सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८०

विकिस्रोतः तः
← अध्यायः ०७९ पद्मपुराणम्
अध्यायः ०८०
वेदव्यासः
अध्यायः ०८१ →

श्रीपार्वत्युवाच-
अहो विष्णोश्च माहात्म्यं वद विश्वेश्वर प्रभोः ।
यन्माहात्म्यं पुनः श्रुत्वा न भवे जायते क्वचित् १।
महादेव उवाच-
शृणु सुन्दरि वक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् ।
श्रुत्वा तु लभते पुण्यं ह्यंते मोक्षमवाप्नुयात् २।
देवव्रतं महाप्राज्ञं ध्यानयोगपरायणम् ।
आश्रयं सर्वशास्त्राणां यतेंद्रियमकल्मषम् ३।
अप्रधृष्यं महाभागं देवैरपि सवासवैः ।
सत्यसंधं जितक्रोधं समत्वे परिनिष्ठितम् ४।
नारायणे जगन्नाथे शरण्ये भक्तवत्सले ।
परां निष्ठामनुप्राप्तं वाङ्मनः काय कर्मभिः ५।
गुणनामाश्रयं शांतं भीष्मं कुरु पितामहम् ।
प्रणम्य शिरसा भूमौ पप्रच्छेदं युधिष्ठिरः ६।
युधिष्ठिर उवाच-
केचिदाहुः परं धर्मं केचिदाहुः परं धनम् ।
केचिद्दानं प्रशंसंति समुदायं तथापरे ७।
सांख्यं केचित्प्रशंसंति योगमन्ये तथा परम् ।
केचिज्ज्ञानं प्रशंसंति केचिदाहुः परं श्रुतम् ।
सम्यक्ध्यानं परं केचित्केचिद्वैराग्यमुत्तमम् ८।
अग्निष्टोमादिकं कर्म तथा केचित्परं विदुः ।
आत्मज्ञानं परं केचित्समलोष्टाश्मकांचनाः ९।
यमांश्च नियमांश्चैव केचिद्वैराग्यमुत्तमम् ।
कारुण्यं च परे केचिदहिंसां च तपस्विनः १०।
शौचं केचित्परं प्राहुः केचिद्देवार्चनं नराः ।
व्यामोहं चात्र गच्छंति व्यामुग्धाः पापकर्मभिः ११।
यदेतेषु परं कृत्यमनुष्ठेयं महात्मभिः ।
वक्तुमर्हसि धर्मज्ञ सर्वशास्त्रभृतां वर १२।
महादेव उवाच-
भूर्लोके या कथा जाता भैष्मी यौधिष्ठिरी सति ।
तामहं संप्रवक्ष्यामि लोकानां च हिताय वै ।
एतान्प्रश्नांस्तदा श्रुत्वा प्राह भीष्मो युधिष्ठिरम् १३।
भीष्म उवाच-
श्रूयतामिदमत्यंतं गूढं संसारमोचनम् ।
श्रोतव्यं यत्त्वया सम्यग्ज्ञातव्यं धर्मनंदन १४।
अत्रैवोदाहरंतीमं पुण्यं चैव पुरातनम् ।
पुंडरीकस्य संवादं महर्षेर्नारदस्य च १५।
ब्राह्मणः श्रुतिसंपन्नः पुंडरीको महामतिः ।
आश्रमे प्रथमे तिष्ठन्गुरूणां वशगः सदा १६।
जितेंद्रियो जितक्रोधः संध्योपासनतत्परः ।
वेदवेदांगनिपुणः शास्त्रेषु च विचक्षणः १७।
समिद्भिः साधुहव्येन सायंप्रातर्हुतानलः ।
ध्यात्वा जगत्पतिं विष्णुं सम्यगाराधयद्विभुम् १८।
तपः स्वाध्यायनिरतः साक्षाद्ब्रह्मसुतो यथा ।
उदकेंधनपुष्पाद्यैरसकृत्पूजयन्गुरुम् १९।
मातापित्रोश्च शुश्रूषुर्भिक्षाहारी विमत्सरः ।
ब्रह्मविद्यामधीयानः प्राणायामपरायणः २०।
तस्य सर्वात्मभूतस्य संसारे निस्पृहस्य च ।
