पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०९५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ०९४ पद्मपुराणम्
अध्यायः ०९५
वेदव्यासः
अध्यायः ०९६ →

नारद उवाच।
अथोर्जव्रतिनः सम्यगुद्यापनविधिं नृप ।
तच्छृणुष्व मयाख्यातं किं विधानं समासतः १।
ऊर्ज्जशुक्लचतुर्दश्यां कुर्यादुद्यापनं व्रती ।
व्रतसंपूर्णतार्थाय विष्णुप्रीत्यर्थमेव च २।
तुलस्या उपरिष्टात्तु कुर्यान्मंडपिकां शुभाम् ।
सुतोरणां चतुर्द्वारां पुष्पचामरशोभिताम् ३।
द्वारेषु द्वारपालांश्च पूजयेन्मृन्मयान्पृथक् ।
पुण्यशीलं सुशीलं च जयं विजयमेव च ४।
तुलसीमूलदेशे च सर्वतोभद्रमालिखेत् ।
चतुर्भिर्वर्णकैः सम्यक्शोभाढ्यं समलंकृतम् ५।
तस्योपरिष्टात्सपिधानं पंचरत्नसमन्वितम् ।
महाफलेन संयुक्तं कुंभं तत्र निधाय च ६।
पूजयेत्तत्र देवेशं शंखचक्रगदाधरम् ।
कौशेयपीतवसनं युक्तं जलधिकन्यया ७।
इंद्रादिलोकपालांश्च पूजयेन्मंडले व्रती ।
द्वादश्यां प्रतिबुद्धः स त्रयोदश्यां यतः सुरैः ८।
दृष्टोऽर्चितश्चतुर्दश्यां तस्मात्पूज्यस्तथाधिकम् ।
तस्यामुपवसेद्भक्त्या शांतः प्रयतमानसः ९।
पूजयेद्देवदेवेशं सौवर्णं गुर्वनुज्ञया ।
उपचारैः षोडशभिर्नानाभक्ष्यसमन्वितैः १०।
रात्रौ जागरणं कुर्याद्गीतवाद्यादि मंगलैः ।
गीतं कुर्वंति ये भक्त्या जागरे चक्रपाणिनः ११।
जन्मांतरशतोद्भूतैस्ते मुक्ताः पापसंचयैः ।
जागरे वासरे विष्णोर्गीतं नृत्यं च कुर्वताम् १२।
गोसहस्रं च ददतां तत्फलं समुदाहृतम् ।
गीतनृत्यादिकं कुर्वन्दर्शयेत्कौतुकानि च १३।
पुरतो वासुदेवस्य रात्रौ यो हरिजागरे ।
पठन्विष्णुचरित्राणि यो रंजयति वैष्णवान् १४।
मुखेन कुरुते वाद्यं स्वेच्छालापांश्च दर्शयन् ।
भावैरेतैर्नरो यस्तु कुरुते हरिजागरम् १५।
दिनेदिने तस्य पुण्यं तीर्थकोटिसमं स्मृतम् ।
ततस्तु पौर्णिमास्यां वै सपत्नीकान्द्विजोत्तमान् १६।
त्रिंशन्मिताननेकान्वा स्वशक्त्या वा निमंत्रयेत् ।
वरान्दत्त्वा यतो विष्णुर्मत्स्यरूपी अभूत्तदा १७।
तस्यां दत्तं हुतं जप्तं तदक्षयफलं स्मृतम् ।
अतस्तान्भोजयेद्विप्रान्पायसान्नादिना व्रती १८।
अतो देवा इति द्वाभ्यां जुहुयात्तिलपायसम् ।
प्रीत्यर्थं देवदेवस्य देवानां च पृथक्पृथक् १९।
दक्षिणां च यथाशक्ति प्रदद्यात्प्रणमेच्च तान् ।
पुनर्देवं समभ्यर्च्य देवांश्च तुलसीं तथा २०।
ततो गां कपिलां तत्र पूजयेद्विधिवद्व्रती ।
गुरुं व्रतोपदेष्टारं वस्त्रालंकरणादिभिः २१।
सपत्नीकं समभ्यर्च्य गां च तस्मै प्रदापयेत् ।
युष्मत्प्रसादाद्देवेशः प्रसन्नो मे भवेत्तदा २२।
व्रतादस्माच्च यत्पापं सप्तजन्मकृतं मया ।
तत्सर्वं नाशमायातु स्थिरा मे चास्तु संततिः २३।
मनोरथाश्च सफलाः संतु नित्यं ममार्चनात् ।
देहांते वैष्णवं स्थानं प्राप्नुयामतिदुर्लभम् २४।
इति क्षमाप्यतान्विप्रान्प्रसाद्य च विसर्जयेत् ।
तामर्चां गुरवे दद्याद्रत्नयुक्तां तदा व्रती २५।
तदा सुहृद्गुरुयुतः स्वयं भुंजति भक्तिमान् ।
कार्त्तिके वाथ तपसि विधिरेवंविधः स्मृतः २६।
एवं यः कुरुते सम्यक्कार्तिकस्य व्रतं नरः ।
विपाप्मा स विनिर्मुक्तो विष्णुसान्निध्यगो भवेत् २७।
सर्वव्रतैः सर्वतीर्थैःस र्वदानैश्च यत्फलम् ।
तत्कोटिगुणितं ज्ञेयं सम्यगस्य विधानतः २८।
ते धन्यास्ते महापुण्यास्तेषां सर्वफलोदयः ।
विष्णुभक्तिरता ये स्युः कार्तिके व्रतकारिणः २९।
देहस्थितानि पापानि वितर्कं यांति तद्भयात् ।
क्व यास्यामो वदंत्येवं यद्ययं व्रतकृन्नरः ३०।
इत्यूर्जव्रतनियमान्शृणोति भक्ता ये चैतत्कथयंति चैव वैष्णवाग्रे ।
ते सम्यग्व्रतकरणात्फलं लभेरन्तत्सर्वं कलुषविनाशनं लभंते ३१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे उद्यापनवर्णनोनाम पंचनवतितमोऽध्यायः ९५।