहं दृष्ट्वा यथा यांति वने मृगगणा भयात् ९।
नमस्कारं तु मनुजः शालग्रामशिलार्चने ।
भक्त्या वा यदि वाऽभक्त्या कृत्वा मुक्तिमवाप्नुयात् १०।
वैवस्वतभयं नास्ति तथा मरणजन्मनोः ।
यः करोति नरो नित्यं शालग्रामशिलार्चनम् ११।
गंधपाद्यार्घनैवेद्यैर्दीपैर्धूपैर्विलेपनैः ।
गीतैर्वाद्यैस्तथा स्तोत्रैः शालग्रामशिलार्चनम् १२।
कुरुते मानवो यस्तु कलौ भक्तिपरायणः ।
कल्पकोटिसहस्राणि रमते विष्णुसद्मनि १३।
शालग्रामनमस्कारो भावेनापि नरैः कृतः ।
मानुषत्वं कथं तेषां मद्भक्ता ये नरा भुवि १४।
मद्भक्तास्तीव्रपापिष्ठा मत्प्रभुं न नमंति ये ।
वासुदेवं न ते ज्ञेया मद्भक्ताः पापमोहिताः १५।
मद्भक्तोऽपि च यो भूत्वा भुंक्ते त्वेकादशीदिने ।
स याति ह्यंधतामिस्रे निरयं मम घातकः १६।
मल्लिंगस्पर्शनं कार्यं नान्या शुद्धिर्विधीयते ।
या तिथिर्दयिता विष्णोः सा तिथिर्मम वल्लभा १७।
यस्तां नोपवसेन्मर्त्यः स पापी श्वपचाधिकः ।
शालग्रामशिलायां तु सदा पुत्र वसाम्यहम् १८।
दत्तं देवेन तुष्टेन स्वस्थानं मम भक्तितः ।
पद्मकोटिसहस्रैस्तु पूजिते मयि यत्फलम् १९।
तत्फलं कोटिगुणितं शालग्रामशिलार्चनात् ।
पूजितोऽहं न तैर्मर्त्यैर्नमितोऽहं न तैर्नरैः २०।
न कृतं मर्त्यलोके यैः शालग्रामशिलार्चनम् ।
शालग्रामशिलाग्रे तु यः करोति ममार्चनम् २१।
तेनार्चितोऽहं सेनानीर्युगानामेकविंशतिम् ।
किमर्चितैर्लिंगशतैर्विष्णुभक्तिविवर्जितैः २२।
शालग्रामशिलाबिंबं नार्चितं यदि पुत्रक ।
अनर्हं मम नैवेद्यं पत्रं पुष्पं फलं जलम् २३।
शालग्रामशिलाग्रे तु सर्वं याति पवित्रताम् ।
भुक्त्वान्यदेवनैवेद्यं द्विजश्चांद्रायणं चरेत् २४।
भुक्त्वा केशवनैवेद्यं यज्ञकोटिफलं लभेत् ।
पादोदकेन देवस्य हत्याकोटिसमन्विताः २५।
शुद्ध्यंति नात्र संदेहस्तथा शंखोदकेन हि ।
यो हि माहेश्वरो भूत्वा वैष्णवं च न पूजयेत् २६।
द्वेष्टा च याति नरकं यावदिंद्राश्चतुर्दश ।
ज्येष्ठाश्रमी गृहे यस्य मुहूर्त्तमपि विश्रमेत् २७।
पितामहा युगान्यष्टौ भवत्यमृतभोजिनः ।
संसारे दुःखकांतारे निमज्ज्यंते नराधमाः २८।
वर्षकोटिसहस्राणि कृष्णाराधनवर्जिताः ।
स्नेहादभ्यर्चितैर्लिंगैः शालग्रामसमुद्भवैः २९।
मुक्तिं प्रयांति मनुजा योगसांख्येन वर्जिताः ।
मल्लिंगकोटिभिर्दृष्टैर्यत्फलं पूजितैः स्तुतैः ३०।
शालग्रामशिलायां तु एकस्यामिह तद्भवेत् ।
द्वादशैव शिला यो वै शालग्रामसमुद्भवाः ३१।
अर्चयेद्वैष्णवो नित्यं तस्य पुण्यं न बोध मे ।
कोटिलिंगसहस्रैस्तु पूजितैर्जाह्नवी तटे ३२।
काशीवासे युगान्यष्टौ दिनेनैकेन तद्भवेत् ।
किं पुनर्बहुना यस्तु पूजयेद्वैष्णवो नरः ३३।
नाहं ब्रह्मादयो देवाः संख्यां कर्तुं समीहते ।
तस्माद्भक्त्या च मद्भक्तैः प्रीत्यर्थं मम पुत्रक ३४।
कर्त्तव्यं मम तद्भक्त्या शालग्रामशिलार्च्चनम् ।
शालग्रामशिलारूपी यत्र तिष्ठति केशवः ३५ ।
तत्र देवासुरा यक्षा भुवनानि चतुर्दश ३६।
सुराणां कीर्तनैः सर्वैः कोटिभिश्च फलं लभेत् ।
तत्फलं कीर्त्तनादेव केशवे सुकृतं कलौ ३७।
शालग्रामशिलाग्रे तु सकृत्पिंडेन तर्पिताः ।