महात्मनो बुद्धिरासीत्संसारार्णवतारिणी २१।
मातरं पितरं चैव भातॄनथ सुहृज्जनान् ।
मित्राणि मातुलांश्चैव सखीन्संबंधिबांधवान् २२।
धनधान्यसमृद्धं च ग्रहं वा शक्रसंनिभम् ।
क्षेत्राणि सुमहार्हाणि सर्वसस्योद्भवानि च २३।
परित्यज्य महासत्वस्तृणानीव महासुखी ।
विचचार महीं रम्यां शाकमूलफलाशनः २४।
गंगां च यमुनां चैव गोमतीमथ गंडिकाम् ।
शतद्रुं च पयोष्णीं च सरयूं च सरस्वतीम् २५।
प्रयागं नर्मदां चैव शोणं चैव महानदम् ।
प्रभासं विंध्यतीर्थानि हिमवत्प्रभवानि च २६।
आश्रमेषु च यानि स्युर्नैमिषे पुष्करादिषु ।
कुरुक्षेत्रे च यानि स्युस्तथा गोवर्द्धनादिषु २७।
अन्यानि सुमहातेजास्तीर्थानि सुसमाहितः ।
विचचार महायोगी यथाकाले यथाविधि २८।
कदाचिदात्मवान्धीरः शालग्रामं तपोधनः ।
पुंडरीको महाभागः पूर्वकर्मवशानुगः २९।
संसेव्यमानं मुनिभिस्तत्वविद्भिस्तपोधनैः ।
मुनीनामास्पदं रम्यं पुराणेष्वपि विश्रुतम् ३०।
भूषितं चैव चक्राद्यैश्चक्रांकितशिलातलम् ।
रम्यं विविक्तविस्तीर्णं सदा विष्णुप्रसादकम् ३१।
किंच चक्रांकितास्तत्र प्राणिनः पुण्यदर्शनाः ।
विचिरंति यथाकामं पूण्यतीर्थप्रदर्शिनः ३२।
तस्मिन्क्षेत्रे महापुण्ये शालिग्रामे महामतिः ।
स्नात्वा देवह्दे तीर्थे सरस्वत्यां च सुव्रतः ३३।
जातिस्मर्यां चक्रकुंडे चक्रनद्याश्रितेषु च ।
तथान्यान्यपि तीर्थानि तस्मिन्नेव चचार सः ३४।
ततः क्षेत्रप्रभावेन तीर्थानां चैव तेजसा ।
मनःप्रसादमभजत्तस्मिन्नेव महामनाः ३५।
सोऽपि तीर्थविशुद्धात्मा पुंडरीकस्तपोधनः ।
तत्रैव वसतिं चक्रे ध्यानयोगपरायणः ३६।
तत्रैव सिद्धिमाकांक्षन्नाराध्य गरुडध्वजम् ।
शास्त्रोक्तेन विधानेन भक्त्या परमया पुनः ३७।
उवास चिरमेकाकी निर्द्वंद्वः सजितेंद्रियः ।
शाकमूलफलाहारः संतुष्टः समदर्शनः ३८।
यमैश्चनियमैश्चैव तथैवासनबंधनैः ।
प्राणायामैश्च तीर्थैश्च प्रत्याहारैश्च संततैः ३९।
धारणाभिस्तथा ध्यानैः समाधिभिरतंद्रितः ।
योगाभ्यासं सदा सम्यक्चक्रे विगतकिल्बिषः ४०।
वैदिकैश्चांगिकैश्चैव तथा पौराणिकैरपि ।
आराधयति सर्वेशं ततः शुद्धिमवाप सः ४१।
रागद्वेषविनिर्मुक्तः स्वधर्मइव रूपवान् ।
आराधयामास देवं तद्गतेनांतरात्मना ४२।
तुतोष भगवान्विष्णुः पुंडरीकायतेक्षणः ।
भगवान्नारदमिति प्रसन्नोऽस्म्यस्य धीमतः ४३।
ततः कदाचित्तं देशं नारदः परमार्थवित् ।
जगाम सुमहातेजाः साक्षादादित्यसन्निभः ४४।
तं द्रष्टुकामो भगवान्पुंडरीकं तपोनिधिम् ।
विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः ४५।
स दृष्ट्वा नारदं प्राप्तं तेजोमंडलमंडितम् ।
महामतिर्महोदारः सर्ववेदैकभाजनम् ४६।
