पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः २१४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २१३ पद्मपुराणम्
अध्यायः २१४
वेदव्यासः
अध्यायः २१५ →

नारद उवाच-
इत्याकर्ण्य पितुर्वाक्यं स जगाम त्वरान्वितः ।
पुण्यं मधुवनं राजन्गयाशतगुणाधिकम् १।
तत्तीर्थवासिनो विप्रान्सायमामंत्र्य मंत्रवित् ।
काले पुनः समाहूय बभाषे स्वागतं वचः २।
ततः प्रक्षाल्य तत्पादौ गंधाद्यैरभिपूज्य च ।
पादार्घ्यमददात्प्रीत्या समेन स्वयमाचमत् ३।
ततस्तान्ब्राह्मणान्नीत्वा श्राद्धदेशे न्यवेशयत् ।
कुशांबु तुलसीपुष्प गंधाक्षत तिलैः सह ४।
पूरयित्वा कर्मपात्रं पुंडरीकाक्षमस्मरत् ।
देवताभ्य इति श्लोकं त्रिःकृत्वा सोऽपठद्द्विजः ५।
सतिलं शोधितकुशैर्विदधे बंधनं ततः ।
अग्निष्वात्तेति मंत्रेण पूर्वादीनां दिशां क्रमात् ६।
रक्षोभूतेति मंत्रेण नीवीबंधं व्यधाच्च सः ।
ततः प्रतिज्ञामाधाय ददौ द्विजकुशासनम् ७।
पितॄन्समाह्वयामास स तदा ब्राह्मणोत्तमः ।
दत्त्वा ततस्तु हस्तार्घ्यं पात्रं न्युब्जीचकार वै ८।
कृत्वा गंधादिदानं च पुनः सव्येन चाचमत् ।
सव्यापसव्येन तदा दत्वा पात्राणि स द्विजः ९।
तैर्ब्राह्मणैरनुज्ञातश्चक्रेऽग्नौकरणं ततः ।
आज्यादिहविषा राजंस्तान्यमत्राण्यपूरयत् १०।
अनुत्तानोत्तानपाणिः कुर्वन्पात्रावलंबनम् ।
पपाठ पाठितो विप्रैः पृथ्वी त्वेति द्विजन्मनाम् ११।
असंस्कृतप्रणीतानामिति मंत्रेण स द्विजः ।
दर्भेषु दक्षिणाग्रेषु ददौ च विकिरासनम् १२।
अग्निदग्धेति मंत्रेण घृतमिश्रान्नमक्षिपत् ।
जलेन सह राजेंद्र विष्टरे कुशकल्पिते १३।
सव्येन पुनराचम्य ददौ चुलकजीवनम् ।
तृप्ताः स्थेति च संपृच्छ्यातृप्तास्म प्रतिभाषिताः १४।
शेषान्नभोजने तेषां जग्राहाज्ञां द्विजन्मनाम् ।
पिंडार्थं वेदिकां कृत्वा वितस्तिप्रमितां द्विजः १५।
रेखां चकार दर्भेण दक्षिणाभिमुखीं नृप ।
ये रूपाणीति मंत्रेण दधेऽग्निदिशि चोल्मुकम् १६।
पूर्वजन्मनि या माता पिता यश्च महीपते ।
तयोश्च पितरौ यौ हि यौ च राजन् पितामहौ १७।
यः प्रमातामहश्चापि पितरौ राजसत्तम ।
पित्रादीन्षट्सपत्नीकांस्तानुद्दिश्य यथाविधि १८।
कुशासनानि दत्त्वा वै ददौ पिंडान्षडैव हि ।
गंधादिभिश्च संपूज्य मध्यपिंडविसर्जनम् १९।
कृत्वाघ्राय च वामांसे पिंडपात्रं न्यवेशयेत् ।
जलपात्रं तदादाय वाजेवाजे पठन्निति २०।
पाद्यार्घं च पुनर्दत्त्वा दक्षिणाद्यैरतूतुषत् ।
आद्वारं ताननुव्रज्य तेभ्यो लब्ध्वानुशासनम् २१।
बुभुजे च स्वयं राजन्बांधवैः सह स द्विजः ।
