पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०७९ पद्मपुराणम्
अध्यायः ०८०
वेदव्यासः
अध्यायः ०८१ →

श्रीपार्वत्युवाच-
अहो विष्णोश्च माहात्म्यं वद विश्वेश्वर प्रभोः
यन्माहात्म्यं पुनः श्रुत्वा न भवे जायते क्वचित् १
महादेव उवाच-
शृणु सुन्दरि वक्ष्यामि विष्णोर्माहात्म्यमुत्तमम्
श्रुत्वा तु लभते पुण्यं ह्यंते मोक्षमवाप्नुयात् २
देवव्रतं महाप्राज्ञं ध्यानयोगपरायणम्
आश्रयं सर्वशास्त्राणां यतेंद्रियमकल्मषम् ३
अप्रधृष्यं महाभागं देवैरपि सवासवैः
सत्यसंधं जितक्रोधं समत्वे परिनिष्ठितम् ४
नारायणे जगन्नाथे शरण्ये भक्तवत्सले
परां निष्ठामनुप्राप्तं वाङ्मनः काय कर्मभिः ५
गुणनामाश्रयं शांतं भीष्मं कुरु पितामहम्
प्रणम्य शिरसा भूमौ पप्रच्छेदं युधिष्ठिरः ६
युधिष्ठिर उवाच-
केचिदाहुः परं धर्मं केचिदाहुः परं धनम्
केचिद्दानं प्रशंसंति समुदायं तथापरे ७
सांख्यं केचित्प्रशंसंति योगमन्ये तथा परम्
केचिज्ज्ञानं प्रशंसंति केचिदाहुः परं श्रुतम्
सम्यक्ध्यानं परं केचित्केचिद्वैराग्यमुत्तमम् ८
अग्निष्टोमादिकं कर्म तथा केचित्परं विदुः
आत्मज्ञानं परं केचित्समलोष्टाश्मकांचनाः ९
यमांश्च नियमांश्चैव केचिद्वैराग्यमुत्तमम्
कारुण्यं च परे केचिदहिंसां च तपस्विनः १०
शौचं केचित्परं प्राहुः केचिद्देवार्चनं नराः
व्यामोहं चात्र गच्छंति व्यामुग्धाः पापकर्मभिः ११
यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः
वक्तुमर्हसि धर्मज्ञ सर्वशास्त्रभृतां वर १२
महादेव उवाच-
भूर्लोके या कथा जाता भैष्मी यौधिष्ठिरी सति
तामहं संप्रवक्ष्यामि लोकानां च हिताय वै
एतान्प्रश्नांस्तदा श्रुत्वा प्राह भीष्मो युधिष्ठिरम् १३
भीष्म उवाच-
श्रूयतामिदमत्यंतं गूढं संसारमोचनम्
श्रोतव्यं यत्त्वया सम्यग्ज्ञातव्यं धर्मनंदन १४
अत्रैवोदाहरंतीमं पुण्यं चैव पुरातनम्
पुंडरीकस्य संवादं महर्षेर्नारदस्य च १५
ब्राह्मणः श्रुतिसंपन्नः पुंडरीको महामतिः
आश्रमे प्रथमे तिष्ठन्गुरूणां वशगः सदा १६
जितेंद्रियो जितक्रोधः संध्योपासनतत्परः
वेदवेदांगनिपुणः शास्त्रेषु च विचक्षणः १७
समिद्भिः साधुहव्येन सायंप्रातर्हुतानलः
ध्यात्वा जगत्पतिं विष्णुं सम्यगाराधयद्विभुम् १८
तपः स्वाध्यायनिरतः साक्षाद्ब्रह्मसुतो यथा
उदकेंधनपुष्पाद्यैरसकृत्पूजयन्गुरुम् १९
मातापित्रोश्च शुश्रूषुर्भिक्षाहारी विमत्सरः
ब्रह्मविद्यामधीयानः प्राणायामपरायणः २०
तस्य सर्वात्मभूतस्य संसारे निस्पृहस्य च
महात्मनो बुद्धिरासीत्संसारार्णवतारिणी २१
