पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०११

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१० पद्मपुराणम्
अध्यायः ०११
वेदव्यासः
अध्यायः ०१२ →

नारद उवाच-
अथ जालंधरो दूतवचः श्रुत्वा प्रतापवान्
सर्वसैन्यं समाहूय प्रयाणमकरोत्तदा
ततस्ततः समेतानां सैन्यानां श्रूयते ध्वनिः १
सस्त्रीन्मन्दरकंदरेषु शयितानुत्थापयन्किन्नरान्
मेरोर्मंदरकंदरे प्रतिरवानुत्थापयन्वारणान्
सिहानां च ततीर्व्यमुंचत पुरःपंथानमेवंविधस्त्रै
लोक्यं बधिरीचकार महतः सैन्यस्य कोलाहलः २
ततो दुंदुभिनादोऽभूत्पीठे जालंधरे नृप
तन्निनादेन शूराणां प्रियेण महता तदा ३
कंपंति गिरयस्तुंगाः प्रासादा विचलंति च
सप्तसागरगर्भेभ्यो निःसृता दैत्यदानवाः ४
सन्नद्धाश्चातिगर्जंति नानावाहनसंयुताः
हेषा ययौ महानादा वाजिनां बाह्यतः पुरः ५
रथांगेनाथ संहृष्टा धरां संचलतेऽथवा
चालितैर्गजयूथैश्च पृथ्वी रुद्धा सकानना ६
जालंधरेरितैर्भीमैरयुतैः स्यंदनस्थितैः
अश्वार्बुदसहस्रे द्वे अर्बुदं दंतिनामपि ७
रराज सैन्यलक्षैकं रथिनां सपताकिनाम्
परार्द्धनवतिः कोट्यः दृश्यंते मुख्यनायकाः
निर्जगाम महासैन्यं छत्रैः संछाद्य भास्करम् ८
आसीत्पिंजरपांडुपंकजवनं श्वेतातपत्रैः क्वचित्
मायूरातपवारणैः क्वचिदभूतदुन्नीलनीलोत्पलम्
उन्मेघं क्वचिदूर्ध्वधूलिपटलैर्यस्य प्रयाणेऽभवत्
सद्वीचि क्वचिदंबरं सर इवोत्सर्पत्पताकापटैः ९
गजवाजीमयी भूमिर्ध्वजच्छत्रमयं नभः
दिक्चक्रं चामरमयं दैत्यसैन्ये प्रसर्पति १०
ततो जालंधरो दैत्यः प्रयाणाय समुत्सुकः
स्कंधे चारोपयन्शक्तिं नानारत्नविभूषिताम् ११
आजगाम महाविष्णुं प्रष्टुं सागरवासिनम्
अभिवाद्य जगादाथ हरिं जालंधरस्त्विदम् १२
भोगार्थां किं प्रयच्छामि तुभ्यं भावुक कथ्यताम्
श्रुत्वा नारायणो वाक्यमब्धिजस्य मुदान्वितः १३
उवाच किं करोमीति प्रियं सिंधुसुतेप्सितम्
इत्युक्तः स प्रहृष्टोऽथ हरिं प्रोवाच सत्वरः १४
यामि योद्धुं रणेऽहं त्वं सुखी तिष्ठेह सागरे
लक्ष्म्या दत्ताक्षतस्तत्र केशवेनाथ पूजितः १५
स निर्गत्य हरेः स्थानात्समुद्रं प्रष्टुमागतः
सोऽर्णवं प्रणिपत्याह तात यास्यामि दूरतः १६
नीलकंठं रणे जेतुमनुज्ञां दातुमर्हसि
पुत्रस्य वचनं श्रुत्वा यियासोः शंकरं प्रति १७
सिंधुराजेन सोऽप्युक्तः पुत्र तं तापसं त्यज
भुंक्ष्व राज्यं मया दत्तं तापसं त्यज दूरतः १८
अत्यद्भुतः प्रतापस्ते त्वत्तुल्यो नास्ति भूमिपः
स्वर्गादाधिक्यतां नीतं त्वया वत्स धरातलम् १९
तव राज्येव सुमती वैकुंठ इव राजते
यो देवो दुर्जयो दैत्यैरानीतः सह सश्रिया २०
ममांतिकं वत्स वस शंकरं भिक्षुकं त्यज
