पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १३८

विकिस्रोतः तः
← अध्यायः १३७ पद्मपुराणम्
अध्यायः १३८
वेदव्यासः
अध्यायः १३९ →

महादेव उवाच।
गणतीर्थं ततो गच्छेत्तीर्थयात्रापरायणः ।
त्रिविष्टपमिति प्रोक्तं गणैस्तु चंदना तटे १।
त्रिविष्टपे नरः स्नात्वा पूर्णमास्यां समाहितः ।
संशयो नात्र कर्त्तव्यो मुच्यते ब्रह्महत्यया २।
चतुरो वार्षिकान्मासान्स्थितिर्यस्य त्रिविष्टपे ।
सोऽपि पुण्यो महाभागे रुद्रलोके महीयते ३।
गणतीर्थे नरः स्नात्वा कृष्णाष्टम्यामुपोषितः ।
बकुलासंगमे स्नात्वा स्वर्गं गच्छति मानवः ४।
तस्मिंस्तीर्थे नरः स्नात्वा बकुलेशं विलोक्य च ।
गणेश्वरप्रसादेन गाणपत्यमवाप्नुयात् ५।
इदं पवित्रं परमं पुण्यायुष्यविवर्द्धनम् ।
श्रुत्वा तु लभते पुण्यं गंगास्नानसमं नरः ६।
अत्र स्थित्वा निराहारो जितेंद्रिय समाहितः ।
जपत्येवं परं देवं गणेश्वरं मनोरमम् ७।
संप्राप्नोत्यखिलान्भोगान्सत्यं सत्यं वरानने ।
अत्र राजा सोमवंशी विश्वदत्तः स वीर्यवान् ८।
तेन तपो महत्तप्तं बहुकालं सुरेश्वरि ।
गाणपत्यं तदा प्राप्तं श्रीगणेशप्रसादतः ९।
वसिष्ठो वामदेवश्च होडः कौशीतको मुनिः ।
भरद्वाजोंगिराश्चैव विश्वामित्रोऽथ वामनः १०।
एते वै मुनयः सर्वे पुण्यरूपा महेश्वरि ।
नित्यं सेवां प्रकुर्वंति श्रीगणेशप्रसादतः ११।
अपुत्रो लभते पुत्रान्निर्द्धनो लभते धनम् ।
अविद्यो लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् १२।
किमन्यद्बहुनोक्तेन भूयोभूयो वरानने ।
योऽत्र स्नानं प्रकुर्वीत पूजनं वा करोति च १३।
सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् ।
शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे १४।
नांतरं देवि पश्यामि श्रीविष्णोश्च प्रसादतः १५।
इति श्रीपाद्मे महापुराणे पंचपंचात्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे बकुलासंगमे गणतीर्थं नामाष्टत्रिंशाधिकशततमोऽध्यायः१३८।