मातरं पितरं चैव भातॄनथ सुहृज्जनान्
मित्राणि मातुलांश्चैव सखीन्संबंधिबांधवान् २२
धनधान्यसमृद्धं च ग्रहं वा शक्रसंनिभम्
क्षेत्राणि सुमहार्हाणि सर्वसस्योद्भवानि च २३
परित्यज्य महासत्वस्तृणानीव महासुखी
विचचार महीं रम्यां शाकमूलफलाशनः २४
गंगां च यमुनां चैव गोमतीमथ गंडिकाम्
शतद्रुं च पयोष्णीं च सरयूं च सरस्वतीम् २५
प्रयागं नर्मदां चैव शोणं चैव महानदम्
प्रभासं विंध्यतीर्थानि हिमवत्प्रभवानि च २६
आश्रमेषु च यानि स्युर्नैमिषे पुष्करादिषु
कुरुक्षेत्रे च यानि स्युस्तथा गोवर्द्धनादिषु २७
अन्यानि सुमहातेजास्तीर्थानि सुसमाहितः
विचचार महायोगी यथाकाले यथाविधि २८
कदाचिदात्मवान्धीरः शालग्रामं तपोधनः
पुंडरीको महाभागः पूर्वकर्मवशानुगः २९
संसेव्यमानं मुनिभिस्तत्वविद्भिस्तपोधनैः
मुनीनामास्पदं रम्यं पुराणेष्वपि विश्रुतम् ३०
भूषितं चैव चक्राद्यैश्चक्रांकितशिलातलम्
रम्यं विविक्तविस्तीर्णं सदा विष्णुप्रसादकम् ३१
किंच चक्रांकितास्तत्र प्राणिनः पुण्यदर्शनाः
विचिरंति यथाकामं पूण्यतीर्थप्रदर्शिनः ३२
तस्मिन्क्षेत्रे महापुण्ये शालिग्रामे महामतिः
स्नात्वा देवह्दे तीर्थे सरस्वत्यां च सुव्रतः ३३
जातिस्मर्यां चक्रकुंडे चक्रनद्याश्रितेषु च
तथान्यान्यपि तीर्थानि तस्मिन्नेव चचार सः ३४
ततः क्षेत्रप्रभावेन तीर्थानां चैव तेजसा
मनःप्रसादमभजत्तस्मिन्नेव महामनाः ३५
सोऽपि तीर्थविशुद्धात्मा पुंडरीकस्तपोधनः
तत्रैव वसतिं चक्रे ध्यानयोगपरायणः ३६
तत्रैव सिद्धिमाकांक्षन्नाराध्य गरुडध्वजम्
शास्त्रोक्तेन विधानेन भक्त्या परमया पुनः ३७
उवास चिरमेकाकी निर्द्वंद्वः सजितेंद्रियः
शाकमूलफलाहारः संतुष्टः समदर्शनः ३८
यमैश्चनियमैश्चैव तथैवासनबंधनैः
प्राणायामैश्च तीर्थैश्च प्रत्याहारैश्च संततैः ३९
धारणाभिस्तथा ध्यानैः समाधिभिरतंद्रितः
योगाभ्यासं सदा सम्यक्चक्रे विगतकिल्बिषः ४०
वैदिकैश्चांगिकैश्चैव तथा पौराणिकैरपि
आराधयति सर्वेशं ततः शुद्धिमवाप सः ४१
रागद्वेषविनिर्मुक्तः स्वधर्मइव रूपवान्
आराधयामास देवं तद्गतेनांतरात्मना ४२
तुतोष भगवान्विष्णुः पुंडरीकायतेक्षणः
भगवान्नारदमिति प्रसन्नोऽस्म्यस्य धीमतः ४३
ततः कदाचित्तं देशं नारदः परमार्थवित्
जगाम सुमहातेजाः साक्षादादित्यसन्निभः ४४
तं द्रष्टुकामो भगवान्पुंडरीकं तपोनिधिम्
विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः ४५
स दृष्ट्वा नारदं प्राप्तं तेजोमंडलमंडितम्
महामतिर्महोदारः सर्ववेदैकभाजनम् ४६