एवमुक्तो ह्यर्णवेन गिरिजां प्रति रागवान् २१
पितृवाक्यमविज्ञाय आगत्य स्वभटान्स्वकान्
सज्जीभूतं तु युद्धाय वृंदा जालंधरं जगौ २२
वृंदोवाच
नाथ युद्धं न कर्तव्यं राजेंद्र कुत्सयोगिना
मनो निवर्त्यतां पश्य प्रवृत्तं पार्वतीं प्रति २३
गौरीं त्वं वांछसि कस्मात्पार्वती किं ममाधिका
तपस्विनी निरालंबा संसक्ता स्थाणवे सदा २४
सुतानुरागिणी वंध्या ततः कृत्रिमपुत्रिका
वृथास्तुता नारदेन तां त्यजस्व भजस्व माम् २५
इति वृंदावचः श्रुत्वा प्रत्युवाचार्णवात्मजः
अदृष्ट्वा पार्वतीरूपं मच्चेतो न निवर्तते २६
वृंदे त्वया जनपदो राजधानी प्रपाल्यताम्
स्मर्तव्योऽहं सदा चंडि यदि मां हंति शंकरः २७
इति भर्तृवचः श्रुत्वा वृंदा हाससमन्विता
जगाम शिबिकारूढा पीठं जालंधरं तदा २८
नारद उवाच-
अथ प्रतस्थे कैलासं सिंधुसूनुर्महाबलः
महापद्मसहस्राणां षष्ट्या सैन्येन संवृतः २९
अत्रांतरे परित्यज्य कैलांसं शंकरो गतः
गणपुत्रप्रियायुक्तः कैलासं मानसोत्तरम् ३०
जालंधरस्ततः प्राप्तः कैलासं प्रथमेऽहनि
सेनाः संस्थाप्य कैलास आलोकनकुतूहली ३१
दिव्यकेसरमंदाररजःपुंज परिश्रिताः
शीतांबुशीकरासारैः प्रभुग्ना वांति वायवः ३२
यत्र सिद्धांगना पीनस्तनोत्तुंगतरंगिणः
मंदारमकरंदाढ्याः सुंदरा वांति वायवः ३३
यत्राशोकरुचिस्निग्धपादन्यासं च योषिताम्
विलोक्य दानवेंद्रोभून्मनोरथसमाकुलः ३४
प्राप्नुवंति सुराः प्रीतिं स्वबिंबालोकहर्षिताः
यत्र किन्नरकांतानां सुरतव्यंजितप्रभाः ३५
विभांति सर्वतस्तत्र मंदाराः शीर्णपल्लवाः
यत्र शंभुगणाक्रांता नानावेलाकुलद्रुमाः ३६
भांति मन्मथभूपाल यशसा सुधृता इव
यत्र चंदनकस्तूरी गंधोन्मत्तालिसंचयाः
विभांति दग्धकंदर्प्प निर्वाणांगारसन्निभाः ३७
यत्रांगनानां सकलं विलोक्य सौरभ्यमत्युत्तमकांतिमित्रम्
मन्ये परिष्वक्तमनोविनोदा कस्तूरिका गाहति कालिमानम् ३८
क्वचित्प्रवरगैरिकासमसमुल्लसत् पंकजं लवंगदलसन्निभासनचलच्चकोरं क्वचित्
क्वचिद्गिरिसरित्तटीतरणिवत्स्फुरत्कुंडलं चलन्निचुलमंजरीविनयनम्रभृंगं क्वचित् ३९
क्वचिद्दलितकोकिलाकुलितनूत्नचूतांकुरं कुरंगकुलसेवितं प्रबलशालिमूलं क्वचित्
क्वचित्प्रवरसुंदरैः सुरवधूपदैः पावनं वनं नयति विक्रियामिह मनो मुनीनामपि ४०
एवंगुणसमायुक्तं विलोक्य हरमंदिरम्
विचित्रं चापि कैलासं सर्वरत्नसमाश्रयम् ४१
अत्यंतविस्मितो दैत्यः प्रोवाच भृगुनंदनम्
कस्मात्तं तापसं तात प्रवदंति भवादृशाः ४२
तादृशी यस्य सा भार्या गृहमीदृङ्मनोहरम्
तत्रादृष्ट्वावदच्छंभुं हरः कुत्र गतः कवे ४३
कथं मम भयाच्चेति पृष्टः प्रोवाच भार्गवः
देवशंभुर्महाशैलमगम्यं मानसोत्तरम् ४४
ययौ तत्र महादेवो गंतुं चान्यैर्न शक्यते