प्रांजलिः प्रणतो भूत्वा प्रहृष्टेनांतरात्मना ।
अर्घं दत्त्वा विधानेन प्रणाममकरोत्पुनः ४७।
कोऽयमत्यद्भुताकारस्तेजस्वी हृद्यवेषधृक् ।
आतोद्यहस्तः सुमुखो जयमंडलमंडितः ४८।
विवस्वानथवा वह्निरिंद्रो वरुण एव वा ।
इति संचिंतयन्स्थित्वा जगाद परमद्युतिम् ४९।
पुंडरीक उवाच-
को भवानिह संप्राप्तः कुतो वा परमद्युतिः ।
त्वद्दर्शनं हि भगवन्प्रायेण भुवि दुर्लभम् 6.80.५०।
नैव दृष्टः पुमान्वापि मया तव समः प्रभो ।
वक्तुमर्हस्यशेषेण यत्प्रदिष्टं मयानघ ५१।
नारद उवाच-
नारदोऽहंमनुप्राप्तस्त्वद्दर्शनकुतूहलात् ।
प्रभावं भगवद्भक्तं त्वादृशं सततं द्विज ५२।
स्मृतः संतोषितो वापि पूजितो वा द्विजोत्तमः ।
पुनाति भगवद्भक्तश्चांडालोऽपि यदृच्छया ५३।
दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः ।
शंखचक्रगदापाणेस्त्रैलोक्यस्यैकचक्षुषः ५४।
इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना ।
प्रोवाच मधुरं विप्रं तद्दर्शनसुविस्मितः ५५।
पुंडरीक उवाच-
धन्योऽहं देहिनां मध्ये सुपूज्योऽहं सुरैरपि ।
कृतार्थाः पितरो मेऽद्य संप्राप्तं जन्मनः फलम् ५६।
अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः ।
तं करिष्याम्यहं विद्वन्भ्राम्यमाणः स्वकर्मभिः ५७।
कर्तव्यं परमं गुह्यं उपदेष्टुं त्वमर्हसि ।
त्वं गतिः सर्वभूतानां वैष्णवानां विशेषतः ५८।
नारद उवाच-
अनेकानीह शास्त्राणि कर्माणि च तथा द्विज ।
धर्मवर्गं बहुविधं तथैव भुवि मानसम् ५९।
वैलक्षण्यं च जगतस्तस्मादेव द्विजोत्तम ।
अन्यथा सर्वसत्वानां सुखं वा दुःखमेव च ६०।
विज्ञानमात्रं क्षणिकं निरात्मकमिदं जगत् ।
इति कैश्चित्परिज्ञातं बाह्यार्थनिरपेक्षकम् ६१।
अव्यक्ताज्जायते नित्यं नित्यान्नित्यमिदं जगत् ।
इत्येवं प्राहुरपरे तत्रैव लयमेति च ६२।
आत्मनो बहवः प्रोक्ता नित्याः सर्वगतास्तथा ।
अन्ये मतिमतां श्रेष्ठास्तत्वालोकनतत्पराः ६३।
यावच्छरीरमात्मानं प्रतिपन्नास्तथापरे ।
हस्तिकीटादिदेहेऽपि महांतमंडमेव च ६४।
यथाऽद्यजगतोवृत्तिस्तथा कालांतरेष्वपि ।
प्रवाहो नित्यमेवैष कः कर्त्तेति च केचन ६५।
यद्यत्प्रत्यक्षविषयं तत्तदत्र न विद्यते ।
कुतः स्वर्गादयः संतीत्यन्ये विजितमानसाः ६६।
निरीश्वरमिदं प्राहुः सेश्वरं च तथापरे ।
अत्यंतभिन्नमतयः परमार्थपराङ्मुखाः ६७।
एवं मन्येऽपि कुहका यथामति यथाश्रुतम् ।
वदंति विविधैर्भेदैः स्वयुक्ति स्थितिकारकाः ६८।
तर्केष्ववहितो भूत्वा कथयामि तपोधन ।
परमार्थमिमं पुण्यं घोरं संसारनाशनम् ६९।
तन्मूलमनुजानंति ततो देवादयो नराः ।
प्रमाणेनोपलभ्यंते न प्रमाणं विमोहितैः ७०।