प्रांजलिः प्रणतो भूत्वा प्रहृष्टेनांतरात्मना
अर्घं दत्त्वा विधानेन प्रणाममकरोत्पुनः ४७
कोऽयमत्यद्भुताकारस्तेजस्वी हृद्यवेषधृक्
आतोद्यहस्तः सुमुखो जयमंडलमंडितः ४८
विवस्वानथवा वह्निरिंद्रो वरुण एव वा
इति संचिंतयन्स्थित्वा जगाद परमद्युतिम् ४९
पुंडरीक उवाच-
को भवानिह संप्राप्तः कुतो वा परमद्युतिः
त्वद्दर्शनं हि भगवन्प्रायेण भुवि दुर्लभम् 6.80.५०
नैव दृष्टः पुमान्वापि मया तव समः प्रभो
वक्तुमर्हस्यशेषेण यत्प्रदिष्टं मयानघ ५१
नारद उवाच-
नारदोऽहंमनुप्राप्तस्त्वद्दर्शनकुतूहलात्
प्रभावं भगवद्भक्तं त्वादृशं सततं द्विज ५२
स्मृतः संतोषितो वापि पूजितो वा द्विजोत्तमः
पुनाति भगवद्भक्तश्चांडालोऽपि यदृच्छया ५३
दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः
शंखचक्रगदापाणेस्त्रैलोक्यस्यैकचक्षुषः ५४
इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना
प्रोवाच मधुरं विप्रं तद्दर्शनसुविस्मितः ५५
पुंडरीक उवाच-
धन्योऽहं देहिनां मध्ये सुपूज्योऽहं सुरैरपि
कृतार्थाः पितरो मेऽद्य संप्राप्तं जन्मनः फलम् ५६
अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः
तं करिष्याम्यहं विद्वन्भ्राम्यमाणः स्वकर्मभिः ५७
कर्तव्यं परमं गुह्यं उपदेष्टुं त्वमर्हसि
त्वं गतिः सर्वभूतानां वैष्णवानां विशेषतः ५८
नारद उवाच-
अनेकानीह शास्त्राणि कर्माणि च तथा द्विज
धर्मवर्गं बहुविधं तथैव भुवि मानसम् ५९
वैलक्षण्यं च जगतस्तस्मादेव द्विजोत्तम
अन्यथा सर्वसत्वानां सुखं वा दुःखमेव च ६०
विज्ञानमात्रं क्षणिकं निरात्मकमिदं जगत्
इति कैश्चित्परिज्ञातं बाह्यार्थनिरपेक्षकम् ६१
अव्यक्ताज्जायते नित्यं नित्यान्नित्यमिदं जगत्
इत्येवं प्राहुरपरे तत्रैव लयमेति च ६२
आत्मनो बहवः प्रोक्ता नित्याः सर्वगतास्तथा
अन्ये मतिमतां श्रेष्ठास्तत्वालोकनतत्पराः ६३
यावच्छरीरमात्मानं प्रतिपन्नास्तथापरे
हस्तिकीटादिदेहेऽपि महांतमंडमेव च ६४
यथाऽद्यजगतोवृत्तिस्तथा कालांतरेष्वपि
प्रवाहो नित्यमेवैष कः कर्त्तेति च केचन ६५
यद्यत्प्रत्यक्षविषयं तत्तदत्र न विद्यते
कुतः स्वर्गादयः संतीत्यन्ये विजितमानसाः ६६
निरीश्वरमिदं प्राहुः सेश्वरं च तथापरे
अत्यंतभिन्नमतयः परमार्थपराङ्मुखाः ६७
एवं मन्येऽपि कुहका यथामति यथाश्रुतम्
वदंति विविधैर्भेदैः स्वयुक्ति स्थितिकारकाः ६८
तर्केष्ववहितो भूत्वा कथयामि तपोधन
परमार्थमिमं पुण्यं घोरं संसारनाशनम् ६९
तन्मूलमनुजानंति ततो देवादयो नराः
प्रमाणेनोपलभ्यंते न प्रमाणं विमोहितैः ७०
