पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०४८ पद्मपुराणम्
अध्यायः ०४९
वेदव्यासः
अध्यायः ०५० →

युधिष्ठिर उवाच-
वैशाख शुक्लपक्षे तु किन्नामैकादशी भवेत् ।
किं फलं को विधिस्तत्र कथयस्व जनार्दन १।
श्रीकृष्ण उवाच-
इदमेव पुरा पृष्टं रामचंद्रेण धीमता ।
वसिष्ठं प्रति राजेंद्र यत्त्वं मामनुपृच्छसि २।
राम उवाच-
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् ।
सर्वपापक्षयकरं सर्वदुःखनिकृंतनम् ३।
मया दुःखानि भुक्तानि सीताविरहजानि तु ।
ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने ४।
वसिष्ठ उवाच-
साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः ।
त्वन्नामग्रहणेनैव पूतो भवति मानवः ५।
तथापि कथयिष्यामि लोकानां हितकाम्यया ।
पवित्रं पावनानां च व्रतानामुत्तमं व्रतम् ६।
वैशाखस्य सिते पक्षे राम चैकादशी भवेत् ।
मोहिनी नाम सा प्रोक्ता सर्वपापहरापराः ७।
मोहजालात्प्रमुच्यंते पातकानां समूहतः ।
अस्या व्रत प्रभावेन सत्यं सत्यं वदाम्यहम् ८।
अतः कारणतो राम कर्तव्यैषा भवादृशैः ।
पातकानां क्षयकरी महादुःखविनाशिनी ९।
शृणुष्वैकमना राम कथां पापहरां पराम् ।
यस्याः श्रवणमात्रेण महापापं प्रणश्यति १०।
सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा ।
द्युतिमान्नाम नृपतिस्तत्र राज्यं करोति वै ११।
चंद्रवंशोद्भवो नाम धृतिमान्सत्यसंगरः ।
तत्र वैश्यो निवसति धनधान्यसमृद्धिमान् १२।
धनपाल इति ख्यातः पुण्यकर्मप्रवर्त्तकः ।
प्रपा कूप मठाराम तडाग गृहकारकः १३।
विष्णुभक्तिरतः शांतस्तस्यासन्पंचपुत्रकाः ।
सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा १४।
पंचमो धृष्टबुद्धिश्च महापापरतः सदा ।
परस्त्रीसंगनिरतो विटगोष्ठी विशारदः १५।
द्यूतादि व्यसनासक्तः परस्त्री रतिलालसः ।
न च देवार्चने बुद्धिर्नपितॄन्न द्विजान्प्रति १६।
अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयंकरः ।
अभक्ष्यभक्षकः पापी सुरापाने रतः सदा १७।
वेश्याकंठे क्षिप्तबाहुर्भ्रमन्दुष्टश्चतुष्पथे ।
पित्रा निष्कासितो गेहात्परित्यक्तश्च बांधवैः १८।
स्वदेहभूषणान्येव क्षयं नीतानि तेन वै ।
गणिकाभिः परित्यक्तो निंदितश्च धनक्षयात् १९।
ततश्चिंतापरो जातो वस्त्रहीनः क्षुधार्दितः ।
किं करोमि क्वगच्छामि केनोपायेन जीव्यते २०।
तस्करत्वं समारब्धं तत्रैव नगरे पितुः ।
गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात् २१।
पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससंभ्रमैः ।
धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः २२।
कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः ।
न स्थातव्यं हि मंदात्मंस्त्वया मद्देशगोचरे २३।
एवमुक्त्वा ततो राज्ञा मोचितो दृढबंधनात् ।
निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम् २४।
क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति ।
सिंहवन्निजघानासौ मृग शूकर चित्रलान् २५।
आमिषाहार निरतो वने तिष्ठति सर्वदा ।
करे शरासनं कृत्वा निषंगं पृष्ठ संगतम् २६।
अरण्यचारिणो हंति पक्षिणश्च पदाचरन् ।
चकोरांश्च मयूरांश्च कंक तित्तिर मूषिकान् २७।
एतानन्यान्हिनस्त्यंधो धृष्टबुद्धिस्तु निर्घृणः ।
पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे २८।
दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम् ।
कौंडिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित् २९।
माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम् ।
आससाद धृष्टबुद्धिः शोकभारेण पीडितः ३०।
तद्वस्त्रबिंदुस्पर्शेन गतपापो हताशुभः ।
कौंडिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृतांजलि ३१।
धृष्टबुद्धिरुवाच-
भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि ।
येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद ३२।
कौंडिन्य उवाच-
शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव ।
वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता ३३।
एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः ।
मेरुतुल्यानि पापानि क्षयं गच्छंति देहिनाम् ३४।
बहुजन्मार्जितान्येषा मोहिनी समुपोषिता ।
इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः ३५।
व्रतं चकार विधिवत्कौंडिन्यस्योपदेशतः ।
कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः ३६।
दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः ।
जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम् ३७।
इतीदृशं रामचंद्र उत्तमं मोहिनी व्रतम् ।
नातः परतरं किंचित्त्रैलोक्ये सचराचरे ३८।
यज्ञादितीर्थदानानि कलां नार्हंति षोडशीम् ।
पठनाच्छ्रवणाद्राजन्गोसहस्र फलं लभेत् ३९।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां सहितायामुत्तरखंडे उमापतिनारदसंवादे वैशाखशुक्ले मोहन्येकादशीनाम एकोनपंचाशत्तमोऽध्यायः४९।