पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०३३
← अध्यायः ०३२ | पद्मपुराणम् अध्यायः ०३३ वेदव्यासः |
अध्यायः ०३४ → |
नारद उवाच-
शनिपीडा कथं याति तन्मे वद सुरोत्तम ।
त्वन्मुखाच्छ्रूयते यद्वै तेन जंतुः प्रमुच्यते १।
महादेव उवाच-
देवर्षे शृणु वृत्तांतं तेन मुच्येत बंधनात् ।
ग्रहाणां ग्रहराजोऽयं सौरिः सर्वमहेश्वरः २।
अयं तु देवो विख्यातः कालरूपी महाग्रहः ।
जटिलो वज्ररोमा च दानवानां भयंकरः ३।
तस्याख्यानं च लोकेऽस्मिन्प्रथितं नास्ति वै प्रभो ।
मया गुप्तं विशेषेण नोक्तं हि कस्यचित्कदा ४।
रघुवंशेऽति विख्यातो राजा दशरथः पुरा ।
चक्रवर्ती महावीरः सप्तद्वीपाधिपोऽभवत् ५।
कृत्तिकांते शनिं ज्ञात्वा दैवज्ञैर्ज्ञापितो हि सः ।
रोहिणीं भेदयित्वा च शनिर्यास्यति सांप्रतम् ६।
शाकटं भेदमत्युग्रं सुरासुरभयंकरम् ।
द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ७।
एतच्छ्रुत्वा ततो वाक्यं मंत्रिभिः सह पार्थिवः ।
मंत्रयामास किमिदं भयंकरमुपस्थितम् ८।
आकुलं च जगद्दृष्ट्वा पौरजानपदादिकम् ।
ब्रुवंति सर्वतो लोकाः क्षय एष समागतः ९।
देशाः सनगरा ग्रामा भयभीताः समंततः ।
पप्रच्छ प्रयतो राजा वसिष्ठप्रमुखान्द्विजान् १०।
संविधानं किमत्रास्ति ब्रूत मां हि द्विजोत्तमाः ११।
वसिष्ठ उवाच-
प्राजापत्यमृक्षमिदं तस्मिन्भिन्ने कुतः प्रजाः ।
अयं योगोह्यसाध्यस्तु ब्रह्मशक्रादिभिस्तथा १२।
इति संचिंत्य मनसा साहसं परमं महत् ।
समादाय धनुर्दिव्यं दिव्यायुधसमन्वितम् १३।
रथमारुह्य वेगेन गतो नक्षत्रमंडलम् ।
सपादं योजनं लक्षं सूर्यस्योपरि संस्थितम् १४।
रोहिणीपृष्ठमास्थाय राजा दशरथः पुरा ।
रथे तु कांचने दिव्ये मणिरत्नविभूषिते १५।
हंसवर्णहयैर्युक्ते महाकेतुसमुच्छ्रये ।
दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः १६।
बभ्राज स तदाकाशे द्वितीय इव भास्करः ।
आकर्णपूर्णा चापे तु संहारास्त्रं न्ययोजयत् १७।
संहारास्त्रं शनिर्दृष्ट्वा सुरासुरभयंकरम् ।
हसित्वा तद्भयात्सौरिरिदं वचनमब्रवीत् १८।
शनिरुवाच -
पौरुषं तव राजेंद्र परं रिपुभयंकरम् ।
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः १९।
मया विलोकिता राजन्भस्मसाच्च भवंतिते ।
तुष्टोऽहं तव राजेंद्र तपसा पौरुषेण च ।
वरं ब्रूहि प्रदास्यामि मनसा यत्किमिच्छसि २०।
दशरथ उवाच-
रोहिणीं भेदयित्वा तु न गंतव्यं कदाचन ।
सरितः सागरा यावत्यावच्चंद्रार्कमेदिनी २१।
याचितं तु मया सौरे नान्यमिच्छामि ते वरम् ।
एवमस्तु शनिः प्राह वरं दत्त्वा तु शाश्वतम् २२।
पुनरेवाब्रवीत्तुष्टो वरं वरय सुव्रत ।
प्रार्थयामास हृष्टात्मा वरमन्यं शनेस्तदा २३।
न भेत्तव्यं हि शकटं त्वया भास्करनंदन ।
द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन २४।
शनिरुवाच-
द्वादशाब्दं तु दुर्भिक्षं न कदाचिद्भविष्यति ।
कीर्तिरेषा त्वदीया च त्रैलोक्ये विचरिष्यति २५।
वरद्वयं तु संप्राप्य हृष्टरोमा च पार्थिवः ।
रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृताञ्जलि २६।
ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् ।
राजा दशरथः स्तोत्रं सौरेरिदमथाब्रवीत् २७।
दशरथ उवाच-
नमः कृष्णाय नीलाय शितिकंठनिभाय च ।
नमः कालाग्निरूपाय कृतांताय च वै नमः २८।
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्राय शुष्कोदरभयाकृते २९।
नमः पुष्कलगात्राय स्थूलरोम्णेऽथ वै नमः ।
नमो दीर्घाय शुष्काय कालदंष्ट्र नमोस्तु ते ३०।
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः ।
नमो घोराय रौद्राय भीषणाय कपालिने ३१।
नमस्ते सर्वभक्षाय वलीमुख नमोस्तु ते ।
सूर्यपुत्र नमस्तेस्तु भास्करे भयदाय च ३२।
अधोदृष्टे नमस्तेस्तु संवर्तक नमोस्तु ते ।
नमो मंदगते तुभ्यं निस्त्रिंशाय नमोस्तु ते ३३।
तपसा दग्धदेहाय नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नमः ३४।
ज्ञानचक्षुर्नमस्तेस्तु कश्यपात्मजसूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ३५।
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ।
त्वया विलोकिताः सर्वे नाशं यांति समूलतः ३६।
प्रसादं कुरु मे देव वरार्होऽहमुपागतः ।
एवं स्तुतस्तदा सौरिर्ग्रहराजो महाबलः ३७।
अब्रवीच्च पुनर्वाक्यं हृष्टरोमा तु भास्करिः ।
तुष्टोऽहं तव राजेंद्र स्तवेनानेन सुव्रत ।
वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनंदन ३८।
दशरथ उवाच-
अद्यप्रभृति ते सौरे पीडा कार्या न कस्यचित् ।
देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ३९।
शनिरुवाच-
गृह्णंतीति ग्रहाः सर्वे ग्रहाः पीडाकराः स्मृताः ।
अदेयं याचितं राजन्किंचिद्युक्तं वदाम्यहम् ४०।
त्वया प्रोक्तमिदं स्तोत्रं यः पठिष्यति मानवः ।
एककालं द्विकालं वा पीडामुक्तो भवेत्क्षणात् ४१।
देवासुरमनुष्याणां सिद्धविद्याध्ररक्षसाम् ।
मृत्युं मृत्युगतो दद्यां जन्मन्यंते चतुर्थके ४२।
यः पुनः श्रद्धया युक्तः शुचिर्भूत्वा समाहितः ।
शमीपत्रैः समभ्यर्च्य प्रतिमां लोहजां मम ४३।
माषौदनतिलैर्मिश्रं दद्याल्लोहं च दक्षिणाम् ।
कृष्णां गां वृषभं वापि यो वै दद्याद्दिवजातये ४४।
मद्दिने तु विशेषेण स्तोत्रेणानेन पूजयेत् ।
पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृतांजलि ४५।
तस्य पीडा न चैवाहं करिष्यामि कदाचन ।
गोचरे जन्मलग्ने वा दशास्वंतर्दशासु च ४६।
रक्षामि सततं तस्य पीडां चापि ग्रहस्य च ।
अनेनैव विधानेन पीडामुक्तं जगद्भवेत् ४७।
एवं युक्त्या मया दत्तो वरस्ते रघुनंदन ।
वरत्रयं तु संप्राप्य राजा दशरथस्तदा ४८।
मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम् ।
शनिना चाभ्यनुज्ञातो रथमारुह्य वेगवान् ४९।
स्वस्थानं गतवान्राजा प्राप्तः श्रेयोऽभवत्तदा ।
य इदं प्रातरुत्थाय शनिवारे स्तवं पठेत् 6.33.५०।
पठ्यमानमिदं स्तोत्रं श्रद्धया यः शृणोति च ।
नरः स मुच्यते पापात्स्वर्गलोके महीयते ५१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायां उत्तरखण्डे- उमापतिनारदसंवादे दशरथकृतशनिस्तोत्रंनाम त्रयस्त्रिंशोऽध्यायः ३३।