अनागतमतीतं च विप्रकृष्टमतीव यत्
न गृहीतं यथाशक्त्या वर्त्तमानार्थनिष्ठितम् ७१
आगमो मुनिभिः प्रोक्तो पूर्वरूपक्रमागतः
प्रमाणं स तु विज्ञेयः परमार्थप्रसाधकः ७२
यदभ्यासबलाज्ज्ञानं रागद्वेषमलापहम्
उत्पद्यते द्विजश्रेष्ठ सोऽयमागमसंज्ञकः ७३
फलं कर्म च यत्तत्वं विज्ञानं दर्शनं विभुम्
जात्यादिकल्पनाहीनं द्वितीयागमलक्षणम् ७४
आत्मसंवेदनं नित्यं सनातनमतींद्रियम्
चिन्मात्रममृतं ज्ञेयमनंतमजमव्ययम् ७५
व्यक्ताव्यक्तस्वरूपेण व्यक्तस्थितमनंजनम्
व्याप्ता विष्णुरिति ख्यातं ख्यातभिन्नमवस्थितम् ७६
योगिध्येयमविज्ञेयं परमार्थपराङ्मुखैः
लक्ष्यते बुद्धिभिर्भिन्नमभिभिन्नं न चात्मनि ७७
शृणुष्वावहितस्तात कथयामि तवानघ
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत ७८
कदाचिद्ब्रह्मलोकस्थं ब्रह्माणं च पितामहम्
प्रणिपत्य यथान्यायमपृच्छमजमव्ययम् ७९
किमु ज्ञानं परं प्रोक्तं कश्च योगः परो मतः
एतन्मे तत्त्वतो ब्रह्मन्समाचक्ष्व पितामह ८०
ब्रह्मोवाच-
शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम्
अल्पग्रंथं प्रभूतार्थमदुःखोपासनक्रियम् ८१
यः परं परया प्रोक्तः पुरुषः पंचविंशकः
स एव सर्वभूतात्मा तेन इत्यभिधीयते ८२
नारायणो जगद्धाम परमात्मा सनातनः
जगतः सृष्टिसंहार परिपालनतत्परः ८३
त्रयाणामात्मनां चैको देवदेवः सनातनः
आराध्यः सर्वदा ब्रह्मन्ते पश्यंति जगत्पतिम् ८४
यथा जगदवस्थानं यथा कालांतरे पुनः
भूतं भव्यं भविष्यं च विप्रकृष्टं तथैव च ८५
स्थूलं सूक्ष्मं तथा चान्यत्पश्यंति ज्ञानचक्षुषा
तच्चित्तास्तद्गतप्राणा नारायणपरायणाः ८६
अन्यथा मंदबुद्धीनां प्रतिभाति दुरात्मनाम्
कुतर्कज्ञानदुष्टानां विभक्तेंद्रियवादिनाम् ८७
नारद उवाच-
श्रूयतामन्यदपि वै कथ्यमानं मयानघ
ब्रह्मणैव पुरा प्रोक्तं जगतः कारणात्मना ८८
देवानामिंद्रमुख्यानामृषीणां चैव सुव्रत
हितानि कथयामास पृच्छतां कमलासनः ८९
ब्रह्मोवाच-
नारायणपरो धर्मस्तथालोकाश्च शाश्वताः
नारायणपरा यज्ञाः शास्त्राणि विविधानि च ९०
वेदाः सांगास्तथा चान्ये विष्णुर्विश्वेश्वरो हरिः
पृथिव्यादीनि विबुधाः पंचभूतानि सोऽव्ययः ९१
सर्वं विष्णुमयं ज्ञेयं विबुधैः सकलं जगत्
तथापि मानुषाः पाप न जानंति विमोहिताः ९२
तस्यैव मायया व्याप्तं चराचरमिदं जगत्
तन्मनास्तद्गतप्राणो जानाति परमार्थवित् ९३
ईश्वरः सर्वभूतानां विष्णुस्त्रैलोक्यपालकः
तस्मिन्नेतज्जगत्सर्वं तिष्ठति प्रभवत्यपि ९४
जगत्संहरते रुद्रः पालने विष्णुरुच्यते