अनागतमतीतं च विप्रकृष्टमतीव यत् ।
न गृहीतं यथाशक्त्या वर्त्तमानार्थनिष्ठितम् ७१।
आगमो मुनिभिः प्रोक्तो पूर्वरूपक्रमागतः ।
प्रमाणं स तु विज्ञेयः परमार्थप्रसाधकः ७२।
यदभ्यासबलाज्ज्ञानं रागद्वेषमलापहम् ।
उत्पद्यते द्विजश्रेष्ठ सोऽयमागमसंज्ञकः ७३।
फलं कर्म च यत्तत्वं विज्ञानं दर्शनं विभुम् ।
जात्यादिकल्पनाहीनं द्वितीयागमलक्षणम् ७४।
आत्मसंवेदनं नित्यं सनातनमतींद्रियम् ।
चिन्मात्रममृतं ज्ञेयमनंतमजमव्ययम् ७५।
व्यक्ताव्यक्तस्वरूपेण व्यक्तस्थितमनंजनम् ।
व्याप्ता विष्णुरिति ख्यातं ख्यातभिन्नमवस्थितम् ७६।
योगिध्येयमविज्ञेयं परमार्थपराङ्मुखैः ।
लक्ष्यते बुद्धिभिर्भिन्नमभिभिन्नं न चात्मनि ७७।
शृणुष्वावहितस्तात कथयामि तवानघ ।
यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत ७८।
कदाचिद्ब्रह्मलोकस्थं ब्रह्माणं च पितामहम् ।
प्रणिपत्य यथान्यायमपृच्छमजमव्ययम् ७९।
किमु ज्ञानं परं प्रोक्तं कश्च योगः परो मतः ।
एतन्मे तत्त्वतो ब्रह्मन्समाचक्ष्व पितामह ८०।
ब्रह्मोवाच-
शृणुष्वावहितस्तात ज्ञानयोगमनुत्तमम् ।
अल्पग्रंथं प्रभूतार्थमदुःखोपासनक्रियम् ८१।
यः परं परया प्रोक्तः पुरुषः पंचविंशकः ।
स एव सर्वभूतात्मा तेन इत्यभिधीयते ८२।
नारायणो जगद्धाम परमात्मा सनातनः ।
जगतः सृष्टिसंहार परिपालनतत्परः ८३।
त्रयाणामात्मनां चैको देवदेवः सनातनः ।
आराध्यः सर्वदा ब्रह्मन्ते पश्यंति जगत्पतिम् ८४।
यथा जगदवस्थानं यथा कालांतरे पुनः ।
भूतं भव्यं भविष्यं च विप्रकृष्टं तथैव च ८५।
स्थूलं सूक्ष्मं तथा चान्यत्पश्यंति ज्ञानचक्षुषा ।
तच्चित्तास्तद्गतप्राणा नारायणपरायणाः ८६।
अन्यथा मंदबुद्धीनां प्रतिभाति दुरात्मनाम् ।
कुतर्कज्ञानदुष्टानां विभक्तेंद्रियवादिनाम् ८७।
नारद उवाच-
श्रूयतामन्यदपि वै कथ्यमानं मयानघ ।
ब्रह्मणैव पुरा प्रोक्तं जगतः कारणात्मना ८८।
देवानामिंद्रमुख्यानामृषीणां चैव सुव्रत ।
हितानि कथयामास पृच्छतां कमलासनः ८९।
ब्रह्मोवाच-
नारायणपरो धर्मस्तथालोकाश्च शाश्वताः ।
नारायणपरा यज्ञाः शास्त्राणि विविधानि च ९०।
वेदाः सांगास्तथा चान्ये विष्णुर्विश्वेश्वरो हरिः ।
पृथिव्यादीनि विबुधाः पंचभूतानि सोऽव्ययः ९१।
सर्वं विष्णुमयं ज्ञेयं विबुधैः सकलं जगत् ।
तथापि मानुषाः पाप न जानंति विमोहिताः ९२।
तस्यैव मायया व्याप्तं चराचरमिदं जगत् ।
तन्मनास्तद्गतप्राणो जानाति परमार्थवित् ९३।
ईश्वरः सर्वभूतानां विष्णुस्त्रैलोक्यपालकः ।
तस्मिन्नेतज्जगत्सर्वं तिष्ठति प्रभवत्यपि ९४।
जगत्संहरते रुद्रः पालने विष्णुरुच्यते ।