एवं समाप्य राजेंद्र श्राद्धं स द्विजसत्तमः २२।
पूर्वसबंधिनां तत्र तीर्थे मधुवने शुभे ।
यदा चचाल शांतात्मा पितुराश्रमकं प्रति २३।
तदा संमिलिता मार्गे सर्वे ते श्राद्धभोजिनः ।
विमानषट्कमारूढा दिव्याभरणभूषिताः ।
दिव्यांबरधरा राजन्नित्यूचुस्तं द्विजोत्तमम् २४।
पितर ऊचुः -
भो वत्स विप्रशार्दूल वृणीष्व वरमुत्तमम् ।
तीर्थेऽत्र कुर्वता श्राद्धं भवता तारिता वयम् २५।
वयं गणत्वमापन्नाः श्रीपतेस्त्वत्प्रसादतः ।
प्रार्थयस्व महाबुद्धे यदिष्टं तव चेतसि २६।
मुनिपुत्र उवाच-
के यूयं कुत आयाता गणत्वं हि कुतो गताः ।
उपकारं विना कस्माद्वरं यन्मे प्रयच्छत २७।
नारद उवाच-
इत्याकर्ण्यवचस्तस्य पूर्वजन्मसुतस्य वै ।
पिता प्रोवाच यो दुःखाद्भक्षयित्वा विषं मृतः २८।
पितोवाच -
अहं तव पिता विप्र पूर्वजन्मनि भूसुरः ।
भार्यया व्यभिचारिण्या मात्रा ते पीडिता भृशम् २९।
अतीवदुःखमापन्नो भक्षयित्वा विषं निशि ।
अपमृत्युं गतस्तस्मादभवं रजनीचरः ३०।
एवं मन्वतरं तात शतं पंचदशाधिकम् ।
वर्षाणां च व्यतीतं तद्राक्षसत्वं गते मयि ३१।
इदानीं षोडशाब्दे तु त्वया श्राद्धे कृतेऽत्र वै ।
पुण्ये मधुवने तीर्थे देवत्वं प्राप्तवानहम् ३२।
एतद्विमानमायांतं स्वर्गादिंद्रप्रणोदितम् ।
सगणं साप्सरोवृंदं ममारोहणहेतवे ३३।
अत्र तुभ्यं वरं दातुं सगणः साप्सरोगणः ।
विमानवरमारुह्य गच्छन्स्वर्गेऽहमागमम् ३४।
वरं वरय भद्रं ते न विलंबसहा वयम् ।
ऐरावतगजारूढः सुरेशो मामवेक्षते ३५।
नारद उवाच।
इत्युक्त्वा निजवृत्तांतं दत्त्वा च निजसूनवे ।
तत्प्रार्थितां हरेर्भक्तिं जगाम स दिवं नृप ३६।
अथ प्रोवाच तन्माता पूर्वजन्मसुतं च तम् ।
मातोवाच-।
त्वत्प्रसादादहं जाता देवी मुक्ता च पापतः ३७।
प्राप्तं शच्याः सखीत्वं मे पापयापि द्विजोत्तम ।
त्वयात्र विहिते श्राद्धे तीर्थे विश्रांतिसंज्ञके ३८।
प्रार्थयस्व महाभाग निजचित्तसमीहितम् ।
ददामि ते यतोऽस्माकं देवीनां न वचो मृषा ३९।
येन पापेन जाताहं गोधा च पितृकानने ।
नरके चिरमास्थाय तत्त्वं वेत्सि द्विजोत्तम ४०।
अनुजानीहि मां पुत्र पुलोमतनया दिवि ।
मामपेक्षितमाकाशे वृता देवांगनागणैः ४१।
नारद उवाच-
इत्युक्त्वा सापि तन्माता निष्कामाय स्वसूनवे ।
ययौ त्रिविष्टपं राजन्शिरसा तेन वंदिता ४२।
ततः पितामहस्तस्य स्वपौत्रं तं द्विजोत्तमम् ।
उवाच वचनं भूयः हरेर्बिभ्रत्स्वरूपताम् ४३।
पितामह उवाच-
वत्सवत्स चिरंजीव लभस्व निजवांच्छितम् ।
त्वत्प्रसादाद्वयं तीर्णा दुस्तराद्भवसागरात् ४४।