वसंति पितरस्तस्य न संख्या तत्र विद्यते ३८।
ये पिबंति नरा भक्त्या शालग्रामशिलाजलम् ।
पंचगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ३९।
प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः ।
चांद्रायणैः सुचीर्णैश्च पीत्वा पादोदकं हरेः ४०।
यः करोति तडागे तु प्रतिमां जलशायिनीम् ।
कोटिभिश्चापि किं कार्यमन्यदेवैश्च पूजितैः ४१।
विष्णुमुख्यास्तु वै देवास्तत्र जल्पंति वै सह ।
प्रमाणमस्ति सर्वस्य सुकृतस्य हि पुत्रक ४२।
फलप्रमाणं नैवास्तिशालग्रामशिलार्चन ।
यो ददाति शिलां विष्णोः शालग्रामसमुद्भवाम् ४३।
विप्राय विष्णुभक्ताय तेनेष्टं क्रतुभिः शतैः ।
गृहेऽपि वसतस्तस्य गंगास्नानं दिनेदिने ४४।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
शालग्रामशिलातोयैरभिषेकं समाचरेत् ४५।
स्वर्गे मर्त्ये च पाताले पाषाणाः संति वै गुह ।
शालग्रामशिला ग्राव्णा नास्ति नास्ति समा पुनः ४६।
मानुषे दुर्ल्लभे लोके सफलं तस्य जीवितम् ।
तिलप्रस्थशतं भक्त्या यो ददाति दिनेदिने ४७।
तत्फलं समवाप्नोति शालग्रामशिलार्चनात् ।
पत्रं पुष्पं फलं तोयं मूलं दूर्वादलं तथा ४८।
जायते मेरुणा तुल्यं शालग्रामे समर्पितम् ।
विधिहीनोऽपि यः कश्चित्क्रियामंत्रविवर्जितः ४९।
चक्रांकभुज आप्नोति सम्यक्शास्त्रोदितं फलम् ।
यत्तु पूर्वं मया दृष्टं केशवे क्लेशनाशनम् 6.120.५०।
तत्सर्वं कथयिष्यामि तव स्नेहेन पुत्रक ।
क्व त्वं वससि हे विष्णो किमाधारः किमाश्रयः ५१।
कथं वा प्रीयसे देव तत्सर्वं कथयस्व मे ।
श्रीकृष्ण उवाच।
निवसामि सदा शंभो शालग्रामोद्भवेऽश्मनि ५२।
तत्रैव रथचक्रांके यानि नामानि मे शृणु ।
द्वारदेशे समे चक्रे दृश्येते नांतरं यदि ।
वासुदेवः स विज्ञेयः शुक्लश्चैवातिशोभनः ५३।
प्रद्युम्नः सूर्यवक्त्रस्तु नीलदीप्तिस्तथैव च ।
सुषिरं च्छिद्रबहुलं दीर्घाकारं तु तद्भवेत् ५४।
अनिरुद्धस्तु पीताभो वर्त्तुलश्चातिशोभनः ।
रेखात्रयांकितो द्वारि दृष्टपद्मेन चिह्नवत् ५५।
श्यामो नारायणो देवो नाभिचक्रे तथोन्नते ।
दीर्घ रेषा समोपेतो दक्षिणे सुषिरान्वितः ५६।
ऊर्ध्वंमुखं च जानीयात्सुंदरं हरिरूपिणम् ।
कामदं मोक्षदं चैव अर्थदं च विशेषतः ५७।
परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः ।
बिंबाकृतिस्तथा पृष्ठे सुषिरं चातिपुष्कलम् ५८।
कृष्णवर्णस्तथा विष्णुर्मूले चक्रे सुशोभने ।
द्वारोपरि तथा रेखा लक्ष्यते मध्यदेशतः ५९।
कपिलो नरसिंहश्च पृथुचक्रः सुशोभितः ।
ब्रह्मचर्येण पूज्योसावन्यथा विघ्नदो भवेत् ६०।
वाराहः शक्तिलिंगस्तु चक्रे च विषमे स्मृते ।
इंद्र नीलनिभः स्थूलस्त्रिरेखो नाभितः शुभः ६१।
दीर्घाकांचनवर्णाया बिंदुत्रयविभूषिता ।
मत्स्याख्या सा शिला ज्ञेया भुक्तिमुक्तिफलप्रदा ६२।
कूर्मस्तथोन्नतः पृष्ठे वर्तुलश्चक्रपूरितः ।
हरितं वर्णमाधत्ते कौस्तुभेन तु चिह्नितः ६३।
हयग्रीवो हयाकारो रेखापंचकभूषितः ।
बहुबिंदुसमाकीर्णः पृष्ठे नीलं च रूपकम् ६४।
वैकुंठमविभिन्नांगं चक्रमेकं तथा ध्वजम् ।
द्वारोपरि तथा रेखा गुंजाकारा सुशोभना ६५।
