पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९० पद्मपुराणम्
अध्यायः ०९१
वेदव्यासः
अध्यायः ०९२ →

नारद उवाच-
इत्युक्त्वा भगवान्विष्णुः शफरीतुल्यरूपधृक्
स पपातांजलौ विंध्ये निवासे कश्यपस्य च १
स तं कमंडलौ क्षिप्रं कृपया क्षिप्तवान्मुनिः
तावत्स न ममौ तत्र ततः कूपे न्यवेशयत् २
तत्रापि न ममौ तावत्कासारे प्राक्षिपत्सताम्
एवं स सागरे क्षिप्तस्तत्र सोऽप्यन्ववर्द्धत ३
ततोऽवधीत्स तं शंखं विष्णुर्वै मत्स्यरूपधृक्
अथ तं स्वकरे धृत्वा बदरीवनमागतः ४
तत्राहूय ऋषीन्सर्वानिदमाज्ञापयद्विभुः
श्रीकृष्ण उवाच-
जलांतरे विशीर्णांस्तु यूयं वेदान्प्रमार्जथ ५
आनयध्वं च त्वरिताः सरहस्यं जलांतरात्
तावत्प्रयागे तिष्ठामि देवतागणसंयुतः ६
नारद उवाच-
ततस्तैः सर्वमुनिभिस्तपोबलसमन्वितैः
उद्धारिताः षडंगास्ते वेदा यज्ञसमन्विताः ७
तेषु यावन्मितं येन लब्धं तावन्मितस्य हि
स स एव ऋषिर्जातस्तदाप्रभृति पार्थिव ८
अथ सर्वेऽपि संगम्य प्रयागं मुनयो ययुः
विष्णवे सविधात्रे ते लब्धान्वेदान्न्यवेदयन् ९
लब्ध्वा वेदान्सयज्ञांस्तु ब्रह्माहर्षसमन्वितः
अयजच्चाश्वमेधेन देवर्षिगणसंवृतः १०
यज्ञा ते देवदेवेश सिद्धपन्नगगुह्यकाः
निपत्य दंडवद्भूमौ विज्ञप्तिं तत्र चक्रिरे ११
देवा ऊचुः
देवदेवजगन्नाथ विज्ञप्तिं शृणु नः प्रभो
हर्षकालोऽयमस्माकं तस्मात्त्वं वरदो भव १२
स्थानेऽस्मिन्नृषयो वेदान्नष्टान्प्रापुः पुनः स्वयम्
यज्ञभागान्वयं प्राप्तास्त्वत्प्रसादाद्रमापते १३
स्थानमेतदपि श्रेष्ठं पृथिव्यां पुण्यवर्द्धनम्
भुक्तिमुक्तिप्रदं चास्तु प्रसादाद्भवतः सदा १४
कालोऽप्ययं महापुण्यो ब्रह्मघ्नादिविशुद्धिकृत्
दत्ताक्षयकरश्चास्तु वरमेतद्वदस्व नः १५
श्रीविष्णुरुवाच
ममाप्येतन्मतं देवा यद्भवद्भिरुदाहृतम्
तत्तथास्तु लभत्वेतद्ब्रह्मक्षेत्रमिति प्रथाम् १६
सूर्यवंशोद्भवो राजा गंगामत्रानयिष्यति
सा सूर्यकन्यया चात्र कालिंद्या संगमिष्यति १७
यूयं च सर्वे ब्रह्माद्या निवसध्वं मया सह
तीर्थराजेऽति विख्यातं तीर्थमेतद्भविष्यति १८
दानं तपो व्रतं होमो जपपूजादिकाः क्रियाः
अनंतफलदाः संतु मत्सांनिध्यप्रदाः सदा १९
ब्रह्महत्यादि पापानि बहुजन्मकृतान्यपि
दर्शनादस्य तीर्थस्य विनाशं यांतु तत्क्षणात् २०
देहत्यागं तथा धीराः कुर्वंति मम सन्निधौ
मत्तनुं प्रविशंत्येव पुनर्जन्मनि नो नराः २१
पितॄन्निर्दिश्य ये श्राद्धं कुर्वंत्यत्र समागताः
तेषां पितृगणाः सर्वे यांतु ते मत्सलोकताम् २२
कालोऽप्येष महापुण्यफलदोऽस्तु सदा नृणाम्
सूर्य्ये मकरगे प्रातः स्नायिनां पापनाशनम् २३
मकरस्थरवौ माघे प्रातः स्नानं प्रकुर्वताम्
दर्शनादेव पापानि यांति सूर्याद्यथा तमः २४
सलोकत्वं सरूपत्वं समीपत्वं त्रयं क्रमात्
नृणां ददाम्यहं स्नानान्माघे मकरगे रवौ २५
यूयं मुनीश्वराः सर्वे शृणुध्वं वरदोऽस्मि वः
बदरीवनमध्येऽहं सदा तिष्ठामि सर्वगः २६
अन्यत्र दशभिर्वर्षैस्तपसावाप्यते फलम्
तदत्र दिवसैकेन भवद्भिः प्राप्यते सदा २७
स्थानस्य दर्शनं तस्य ये कुर्वंति नरोत्तमाः
जीवन्मुक्तास्तदा तेषु पापं नैवावतिष्ठते २८
सूत उवाच-
एवं देवान्देवदेवस्तदुक्त्वा तत्रैवांतर्द्धानमागात्स वेधाः
देवाः सर्वेऽप्यंशकैस्तत्र तस्थुश्चांतर्द्धानं प्रापुरिंद्रादयस्ते २९
इमां च गाथां शृणुयान्नरोत्तमो यः श्रावयेद्वापि विशुद्धचित्तः
स तीर्थराजं बदरीवनं यत्कृत्वा फलं मां समवाप्नुयाच्च ३०
इति श्रीपाद्मे महापुराणे उत्तरखंडे पंचपंचाशत्सहस्रसंहितायां कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे शंखासुरवधो वेदागमे प्रयागमाहात्म्यं नामैकनवति-तमोऽध्यायः ९१