उत्पत्तौ चाहमेवात्र तथान्ये लोकपालकाः ९५
सर्वाधारो निराधारः सकलो निष्कलस्तथा
अणुर्महांस्तथाप्यन्यत्तस्माच्च परतः परः ९६
तमेव शरणं यात सर्वसंहारकर्मगम्
स पिता जनितास्माकं कीर्तितो मधुसूदनः ९७
एवमुक्ताः सुराः सर्वे ब्रह्मणा पद्मयोनिना
प्रणेमुः सर्वलोकेशं देवं विष्णुं जनार्दनम् ९८
तस्मात्त्वमपि विप्रर्षे नारायणपरो भव
तदन्यः को महोदारः प्रार्थितं दातुर्महति ९९
पितरं मातरं चैव तमेव पुरुषोत्तमम्
परिगृह्णीष्व लोकेशं देवदेवं जगत्पतिम् 6.80.१००
अग्निकार्येण वै तेन तपसाध्ययनेन वै
तोषयेद्देवदेवेशं गुरुं नित्यमतंद्रितः १०१
स्वर्गे क्षयं तथा भोगमनुष्ठेयं तथैव च
परिगृह्णीष्व विप्रर्षे तमेव पुरुषोत्तमम् १०२
किं तेन मंत्रैर्बहुभिः किं तेन बहुभिर्व्रतैः
ॐ नमोनारायणायेति मंत्रः सर्वार्थसाधकः १०३
चीरवासा जटी विप्र दंडीमुंडित एव वा
विभूषितो वा विप्रेंद्र न लिंगं धर्मकारणम् १०४
ये नृशंसा दुरात्मानः पापाचारपराः सदा
तेपि यांति परं स्थानं नारायणपरायणाः १०५
लिप्यंते न च पापौघैर्वैष्णवं वीतकिल्बिषाः १०६
पुनंति सकलं लोकं अहिंसाजितमानसाः १०७
क्षत्रबंधुरिति ख्यातो राजा प्राणिविहिंसकः
प्राप्तवान्परमं धाम वैष्णवं केशवालयात् १०८
अंबरीषो महासत्वो राजा परमतत्ववित्
हृषीकेशं समाराध्य वैष्णवं पदमाप्तवान् १०९
अन्ये ब्रह्मर्षयः शांता बहवः संशितव्रताः
ध्यात्वा च परमात्मानं संसिद्धिं परमां गताः ११०
प्रह्लादः परमाह्लादः पुरा नारायणं हरिम्
सेवितोऽभ्यर्चितो ध्यातस्तेनैव परिरक्षितः १११
भरतो नाम तेजस्वी राजा परमधार्मिकः
उपास्यैनं चिरं कालं परां मुक्तिमवाप्तवान् ११२
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः
केशवाराधनं हित्वा नैव यांति परां गतिम् ११३
जन्मांतरसहस्रेषु यस्य स्यान्मतिरीदृशी
दासोऽहं विष्णुभक्तानामिति सर्वार्थसाधकः ११४
स याति विष्णुसालोक्यं पुरुषो नात्र संशयः
किं पुनस्तद्गतप्राणाः पुरुषाः संशितव्रताः ११५
अनन्यमानसैर्नित्यं ध्यातव्यस्तत्वचिंतकैः
नारायणो जगद्व्यापी परमात्मा सनातनः ११६
भीष्म उवाच-
इत्येवमुक्त्वा देवर्षिस्तत्रैवांतरधीयत
परोपकारनिरतो नारदः परमार्थवित् ११७
पुंडरीकोऽपि धर्मात्मा नारायणपरायणः
ॐ नमो नारायणायेति मंत्रमष्टाक्षरं जपन् ११८
प्रसीद मम विश्वात्मन्निति वाचं वदन्सदा
हृत्पुंडरीके गोविंदं प्रतिष्ठाप्यामृतात्मकम् ११९
तपस्वी विमले सौम्ये शालग्रामे तपोधनः
उवास चिरमेकाकी निर्द्वंद्वो निष्परिग्रहः १२०
स्वप्नेऽपि केशवान्नान्यत्पश्यतीति महामतिः
