पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ११३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ११२ पद्मपुराणम्
अध्यायः ११३
वेदव्यासः
अध्यायः ११४ →

श्रीकृष्ण उवाच
पुरावंतीपुरे वासी विप्र आसीद्धनेश्वरः
ब्रह्मकर्मपरिभ्रष्टः पापनिष्ठः सुदुर्मतिः १
रसकंबलचर्मादि विक्रयानृतवर्त्तनः
स्तेयवेश्यासुरापानद्यूतसंसक्तमानसः २
देशाद्देशांतरं गच्छन्क्रयविक्रयकारणात्
माहिष्मतीं पुरीं यातः कदाचित्स धनेश्वरः ३
महिषेण कृता पूर्वं तस्मान्माहिष्मतीभवत्
यस्यां वप्रतटाभाति नर्मदा पापनाशिनी ४
कार्तिकव्रतिनस्तत्र नानाग्रामागतान्नरान्
स दृष्ट्वा विक्रयं कुर्वन्मासमेकमुवास ह ५
स नित्यं नर्मदातीरे भ्रमन्विक्रयकारणात्
ददर्श ब्राह्मणान्स्नातान्जपदेवार्चनेरतान् ६
कांश्चित्पुराणं पठतः कांश्चित्तच्छ्रवणे रतान्
नृत्यगायनवादित्रविष्णुस्तवनतत्परान् ७
विष्णुमुद्रांकितान्कांश्चिन्मालातुलसिधारिणः
ददर्श कौतुकाविष्टस्तत्र तत्र धनेश्वरः ८
नित्यं परिभ्रमंस्तत्र दर्शनस्पर्शभाषणात्
वैष्णवानां तथा विष्णोर्नामश्रावादि सोऽलभत् ९
एवं मासं स्थितःसोऽथ कार्तिकोद्यापने विधौ
क्रियमाणे ददर्शासौ भक्तैर्जागरणं हरेः १०
पौर्णमास्यां ततोऽपश्यद्विविधं पूजनादिकम्
दक्षिणा भोजनाद्यं च दीपदानं व्रतस्थितैः ११
ततोऽर्कास्तमये चैवं दीपोत्सवविधिं तदा
क्रियमाणं ददर्शासौ प्रीत्यर्थं त्रिपुरद्विषः १२
त्रिपुराणां कृतो दाहो यतस्तस्यां शिवेन तु
अतस्तु क्रियते तस्यां तिथौ भक्तैर्महोत्सवः
मम रुद्रस्य यः कश्चिदंतरं परिकल्पयेत् १३
तस्य पुण्यक्रियाः सर्वा निष्फलाः स्युर्न संशयः
तत्र नृत्यादिकं पश्यन्बभ्राम स धनेश्वरः
तावत्कृष्णाहिना दष्टो विकलः स पपात ह
जनास्तंपति तं वीक्ष्य परिवव्रुः कृपान्विताः १४
तुलसीमिश्रितैस्तोयैस्तन्मुखं सिषिचुस्तदा
अथ देहे परित्यक्ते तं बद्ध्वा यमकिंकराः १५
बाध्यमानं कशाघातैर्निन्युः संयमिनीं रुषा
चित्रगुप्तस्तु तं दृष्ट्वा निर्भर्त्स्यावेदयत्तदा १६
यमायतेन बाल्यात्तु कर्म यद्दुष्कृतं कृतम्
चित्रगुप्त उवाच
नैवास्य दृश्यते किंचिदाबाल्यात्सुकृतं क्वचित् १७
दुष्कृतं शक्यते वक्तुं शतवर्षैर्न भास्करे
पापमूर्तिरयं दुष्टः केवलं दृश्यते विभो १८
तस्मादाकल्पमर्यादं निरये परिपाच्यताम्
श्रीकृष्ण उवाच
निशम्येत्थं वचः क्रोधाद्यमः प्राह स्वकिंकरान् १९
दर्शयन्नात्मनोरूपं कालाग्निसदृशप्रभम्
यम उवाच
भो प्रेतापनयस्वैनं बध्यमानं स्वमुद्गरैः २०
कुंभीपाके क्षिपस्वाशु तैलक्वथनशब्दिते
यावत्क्षिप्तस्तु तत्रासौ तावच्छीतलतां ययौ २१
कुंभीपाको यथा वह्निः प्रह्लादक्षेपणात्पुरा
तद्दृष्ट्वा महदादश्चर्यं प्रेतपो विस्मयान्वितः २२
वेगादागत्य तत्सर्वं यमायाकथयत्तदा
यमस्तु कौतुकं श्रुत्वा प्रेतपेन निवेदितम् २३
आः किमेतदिति प्रोच्य सम्यगेतद्विचारयत्
तावदभ्यागतस्तत्र नारदः प्रहसंस्त्वरन् २४
यमेन पूजितः सम्यक्तं दृष्ट्वा वाक्यमब्रवीत्
नारद उवाच
नैवायं निरयान्भोक्तुं क्षमः सवितृनंदन २५
यस्मादेतस्य संजातं कर्म यन्निरयापहम्
यः पुण्यकर्मणां कुर्याद्दर्शनस्पर्शभाषणम् २६
तत्षडंशमवाप्नोति पुण्यस्य नियतं नरः
असंख्यातैस्तुसंसर्गैः कृतवानेष यद्धरेः २७
कार्तिकव्रतिभिर्मासं तस्मात्पुण्यांशभागयम्
परिचर्याकरस्तेषां संपूर्णव्रतपुण्यभाक् २८
अतोऽस्योर्जव्रतोद्भूतपुण्यसंख्या न विद्यते
कार्त्तिकव्रतिनां पुंसां पातकानि महांत्यपि २९
नाशयत्येव सर्वाणि विष्णुः सद्भक्तवत्सलः
अंते तन्नामभिस्तोयैस्तुलसीमिश्रितैस्त्वयम् ३०
वैष्णवानुग्रही यस्मान्नरके नैव पच्यते
तस्मान्निहतपापोऽयं सद्गतिं यातुमर्हति ३१
आर्द्रैः शुष्कैर्यथापापैर्निरये भोगसंनिधिः
प्राप्यते सुकृतैस्तद्वत्स्वर्गभोगस्य संनिधिः ३२
तस्मादकामपुण्यो हि यक्षयोनिस्थितस्त्वसौ
विलोक्य नरकान्सर्वान्पापभोगमवाप्नुयात् ३३
श्रीकृष्ण उवाच
इत्युक्त्वा गतवति नारदेऽथ सौरिस्तद्वाक्यश्रवणविबुद्ध तत्सुकर्मा
विप्रं तं पुनरनयत्स्वकिंकरेण तान्सर्वान्निरयगणान्प्रदर्शयिष्यन् ३४
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्त्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे धनेश्वरोपाख्याने त्रयोदशाधिकशततमोऽध्यायः ११३