पितामहोऽहं ते वत्स तवेयं च पितामही ।
मृतं मानुगता साध्वी सालोक्यमचिरं गता ४५।
अद्य त्वयात्र विश्रांतौ विहिते श्राद्धकर्मणि ।
आवयोस्तु हरेर्लोके लब्धा तस्य स्वरूपता ४६।
नारद उवाच-
एवमुक्त्वा तया सार्द्धं स्वस्त्रिया भूपसत्तम ।
ब्रह्मलोकमतिक्रम्य वैकुंठं स ययौ द्विजः ४७।
अथ प्रोवाच राजेंद्र वचस्तत्प्रपितामहः ।
यत्ते तत्कथयाम्यद्य शृणुष्वैकमना द्विज ४८।
प्रपितामह उवाच-
भोभो वत्स महाभाग तवाहं प्रपितामहः ।
भ्रूणहत्याफलेनाहं शौकरीं योनिमाप्तवान् ४९।
ततो विनिर्गतस्तात श्वाभवं पापपीडितः ।
ततः स्थावरतां प्राप्तो विंध्ये पर्वतसत्तमे ५०।
तत्रापि चिरकालेन स्थितं स्थावरतां दधत् ।
हस्तिना केनचित्तात मूलादुत्पाटितो बलात् ५१।
तस्मिन्नेव ततः काले त्वया श्राद्धमकारि वै ।
अस्मिंस्तीर्थोत्तमे तात मुक्तोऽहं स्थावरात्ततः ५२।
प्राप्तोऽयं यक्षराजस्य नगर्य्यां वास उत्तमः ।
देह्यनुज्ञां द्विजश्रेष्ठ यामि तां त्वत्प्रसादतः ५३।
त्वां दिदृक्षुरिहायातो दृष्टस्त्वं पुण्यदर्शनः ।
तीर्थं च सर्वतीर्थेषु श्रेष्ठं मधुवनं मया ५४।
नारद उवाच-
इत्युक्तस्तेन राजेंद्र मुनिपुत्रः स धर्मवित् ।
पप्रच्छ शिरसा नम्य तं निजं प्रपितामहम् ५५।
ऋषिरुवाच-
ब्राह्मणानां कुले तात जातोऽसि त्वं गरीयसि ।
कथं विहितवान्पापं भ्रूणहत्याभिधं गुरो ५६।
येन निंद्यां समापन्नो भवान्योनिपरं पराम् ।
समाचक्ष्व महाभाग यदि तत्स्मृतिरस्ति ते ५७।
प्रपितामह उवाच-
पुराहं द्विजशार्दूल ब्राह्मणस्येव जन्मनि ।
मंत्रयंत्रविधानेन कृतवान्वृत्तिमात्मनः ५८।
धनलोभेन नारीणां गर्भार्थमहमौषधम् ।
दत्तवांश्चैव नाशाय दैवोपहतचेतनः ५९।
लोभो हि धनहीनानां जनानां ज्ञानमाहरेत् ।
शुचिकाले दिनाधीशः कुल्यानामिव जीवनम् ६०।
ज्ञाने नष्टे जनस्तात पापमाचरते ध्रुवम् ।
पापान्नरकमाप्नोति ततो याति कुयोनिताम् ६१।
काचिदेका तदा नारी गुर्विणी मामपृच्छत ।
किं जनिष्याम्यहं विप्र पुत्रं वेत्यथ वा स्त्रियम् ६२।
तदाहमुक्तवांस्तां वै तव कन्या भविष्यति ।
पुत्रोत्पत्तिकृते तुभ्यं प्रदास्यामि महौषधम् ६३।
इत्युक्ता च मया नारी दुर्बुद्धिस्त्रीशिरोमणिः ।
जग्राह मम पादौ तु दत्तं हेमपलं च मे ६४।
इत्युवाच च सा मह्यं षट्कन्याजनिता मया ।
सप्तमीयं त्वया चोक्ता जीविष्ये स्या न जन्मनि ६५।
तथा कुरु महाबुद्धे यथाहं वै न कन्यकाम् ।
जनयिष्यामि विप्रान्यां निजप्राणविनाशिनीम् ६६।
इत्याकर्ण्य वचस्तस्यास्तामहं पुनरुक्तवान् ।