निद्रापि नैव तस्यासीत्पुरुषार्थविरोधिनी १२१
तपसा ब्रह्मचर्येण शौचेन च विशेषतः
जन्मजन्मांतरारूढे संस्कारे च यथा तथा १२२
प्रसादाद्देवदेवस्य सर्वलोकस्य साक्षिणः
अवाप परमां सिद्धिं वैष्णवीं वीतकिल्बिषः १२३
शंखचक्रगदापाणिं पीतवाससमच्युतम्
श्यामलं पुंडरीकाक्षं स ददर्श सदाकृतिम् १२४
सिंहा व्याघ्रास्तथा चान्ये मृगाः प्राणिविहिंसकाः
विरोधं सहजं हित्वा समेतास्तस्य संनिधौ १२५
विचरंति यथाकामं प्रसन्नेंद्रियवृत्तयः
परस्परहितं रम्यं संप्राप्तं पांडुनंदन १२६
तथा प्रसन्नं सलिलं सरसां सरितामपि
ऋतवः सुप्रन्नाश्च विमलेंद्रियसंयुताः १२७
मारुताश्च सुखस्पर्शा वृक्षाः पुष्पफलान्विताः
आनुकूल्यं ययुः सर्वे पदार्थास्तस्य धीमतः १२८
प्रसन्नमभवत्तस्मै प्रसन्नं सचराचरम्
प्रसन्ने देवदेवेशे गोविंदे भक्तवत्सले १२९
ततः कदाचिद्भगवान्पुंडरीकस्य धीमतः
आविरासीज्जगन्नाथः पुंडरीकायतेक्षणः १३०
शंखचक्रगदापाणिः पीतवासाः समुज्ज्वलः
पुंडरीकविशालाक्षश्चंद्रबिंबनिभाननः १३१
किंकिणीकुंडली हारी केयूरी कटिसूत्रवान्
श्रीवत्सांकः पीतवासाः कौस्तुभेन विभूषितः १३२
वनमालापरीतांगः स्फुरन्मुकुटकुंडलः
स्फुरता ब्रह्मसूत्रेण मुक्तादामविलंबिना १३३
विराजमानो देवेशश्चामरव्यजनादिभिः
देवैः सिद्धैः सदेवेंद्रैर्गंधर्वैर्मुनिभिर्वरैः १३४
यक्षैर्नागवरैश्चैवसेव्यमानोऽप्सरोगणैः
तं दृष्ट्वा देवदेवेशं पुंडरीकोऽनघः स्वयम् १३५
ततो बुद्ध्या महात्मानं तुष्टाव च जनार्दनम्
प्रांजलिः प्रणतो भूत्वा प्रहृष्टेनांतरात्मना १३६
पुंडरीक उवाच-
नमोऽस्तु विष्णवे तुभ्यं सर्वलोकैकचक्षुषे
निरंजनाय नित्याय निर्गुणाय महात्मने १३७
त्वमीशः सर्वभूतानां तथैव च निरीश्वरः
तथाभयार्तिनाशायगोविंदोगरुडध्वजः १३८
अनुग्रहेणभूतानांअनेकाकारधारिणे
त्वयि सर्वमिदं प्राहुस्त्वन्मयं चैव केवलम् १३९
त्वमस्माज्जगतो भिन्नो निर्मितं च जगत्त्वया
नमोस्तु नाभिप्रसवनलिनाय नमो नमः १४०
नमः समस्तवेदांतविश्रुतात्मविभूतये
त्वमेव सर्वदेवेश कारणं कैटभार्दन १४१
प्रसीद हृदयावास शंखचक्रगदाधर
नमः समस्तभूतानामादिभूताय भूभृते १४२
अनेकरूपरूपाय विष्णवे प्रभविष्णवे
यस्य ब्रह्मादयो देवा न विदंति सुरेश्वराः १४३
महिमानं तपोमेयं तस्मै तुभ्यं नमाम्यहम्
वाचामगोचरो यस्य महिमा तव नाप्यते १४४
जात्यादिभिरसंस्पृष्टः सदा ध्येयोऽसि तत्त्वतः
तथा विभेदरूपेण भक्तानामनुकंपया १४५
मत्स्यकूर्मादिरूपेण दृश्यसे पुरुषोत्तम
भीष्म उवाच-
पुंडरीको जगन्नाथं संस्तुवन्पुरुषोत्तमम् १४६