इति काव्यवचः श्रुत्वा प्राह दैत्यो महाबलः ४५
जालंधर उवाच-
अहं यास्यामि देवेशं त्वं पुरा गच्छ भार्गव
इत्युक्त्वा प्रययौ तत्र यत्रास्ते शंकरः स्वयम् ४६
अपश्यत्तं गिरिवरं सिंधुजो मानसोत्तरम्
तस्य षष्टिसहस्राणि योजनानां समुच्छ्रयः ४७
स शैलो मानसो राजन्दैत्यसैन्यैः समावृतः
बहवो दैत्यराजानः शैलमारुरुहुर्द्रुतम् ४८
छत्रांधकारं पर्यासीत्वाद्यनादेन वेपथुः
सैन्यकोलाहलस्तेषां पूरयामास रोदसी ४९
नारद उवाच-
अथैवमागतं दृष्ट्वा दैत्यसैन्यं महत्तदा
अत्युच्चे स गिरेः शृंगे स्थाप्य गौरीं सखीवृताम् 6.11.५०
भगवांश्च गणैः सर्वैः सन्नद्धैर्युद्धदुर्मदैः
त्रिंशन्महाब्जसाहस्रैः प्रमथानां वृतः शिवः ५१
उवाच नंदिनं शंभुर्गणानामधिपं त्वया
प्रहर्तव्यो महादैत्यो वीरो जालंधरो रणे ५२
महाकालादिभिः शूरैर्याहि त्वं परिवारितः
तावदाजौ त्वया तस्माद्योद्धव्यमतिपौरुषात् ५३
यावद्युद्धे नारिजयो मम वीर भविष्यति
इति शंभोर्वचः श्रुत्वा स च सारथिमब्रवीत् ५४
काकतुंडरथं मेऽद्य समानय महामते
नंदिनो वचनं श्रुत्वा सोपि स्यंदनमाहरत् ५५
द्वात्रिंशदश्वसंयुक्तं चक्रषोडशसंयुतम्
षष्टिध्वजसमोपेतं द्वात्रिंशद्योजनायुतम् ५६
सर्वशस्त्रैश्च संपूर्णं प्राप्तं सांग्रामिकं रथम्
नंदिनश्चक्ररक्षार्थं पुत्रौ स्कंदविनायकौ ५७
समादिष्टौ शंकरेण सन्नद्धौ तौ स्ववाहनौ
गणैः परिवृतो नंदी वाग्भिः संपूज्य चेश्वरम् ५८
नंदी रथं समारुह्य निर्ययौ दानवान्प्रति
विराजते तस्य मूर्ध्नि छत्रं द्वादशयोजनम् ५९
यावत्स निर्ययौ नंदी तावत्ते दानवाः पुरः
शैलोपरि समारूढा दानवा घोरदर्शनाः ६०
गणानामायुधैस्तीक्ष्णैः निहताः पतिता भुवि
हन्यमाना गणैर्दैत्यास्तत्यजुर्दूरतो गिरिम् ६१
ततो धूमसमं तस्मादवरुह्य शिलोच्चयात्
जघ्नुर्दैत्यान्शितैः शस्त्रैर्गणा राजन्महाबलान् ६२
अमरैराचितं दृष्ट्वा रुरुधुर्दैत्यसैनिकाः
ततः समभवद्युद्धं गणानां दानवैः सह ६३
शरवर्षमथात्युग्रं दानवानां दिवौकसाम्
ततः समस्तान्मातंगाञ्जघ्नुः शिखिमुखा रणे ६४
रथान्हयान्पदातींश्च काकतुंडा महाबलाः
हतानां दैत्यसंघांनां संगरे भृशमायिनाम् ६५
शिरोभिर्गगनं व्याप्तं प्रहसद्भिर्भयावहैः
मुक्तकेशारुणमुखैर्भीमदंष्ट्राविलोचनैः ६६
सिंहैः कबंधजंघोरुकटिपृष्ठनिकृंतनैः
चिता सर्वत्र वसुधा कबंधैरुधिरारुणैः ६७
ततो विरावः सुमहान्बभूव दैत्येश्वराणां ध्वजिनीषु धावताम्
शंभोर्गणैः पातितसैनिकानां यथार्णवानां नदतां युगक्षये ६८
इति श्रीपाद्मे महापुराणे पंचाशत्सहस्रसंहितायामुत्तरखंडे नारदयुधिष्ठिर-
संवादे जालंधरोपाख्याने दैत्यसैन्यपराजयोनाम एकादशोऽध्यायः ११