प्रसूतिकाले दास्यामि पुत्रोत्पाद्यहमौषधम् ६७।
तथेति सा वचो मह्यं प्रतिश्रुत्य गता गृहम् ।
अपेक्षमाणा तं कालं तस्थौ वाक्यप्रतीतिकृत् ६८।
तस्यां गतायां भो तात चिंतया भवमातुरः ।
इत्यहं द्विजशार्दूल तच्छृणुष्व वदामि ते ६९।
पुत्रोत्पत्तिप्रतीतेयं मह्यं दत्तवती पलम् ।
सुवर्णस्य न जानामि किमस्याः संभविष्यति ७०।
किमत्र करणीयं मे कथमेतत्सुवर्णकम् ।
पलप्रमाणं तिष्ठेद्वै दरिद्रस्य गृहे मम ७१।
एवं विमृश्य तद्दास्यास्तस्यै हस्तेन दापितम् ।
गर्भपातकरं तात मया दारुणमौषधम् ७२।
तेनौषधेन तस्यास्तु गर्भस्रावेऽभवत्तदा ।
मासे तृतीये न ज्ञातं चिह्नं पुरुषकन्ययोः ७३।
तदा सा मद्गृहं प्राप्ता विषण्णा गर्भस्रावतः ।
अथार्थयत्सुवर्णं तन्निराशा पुत्रजन्मनि ७४।
तदाहमिष्टकाचूर्णं भस्मना च समन्वितम् ।
हरिद्राचूर्णसंयुक्तं सांबु तस्यै अदर्शयम् ७५।
एतच्चूर्णं कृतं मातस्त्वत्पुत्रोत्पत्तये मया ।
त्वद्दानाद्द्विगुणं द्रव्यं लग्नमेतस्य साधने ७६।
इत्युक्त्वा सा मया तात त्यक्त्वा चूर्णं गृहं ययौ ।
मामुक्त्वेति गृहीष्यामि काले त्वत्तो द्विजोत्तम ७७।
एवं मया कृता तात भ्रूणहत्यातिदारुणा ।
ययातिकुत्सिते योनित्रितये भ्रमितं मया ७८।
त्वत्प्रसादादहं मुक्तः सांप्रतं स्थावरत्वतः ।
देह्यनुज्ञां मुनिश्रेष्ठ याम्यहं ह्यलकां शुभाम् ७९।
नारद उवाच-
एवमुक्त्वा तु राजेंद्र तस्य तु प्रपितामहः ।
तेनाभिवंदितो मूर्ध्ना प्रययौ दिशमुत्तराम् ८०।
विमानेन विचित्रेण किंकिणीजालमालिना ।
नृत्यद्गंधर्वजुष्टेन मणिप्राकारशोभिना ८१।
अथ तस्य महाराज विप्रस्य प्रपितामही ।
उवाच स्वप्रपौत्रं तं विमानवरमास्थिता ८२।
प्रपितामह्युवाच ।
नान्यत्र कुत्र गंतासि पुण्येनानेन सुव्रत ।
विना पद्मापतेः पादपद्मचिह्नितमंदिरम् ८३।
अयं मम पतिः पापो मुने त्वत्प्रपितामहः ।
वारितोऽपि मया पापमाचचार सुदुष्टधीः ८४।
सोऽपि त्वयातिपापात्मा तारितो दुःखसागरात् ।
शक्यते केन वै कर्तुं तावकं गुणवर्णनम् ८५।
नारद उवाच-
इत्युक्त्वा सापि राजेंद्र पतिलोकं जगाम ह ।
अलकायां चिरं पत्या तेनैव मुमुदे सह ८६।
अथ ते मुनिपुत्रस्य सर्वे मातामहादयः ।
सपत्नीकाः समारुह्य विमानेषु ययुर्दिवम् ८७।
सोऽपि द्विजवरस्तस्मात्तीर्थात्स्वपितुराश्रमम् ।
गत्वा तं सर्ववृत्तांतं स्वपित्रे समवर्णयत् ८८।
सोऽपि तत्र गतः सार्द्धं कुटुंबेन वने मधोः ।
चकार पर्णशालां वै विश्रांतेस्तु समीपतः ८९।
तत्र विश्रांततीर्थं तु त्रिकालं स्नानमाचरन् ।