उत्पत्तौ चाहमेवात्र तथान्ये लोकपालकाः ९५।
सर्वाधारो निराधारः सकलो निष्कलस्तथा ।
अणुर्महांस्तथाप्यन्यत्तस्माच्च परतः परः ९६।
तमेव शरणं यात सर्वसंहारकर्मगम् ।
स पिता जनितास्माकं कीर्तितो मधुसूदनः ९७।
एवमुक्ताः सुराः सर्वे ब्रह्मणा पद्मयोनिना ।
प्रणेमुः सर्वलोकेशं देवं विष्णुं जनार्दनम् ९८।
तस्मात्त्वमपि विप्रर्षे नारायणपरो भव ।
तदन्यः को महोदारः प्रार्थितं दातुर्महति ९९।
पितरं मातरं चैव तमेव पुरुषोत्तमम् ।
परिगृह्णीष्व लोकेशं देवदेवं जगत्पतिम् 6.80.१००।
अग्निकार्येण वै तेन तपसाध्ययनेन वै ।
तोषयेद्देवदेवेशं गुरुं नित्यमतंद्रितः १०१।
स्वर्गे क्षयं तथा भोगमनुष्ठेयं तथैव च ।
परिगृह्णीष्व विप्रर्षे तमेव पुरुषोत्तमम् १०२।
किं तेन मंत्रैर्बहुभिः किं तेन बहुभिर्व्रतैः ।
ॐ नमोनारायणायेति मंत्रः सर्वार्थसाधकः १०३।
चीरवासा जटी विप्र दंडीमुंडित एव वा ।
विभूषितो वा विप्रेंद्र न लिंगं धर्मकारणम् १०४।
ये नृशंसा दुरात्मानः पापाचारपराः सदा ।
तेपि यांति परं स्थानं नारायणपरायणाः १०५।
लिप्यंते न च पापौघैर्वैष्णवं वीतकिल्बिषाः १०६।
पुनंति सकलं लोकं अहिंसाजितमानसाः १०७।
क्षत्रबंधुरिति ख्यातो राजा प्राणिविहिंसकः ।
प्राप्तवान्परमं धाम वैष्णवं केशवालयात् १०८।
अंबरीषो महासत्वो राजा परमतत्ववित् ।
हृषीकेशं समाराध्य वैष्णवं पदमाप्तवान् १०९।
अन्ये ब्रह्मर्षयः शांता बहवः संशितव्रताः ।
ध्यात्वा च परमात्मानं संसिद्धिं परमां गताः ११०।
प्रह्लादः परमाह्लादः पुरा नारायणं हरिम् ।
सेवितोऽभ्यर्चितो ध्यातस्तेनैव परिरक्षितः १११।
भरतो नाम तेजस्वी राजा परमधार्मिकः ।
उपास्यैनं चिरं कालं परां मुक्तिमवाप्तवान् ११२।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।
केशवाराधनं हित्वा नैव यांति परां गतिम् ११३।
जन्मांतरसहस्रेषु यस्य स्यान्मतिरीदृशी ।
दासोऽहं विष्णुभक्तानामिति सर्वार्थसाधकः ११४।
स याति विष्णुसालोक्यं पुरुषो नात्र संशयः ।
किं पुनस्तद्गतप्राणाः पुरुषाः संशितव्रताः ११५।
अनन्यमानसैर्नित्यं ध्यातव्यस्तत्वचिंतकैः ।
नारायणो जगद्व्यापी परमात्मा सनातनः ११६।
भीष्म उवाच-
इत्येवमुक्त्वा देवर्षिस्तत्रैवांतरधीयत ।
परोपकारनिरतो नारदः परमार्थवित् ११७।
पुंडरीकोऽपि धर्मात्मा नारायणपरायणः ।
ॐ नमो नारायणायेति मंत्रमष्टाक्षरं जपन् ११८।
प्रसीद मम विश्वात्मन्निति वाचं वदन्सदा ।
हृत्पुंडरीके गोविंदं प्रतिष्ठाप्यामृतात्मकम् ११९।
तपस्वी विमले सौम्ये शालग्रामे तपोधनः ।
उवास चिरमेकाकी निर्द्वंद्वो निष्परिग्रहः १२०।
स्वप्नेऽपि केशवान्नान्यत्पश्यतीति महामतिः ।