तमेवालोकयद्वीर चिरप्रार्थितदर्शनम्
तमाह भगवान्विष्णुः पद्मनाभस्त्रिविक्रमः १४७
पुंडरीकं महाभागं तथा गंभीरया गिरा १४८
श्रीभगवानुवाच-
प्रीतोऽस्मि वत्स भद्रं ते पुंडरीक महामते
वरं वृष्णीष्व दास्यामि यत्ते मनसि वर्त्तते १४९
एतच्छ्रुत्वा तु वचनं देवदेवस्य भाषितम्
एवं विज्ञापयामास पुंडरीको महामतिः 6.80.१५०
पुंडरीक उवाच-
क्वाहमत्यंत दुर्बुद्धिः क्व भवंतो हितैषिणः
यद्धितं मम देवेश तदाज्ञापय माधव १५१
एवमुक्तः स भगवान्सुप्रीतश्च ततोऽब्रवीत्
पुंडरीकं महाभागं कृतांजलिमुपस्थितम् १५२
आगच्छ कुशलं तेऽस्तु मयैव सह सुव्रत
उपकारी च नित्यात्मा मया त्वं सर्वदा सह १५३
भीष्म उवाच-
एवमुक्तवति प्रीत्या श्रीधरे भक्तवत्सले
दिवि दुंदुभयो नेदुः पुष्पवर्षं पपात ह १५४
ब्रह्मादयस्तथा देवाः साधुसाध्विति चाब्रुवन्
जगुः सिद्धाश्च गंधर्वाः किन्नराश्च विशेषतः १५५
तत्रैव तमुपादाय देवदेवो जगत्पतिः
जगाम गरुडारूढः सर्वलोकनमस्कृतः १५६
तस्मात्त्वमपि राजेंद्र विष्णुभक्तिसमन्वितः
तच्चित्तस्तद्गतप्राणस्तद्भक्तानां हिते रतः १५७
अर्चयित्वा यथायोग्यं भजस्व पुरुषोत्तमम्
शृणुष्व तत्कथां पुण्यां सर्वपापप्रणाशिनीम् १५८
येनोपायेन राजेंद्र विष्णुभक्तिसमन्वितः
प्रीतो भवति विश्वात्मा तत्कुरुष्व सुविस्तरम् १५९
अश्वमेधशतैरिष्ट्वा वाजपेयशतैरपि
प्राप्नुवंति नरा नैव नारायणपराङ्मुखाः १६०
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति १६१
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः
येषामिंदीवरश्यामो हृदयस्थो जनार्दनः १६२
य इदं शृणुयान्नित्यं पठेद्वापि समाहितः
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति १६३
ईश्वर उवाच-
एतद्वै नाममाहात्म्यं श्रुत्वा वै नगनंदिनि
धर्मार्थकाममोक्षास्तु भवंति च न संशयः १६४
शुक्ले कुलेऽवतीर्णो यो ब्राह्मणो वेदतत्परः
वैष्णवो विष्णुरूपोऽसौ नान्यो विप्रस्तु कर्हिचित् १६५
मुखे नामोच्चरन्विष्णोर्हृदये ध्यानतत्परः
शंखचक्रधरो विद्वन्मालां तुलसिजां दधत् १६६
जीवन्मुक्तः स विज्ञेयो भुक्त्वा भोगांस्त्वनेकशः
एकविंशतिकुलैः सार्द्धं विष्णुलोके स मोदते १६७
पुंडरीको यथा शक्त्या मुक्तो ह्यत्र न संशयः
भक्तिभावेन गोविंदस्तुष्टिं प्राप्नोति शाश्वतीम् १६८
कलौ वै हरिगीतं तु स्वगृहे वा विशेषतः
सामगानसमं प्रोक्तं देवार्चनसमाधिषु १६९
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे विष्णुमहिमानामाशीतितमोऽध्यायः ८०