नाकरोद्विष्णुलोकेऽपि स्पृहां स मुनिसत्तमः ९०।
एकदा जलमध्ये स स्नानं कुर्वन्मुनिर्नृप ।
आचकांक्षे च भवता कदा मे हरिदर्शनम् ९१।
एवं कामयमानस्य मुनिवर्यस्य भूपते ।
आजगाम त्वरायुक्तो पक्षिराजासनो हरिः ९२।
लक्ष्म्या वक्षःस्थया सार्द्धं चतुर्बाहुधरो हरिः ।
नवीनघनवर्णांगो विद्युद्वर्णांबरावृतः ९३।
कौस्तुभोद्भासि सद्वक्षाः शंखचक्रगदाब्जभृत् ।
वनमालालसत्कंठो मकराकृतिकुंडलः ९४।
फुल्लांबुजपलाशाक्षः स्वलकालं कृताननः ।
विद्रुमाकारकरजोरुणहस्तांघ्रिसत्तलः ९५।
उवाच तं द्विजश्रेष्ठं दंतभासा विभासयन् ।
शरन्निशापतिस्तोम तिरस्कारकृतादिशः ९६।
श्रीभगवानुवाच-
भोभो द्विजवरैतन्मे तीर्थं मधुवनं शुभम् ।
विश्रांतसंज्ञकं स्नानात्सर्वकामोपपादकम् ९७।
अत्र त्वया स्नानकाले वांछितं मम दर्शनम् ।
तुभ्यं हि तन्मया दत्तं ब्रह्मादिसुरदुर्लभम् ९८।
त्यज देहमिमं विप्र मानुषं दिव्यमाप्नुहि ।
आयाहि मद्गृहं सार्द्धं मयारुह्य खगेश्वरम् ९९।
नारद उवाच-
इत्याकर्ण्यवचस्तस्य श्रीपतेः स मुनीश्वरः ।
तुष्टाव प्रणतो भूत्वा जल एव विशांपते १००।
मुनिरुवाच-
श्रीपते श्रीमदंभोज संमर्दितपदांबुजम् ।
भवतो भवतापघ्नं वंदे त्रिदशवंदितम् १०१।
त्वदीय मायया नाथ मोहिता येऽत्र जंतवः ।
तेषां कदाचिन्निस्तारो न कृपामंतरेण ते १०२।
सत्तीर्थसेवनादीश तथा सज्जनसंगमात् ।
पुसां भक्तिस्तु येषां वै जायते कृपया तव १०३।
साधुभिर्बहुभिरीरितं हरे यो निशम्य गुणकीर्त्तनं तव ।
कीर्तयत्यखिलपापनाशनं मातृगर्भकुहरे स नो पतेत् १०४।
श्रीपते तव जनस्य मानसं दैवतस्तु पतितं महारणे ।
गुंठितं च रजसा जहाति नो निर्मलत्वमिव रत्नमुत्तमम् १०५।
यः पुमान्पतति ते पदांबुजे दंडवत्पुलकमंगके दधत् ।
सोन्वयं नयति तावकं पदं स्वं च वांछितमशेषयोगिभिः १०६।
जीव एव तव मायया विभो मोहितो भ्रमति विश्ववर्त्मसु ।
त्वत्कृपाललितलोचनांचलैस्तत्क्षणं तरति विश्ववारिधिम् १०७।
नारद उवाच-
इति संस्तुत्य गोविंदं दंडवत्तस्य पादयोः ।
पपात स मुनिश्रेष्ठो जयेति मुहुरीरयन् १०८।
श्रीपतिस्तं मुनिश्रेष्ठं दंडवत्पतितं भुवि ।
उत्थाप्य बाहुभिस्तूर्णं सुपर्णे समरोपयत् १०९।
तत्कुटुंबं च विश्वात्मा वैकुंठं च जगाम ह ।
इत्येतत्कथितं राजन्शिवे मधुवनस्य वै ११०।
महात्म्यं सर्वपापघ्नं किमन्यच्छ्रोतुमिच्छसि ।
य इदं शृणुयान्मर्त्यः सर्वपापैः प्रमुच्यते १११।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे कालिंदीमाहात्म्ये मधुवनमाहात्म्यंनाम चतुर्दशाधिकद्विशततमोऽध्यायः २१४ ।