निद्रापि नैव तस्यासीत्पुरुषार्थविरोधिनी १२१।
तपसा ब्रह्मचर्येण शौचेन च विशेषतः ।
जन्मजन्मांतरारूढे संस्कारे च यथा तथा १२२।
प्रसादाद्देवदेवस्य सर्वलोकस्य साक्षिणः ।
अवाप परमां सिद्धिं वैष्णवीं वीतकिल्बिषः १२३।
शंखचक्रगदापाणिं पीतवाससमच्युतम् ।
श्यामलं पुंडरीकाक्षं स ददर्श सदाकृतिम् १२४।
सिंहा व्याघ्रास्तथा चान्ये मृगाः प्राणिविहिंसकाः ।
विरोधं सहजं हित्वा समेतास्तस्य संनिधौ १२५।
विचरंति यथाकामं प्रसन्नेंद्रियवृत्तयः ।
परस्परहितं रम्यं संप्राप्तं पांडुनंदन १२६।
तथा प्रसन्नं सलिलं सरसां सरितामपि ।
ऋतवः सुप्रन्नाश्च विमलेंद्रियसंयुताः १२७।
मारुताश्च सुखस्पर्शा वृक्षाः पुष्पफलान्विताः ।
आनुकूल्यं ययुः सर्वे पदार्थास्तस्य धीमतः १२८।
प्रसन्नमभवत्तस्मै प्रसन्नं सचराचरम् ।
प्रसन्ने देवदेवेशे गोविंदे भक्तवत्सले १२९।
ततः कदाचिद्भगवान्पुंडरीकस्य धीमतः ।
आविरासीज्जगन्नाथः पुंडरीकायतेक्षणः १३०।
शंखचक्रगदापाणिः पीतवासाः समुज्ज्वलः ।
पुंडरीकविशालाक्षश्चंद्रबिंबनिभाननः १३१।
किंकिणीकुंडली हारी केयूरी कटिसूत्रवान् ।
श्रीवत्सांकः पीतवासाः कौस्तुभेन विभूषितः १३२।
वनमालापरीतांगः स्फुरन्मुकुटकुंडलः ।
स्फुरता ब्रह्मसूत्रेण मुक्तादामविलंबिना १३३।
विराजमानो देवेशश्चामरव्यजनादिभिः ।
देवैः सिद्धैः सदेवेंद्रैर्गंधर्वैर्मुनिभिर्वरैः १३४।
यक्षैर्नागवरैश्चैवसेव्यमानोऽप्सरोगणैः ।
तं दृष्ट्वा देवदेवेशं पुंडरीकोऽनघः स्वयम् १३५।
ततो बुद्ध्या महात्मानं तुष्टाव च जनार्दनम् ।
प्रांजलिः प्रणतो भूत्वा प्रहृष्टेनांतरात्मना १३६।
पुंडरीक उवाच-
नमोऽस्तु विष्णवे तुभ्यं सर्वलोकैकचक्षुषे ।
निरंजनाय नित्याय निर्गुणाय महात्मने १३७।
त्वमीशः सर्वभूतानां तथैव च निरीश्वरः ।
तथाभयार्तिनाशायगोविंदोगरुडध्वजः १३८।
अनुग्रहेणभूतानांअनेकाकारधारिणे ।
त्वयि सर्वमिदं प्राहुस्त्वन्मयं चैव केवलम् १३९।
त्वमस्माज्जगतो भिन्नो निर्मितं च जगत्त्वया ।
नमोस्तु नाभिप्रसवनलिनाय नमो नमः १४०।
नमः समस्तवेदांतविश्रुतात्मविभूतये ।
त्वमेव सर्वदेवेश कारणं कैटभार्दन १४१।
प्रसीद हृदयावास शंखचक्रगदाधर ।
नमः समस्तभूतानामादिभूताय भूभृते १४२।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ।
यस्य ब्रह्मादयो देवा न विदंति सुरेश्वराः १४३।
महिमानं तपोमेयं तस्मै तुभ्यं नमाम्यहम् ।
वाचामगोचरो यस्य महिमा तव नाप्यते १४४।
जात्यादिभिरसंस्पृष्टः सदा ध्येयोऽसि तत्त्वतः ।
तथा विभेदरूपेण भक्तानामनुकंपया १४५।
मत्स्यकूर्मादिरूपेण दृश्यसे पुरुषोत्तम ।
भीष्म उवाच-
