पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०३२ पद्मपुराणम्
अध्यायः ०३३
वेदव्यासः
अध्यायः ०३४ →

नारद उवाच-
शनिपीडा कथं याति तन्मे वद सुरोत्तम
त्वन्मुखाच्छ्रूयते यद्वै तेन जंतुः प्रमुच्यते १
महादेव उवाच-
देवर्षे शृणु वृत्तांतं तेन मुच्येत बंधनात्
ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः २
अयं तु देवो विख्यातः कालरूपी महाग्रहः
जटिलो वज्ररोमा च दानवानां भयंकरः ३
तस्याख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभो
मया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा ४
रघुवंशेऽति विख्यातो राजा दशरथः पुरा
चक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत् ५
कृत्तिकांते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः
रोहिणीं भेदयित्वा च शनिर्यास्यति सांप्रतम् ६
शाकटं भेदमत्युग्रं सुरासुरभयंकरम्
द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ७
एतच्छ्रुत्वा ततो वाक्यं मंत्रिभिः सह पार्थिवः
मंत्रयामास किमिदं भयंकरमुपस्थितम् ८
आकुलं च जगद्दृष्ट्वा पौरजानपदादिकम्
ब्रुवंति सर्वतो लोकाः क्षय एष समागतः ९
देशाः सनगरा ग्रामा भयभीताः समंततः
पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान्द्विजान् १०
संविधानं किमत्रास्ति ब्रूत मां हि द्विजोत्तमाः ११
वसिष्ठ उवाच-
प्राजापत्यमृक्षमिदं तस्मिन्भिन्ने कुतः प्रजाः
अयं योगोह्यसाध्यस्तु ब्रह्मशक्रादिभिस्तथा १२
इति संचिंत्य मनसा साहसं परमं महत्
समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् १३
रथमारुह्य वेगेन गतो नक्षत्रमंडलम्
सपादं योजनं लक्षं सूर्यस्योपरि संस्थितम् १४
रोहिणीपृष्ठमास्थाय राजा दशरथः पुरा
रथे तु कांचने दिव्ये मणिरत्नविभूषिते १५
हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रये
दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः १६
बभ्राज स तदाकाशे द्वितीय इव भास्करः
आकर्णपूर्णा चापे तु संहारास्त्रं न्ययोजयत् १७
संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयंकरम्
हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् १८
शनिरुवाच -
पौरुषं तव राजेंद्र परं रिपुभयंकरम्
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः १९
मया विलोकिता राजन्भस्मसाच्च भवंतिते
तुष्टोऽहं तव राजेंद्र तपसा पौरुषेण च
वरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि २०
दशरथ उवाच-
रोहिणीं भेदयित्वा तु न गंतव्यं कदाचन
सरितः सागरा यावत्यावच्चंद्रार्कमेदिनी २१
याचितं तु मया सौरे नान्यमिच्छामि ते वरम्
एवमस्तु शनिः प्राह वरं दत्त्वा तु शाश्वतम् २२
पुनरेवाब्रवीत्तुष्टो वरं वरय सुव्रत
प्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा २३
न भेत्तव्यं हि शकटं त्वया भास्करनंदन
  
द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन २४
शनिरुवाच-
द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति
कीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति २५
वरद्वयं तु संप्राप्य हृष्टरोमा च पार्थिवः
रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलि २६
ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम्
राजा दशरथः स्तोत्रं सौरेरिदमथाब्रवीत् २७
दशरथ उवाच-
नमः कृष्णाय नीलाय शितिकंठनिभाय च
नमः कालाग्निरूपाय कृतांताय च वै नमः २८
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च
नमो विशालनेत्राय शुष्कोदरभयाकृते २९
नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोस्तु ते ३०
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः
नमो घोराय रौद्राय भीषणाय कपालिने ३१
नमस्ते सर्वभक्षाय वलीमुख नमोस्तु ते
सूर्यपुत्र नमस्तेस्तु भास्करे भयदाय च ३२
अधोदृष्टे नमस्तेस्तु संवर्तक नमोस्तु ते
नमो मंदगते तुभ्यं निस्त्रिंशाय नमोस्तु ते ३३
तपसा दग्धदेहाय नित्यं योगरताय च
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ३४
ज्ञानचक्षुर्नमस्तेस्तु कश्यपात्मजसूनवे
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ३५
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः
त्वया विलोकिताः सर्वे नाशं यांति समूलतः ३६
प्रसादं कुरु मे देव वरार्होऽहमुपागतः
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ३७
अब्रवीच्च पुनर्वाक्यं हृष्टरोमा तु भास्करिः
तुष्टोऽहं तव राजेंद्र स्तवेनानेन सुव्रत
वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनंदन ३८
दशरथ उवाच-
अद्यप्रभृति ते सौरे पीडा कार्या न कस्यचित्
देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ३९
शनिरुवाच-
गृह्णंतीति ग्रहाः सर्वे ग्रहाः पीडाकराः स्मृताः
अदेयं याचितं राजन्किंचिद्युक्तं वदाम्यहम् ४०
त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः
एककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात् ४१
देवासुरमनुष्याणां सिद्धविद्याध्ररक्षसाम्
मृत्युं मृत्युगतो दद्यां जन्मन्यंते चतुर्थके ४२
यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितः
शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम ४३
माषौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणाम्
कृष्णां गां वृषभं वापि यो वै दद्याद्दिवजातये ४४
मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत्
पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृतांजलि ४५
तस्य पीडा न चैवाहं करिष्यामि कदाचन
गोचरे जन्मलग्ने वा दशास्वंतर्दशासु च ४६
रक्षामि सततं तस्य पीडां चापि ग्रहस्य च
अनेनैव विधानेन पीडामुक्तं जगद्भवेत् ४७
एवं युक्त्या मया दत्तो वरस्ते रघुनंदन
वरत्रयं तु संप्राप्य राजा दशरथस्तदा ४८
मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम्
शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान् ४९
स्वस्थानं गतवान्राजा प्राप्तः श्रेयोऽभवत्तदा
य इदं प्रातरुत्थाय शनिवारे स्तवं पठेत् 6.33.५०
पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति च
नरः स मुच्यते पापात्स्वर्गलोके महीयते ५१
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे- उमापतिनारदसंवादे दशरथकृतशनिस्तोत्रंनाम त्रयस्त्रिंशोऽध्यायः ३३