श्रीधरस्तु तथा देवश्चिह्नितो वनमालया ।
कदंबकुसुमाकारो रेखापंचकभूषितः ६६।
वर्तुलश्चापि हृस्वश्च वामनः परिकीर्तितः ।
अतसीकुसुमप्रख्यो बिंदुना परिशोभितः ६७।
सुदर्शनस्ततो देवः श्यामवर्णो महाद्युतिः ।
वामपार्श्वे गदाचक्रे रेखा चैव तु दक्षिणे ६८।
दामोदरस्तथा स्थूलो मध्ये चक्रं प्रतिष्ठितम् ।
दूर्वाभं द्वारसंकीर्णं पीतरेखं तथैव च ६९।
नानावर्णो ह्यनंतस्तु नानाभोगेन चिह्नितः ।
अनेकमूर्तिकोभिन्नः सर्वकामफलप्रदः ७०।
विदिक्षुदिक्षुसर्वासु यस्योर्ध्वं दृश्यते मुखम् ।
पुरुषोत्तमः स विज्ञेयो भुक्तिमुक्तिफलप्रदः ७१।
दृश्यते शिखरे लिंगं शालग्रामशिलोद्भवम् ।
यस्य योगेश्वरो देवो ब्रह्महत्यां व्यपोहति ७२।
आरक्तः पद्मनाभस्तु पंकजं वक्त्रसंयुतम् ।
तस्याभ्यर्चनतो नित्यं द्ररिद्रस्त्वीश्वरो भवेत् ७३।
चक्रांकितं हिरण्यांगं रश्मिजालं विनिर्दिशेत् ।
सुवर्णरेखाबहुलं स्फाटिकद्युतिशोभितम् ७४।
अतिस्निग्धा सिद्धिकरी कृष्णा कीर्तिं ददाति च ।
पांडुरा पापदहनी पितापुत्रफलप्रदा ७५।
नीला प्रयच्छती लक्ष्मीं रक्ता रोगप्रदायिनी ।
रूक्षा उद्वेगजननी वक्रा दारिद्र्यभागिनी ७६।
एकं सुदर्शनं ज्ञेयं लक्ष्मीनारायणं द्वयम् ।
तृतीयं चाच्युतं विद्याच्चतुर्थं तु जनार्दनम् ७७।
पंचमं वासुदेवं च षष्ठं प्रद्युम्नमेव च ।
संकर्षर्णं सप्तमं च अष्टमं पुरुषोत्तमम् ७८।
नवमं च नवव्यूहं दशमं तु तदात्मकम् ।
एकादशं चानिरुद्धं द्वादशं द्वादशात्मकम् ७९।
अत ऊर्ध्वं तु चक्राणि दृश्यंतेऽनंतसंज्ञके ।
खंडिते त्रुटिते भग्ने सालग्रामे न दोषभाक् ८०।
इष्टा च यस्य या मूर्तिः स तां यत्नेन पूजयेत् ।
स्कंधे कृत्वा तु योऽध्वानं वहते शैलनायकम् ८१।
तस्य वश्यं भवेत्सर्वं त्रैलोक्यं सचराचरम् ।
शालग्रामशिला यत्र तत्र संनिहितो हरिः ८२।
तत्र दानं जपः स्नानं वाराणस्याः शताधिकम् ।
कुरुक्षेत्रे प्रयागे च नैमिषे पुष्करे तथा ८३।
तत्र कोटिगुणं पुण्यं वाराणस्यां महाफलम् ।
ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः ८४।
तत्सर्वं निर्दहत्याशु शालग्रामशिलार्चनम् ।
शालग्रामोद्भवो देवो यत्र द्वारावतीभवः ८५।
उभयोः संगमो यत्र मुक्तिस्तत्र न संशयः ।
ब्रह्मचारि गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ८६।
भोक्तव्यं विष्णुनैवेद्यं नात्र कार्या विचारणा ।
तत्पूजनेन मंत्राश्च न जपो न च भावना ८७।
न स्तुतिर्नापि चाचारः शालग्रामशिलार्चने ।
शालग्रामशिलाग्रे तु कृत्वा स्वस्तिकमादरात् ८८।
कार्तिके तु विशेषेण पुनात्यासप्तमं कुलम् ।
अणुमात्रं तु यः कुर्यान्मंडलं केशवाग्रतः ८९।
मृदाधातुविकारैश्च कल्पकोटिं दिवं वसेत् ।
यस्तु संवत्सरं पूर्णमग्निहोत्रमुपासते ९०।
कार्तिके स्वस्तिकं कृत्वा सममेतन्न संशयः ।
अगम्यागमने चैव ह्यभक्षस्य तु भक्षणे ९१।
तत्पापं नाशमायाति मंडयित्वा हरेर्गृहम् ।
मंडलं कुरुते नित्यं या नारी केशवाग्रतः ।
सप्तजन्मानि वैधव्यं न प्राप्नोति कदाचन ९२।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शालिग्राममाहात्म्यंनाम विंशत्यधिकशततमोऽध्यायः १२०।