पुंडरीको जगन्नाथं संस्तुवन्पुरुषोत्तमम् १४६।
तमेवालोकयद्वीर चिरप्रार्थितदर्शनम् ।
तमाह भगवान्विष्णुः पद्मनाभस्त्रिविक्रमः १४७।
पुंडरीकं महाभागं तथा गंभीरया गिरा १४८।
श्रीभगवानुवाच-
प्रीतोऽस्मि वत्स भद्रं ते पुंडरीक महामते ।
वरं वृष्णीष्व दास्यामि यत्ते मनसि वर्त्तते १४९।
एतच्छ्रुत्वा तु वचनं देवदेवस्य भाषितम् ।
एवं विज्ञापयामास पुंडरीको महामतिः 6.80.१५०।
पुंडरीक उवाच-
क्वाहमत्यंत दुर्बुद्धिः क्व भवंतो हितैषिणः ।
यद्धितं मम देवेश तदाज्ञापय माधव १५१।
एवमुक्तः स भगवान्सुप्रीतश्च ततोऽब्रवीत् ।
पुंडरीकं महाभागं कृतांजलिमुपस्थितम् १५२।
आगच्छ कुशलं तेऽस्तु मयैव सह सुव्रत ।
उपकारी च नित्यात्मा मया त्वं सर्वदा सह १५३।
भीष्म उवाच-
एवमुक्तवति प्रीत्या श्रीधरे भक्तवत्सले ।
दिवि दुंदुभयो नेदुः पुष्पवर्षं पपात ह १५४।
ब्रह्मादयस्तथा देवाः साधुसाध्विति चाब्रुवन् ।
जगुः सिद्धाश्च गंधर्वाः किन्नराश्च विशेषतः १५५।
तत्रैव तमुपादाय देवदेवो जगत्पतिः ।
जगाम गरुडारूढः सर्वलोकनमस्कृतः १५६।
तस्मात्त्वमपि राजेंद्र विष्णुभक्तिसमन्वितः ।
तच्चित्तस्तद्गतप्राणस्तद्भक्तानां हिते रतः १५७।
अर्चयित्वा यथायोग्यं भजस्व पुरुषोत्तमम् ।
शृणुष्व तत्कथां पुण्यां सर्वपापप्रणाशिनीम् १५८।
येनोपायेन राजेंद्र विष्णुभक्तिसमन्वितः ।
प्रीतो भवति विश्वात्मा तत्कुरुष्व सुविस्तरम् १५९।
अश्वमेधशतैरिष्ट्वा वाजपेयशतैरपि ।
प्राप्नुवंति नरा नैव नारायणपराङ्मुखाः १६०।
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति १६१।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिंदीवरश्यामो हृदयस्थो जनार्दनः १६२।
य इदं शृणुयान्नित्यं पठेद्वापि समाहितः ।
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति १६३।
ईश्वर उवाच-
एतद्वै नाममाहात्म्यं श्रुत्वा वै नगनंदिनि ।
धर्मार्थकाममोक्षास्तु भवंति च न संशयः १६४।
शुक्ले कुलेऽवतीर्णो यो ब्राह्मणो वेदतत्परः ।
वैष्णवो विष्णुरूपोऽसौ नान्यो विप्रस्तु कर्हिचित् १६५।
मुखे नामोच्चरन्विष्णोर्हृदये ध्यानतत्परः ।
शंखचक्रधरो विद्वन्मालां तुलसिजां दधत् १६६।
जीवन्मुक्तः स विज्ञेयो भुक्त्वा भोगांस्त्वनेकशः ।
एकविंशतिकुलैः सार्द्धं विष्णुलोके स मोदते १६७।
पुंडरीको यथा शक्त्या मुक्तो ह्यत्र न संशयः ।
भक्तिभावेन गोविंदस्तुष्टिं प्राप्नोति शाश्वतीम् १६८।
कलौ वै हरिगीतं तु स्वगृहे वा विशेषतः ।
सामगानसमं प्रोक्तं देवार्चनसमाधिषु १६९।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमामहेश्वरसंवादे विष्णुमहिमानामाशीतितमोऽध्यायः ८०।